विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 251, कुल 1001 में से
संदर्भ में पढ़ेंअग्निरुवाच ॥ तत्सत्रं कर्तुकामेन चान्वेष्टव्यो ब्राह्मणो गुरुः ॥ ज्योतिषं यो विजानाति इतिहासांश्च कृत्स्नशः ॥ २ ॥ तत्प्रदिष्टेन विधिना पादक्षात्प्रभृति क्रमात् ॥ उपोषितव्यं नक्षत्रं प्रत्येकं तन्निबोध मे ॥ ३ ॥ फाल्गुन्यां समतीतायां कृष्णपक्षाष्टमी तु या ॥ समुत्पन्नां तां तु सम्प्राप्य व्रतं गृह्णीत मानवः ॥ ४ ॥ उपोषितव्यं नक्षत्रं नक्षत्रस्य च दैवतम् ॥ वरुणं च तथा चन्द्रं पूजयेद्विधिना नरः ॥ ५ ॥ पूजयेद्देवदेवेशं भगवन्तं जनार्द्दनम् ॥ उपोष्य शङ्कं देवस्य प्रयत्नेन च पूजयेत् ॥ ६ ॥ ततोऽभिप्लवनं कृत्वा पूजयित्वा तथा गुरुम् ॥ उपवासस्तु कर्त्तव्यो द्वितीयेऽहनि पार्थिव ॥ ७ ॥ उपोष्य ऋक्षे विगते स्नात्वा सम्पूज्य केशवम् ॥ कृत्वाऽन्हिकमहं भक्त्या पूजयित्वा द्विजोत्तमात् ॥ ८ ॥ हविष्यमन्त्रं भोक्तव्यं शृणु चाङ्गक्रमं मम ॥ पादयोः कथितं मूलं प्राजापत्यं तु जङ्घयोः ॥ ९ ॥ आश्विनं जानुयुगलं चोरुयुग्मं च पार्थिव ॥ सहिते द्वे तथाषाढे गुह्यं च सहिते स्मृते ॥ १० ॥ पूर्वोत्तरे च फाल्गुन्यौ कृत्तिकासु कटिर्भवेत् ॥ पार्श्वयोः कुक्षियुक्तान्येषु नक्षत्रनिश्चितं मतम् ॥ ११ ॥ उदरे प्रौष्ठपदे राजन्नेत्रती च तथा भवेत् ॥ उरोऽनुराधासु तथा पृष्ठं निष्ठायासु कीर्तितम् ॥ १२ ॥ भुजौ ज्ञेयौ विशाखासु हस्तौ प्रोक्तौ तथा करौ ॥ अङ्गुल्यश्च तथा प्रोक्ता राजसिंह पुनर्वसौ ॥ १३ ॥ आश्लेषायां तथा प्रोक्ता ज्येष्ठायां नृप कन्धरा ॥ श्रवणौ श्रवणौ ज्ञेय मुखं पुष्ये प्रकीर्तितम् ॥ १४ ॥ दन्ताः स्वातौ शतभिषा हनू प्रोक्तौ तथा नृप ॥ मघायां नासिका प्रोक्ता मृगशीर्षे च लोचने ॥ १५ ॥ चित्रा ललाटे विज्ञेया भरण्यश्च तथा शिरः ॥ शिरोरुहास्तथाऽऽर्द्रासु व्रतस्यान्ते नराधिप ॥ १६ ॥ मधुशुक्लावसाने तु सत्रं परिसमाप्यते ॥ यद्यन्तरायं न भवत्किंचिच्छौचनिमित्तजम् ॥ १७ ॥ अन्तरायं महाराज यदि शौचनिमित्तजम् ॥ उपोष्यमेवोपावसेत्सर्वसत्रसमम्परं पुनः ॥ १८ ॥ क्रमप्राप्तं हि नक्षत्रं चाशुद्ध्यामपवर्जितम् ॥ उच्छूद्यन्न्महीपाल प्रत्यवायं समश्नुते ॥ १९ ॥ अङ्गक्रमेण संक्कोलैलर्वङ्गकुसुमैस्तथा ॥ २१ ॥ व्रतान्ते प्रयततः स्नात्वा पूजयेन्मधुसूदनम् ॥ २० ॥ चन्दनागुरुकर्पूरमृगदर्पै