विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 252, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१०२॥
प्र०खं० अ० १५५ ॥३॥
रूपैव ॥ सर्वबीजानि राजेन्द्र भूषणानि च शक्तितः ॥ २६ ॥ महार्हाणि च वस्त्राणि भक्त्या प्रयतमानसः ॥ तद्विष्णोः परममिति होमः कार्यो ह्यनन्तरम् ॥ २७ ॥ द्वादशाक्षरकं मन्त्रं क्षीरवृक्षेषु विधीयते ॥ घृतं माक्षिकसंयुक्तं जुहुयात्तिलतण्डुलम् ॥ २८ ॥ ततस्तु दक्षिणा देया गुरवे नृपसत्तम ॥ नागाश्च मदमत्ता वै ग्रामाश्च विविधास्तथा ॥ २९ ॥ तुरगाश्च तथा मुख्या रत्नानि विविधानि च ॥ ब्राह्मणश्च पिता ज्ञेयो रूपसत्प्रप्रदर्शकः ॥ ३० ॥ रूपसौभाग्यलावण्यजन्मभोगप्रदायकः ॥ राज्यस्य वा द्विजत्वस्य बहुवित्तस्य दायकः ॥ ॥ ३१ ॥ न तस्य निष्कृतिः शक्या गन्तुं दानेन भूरिणा ॥ गुरुप्रसाद एवात्र दक्षिणानां तु कारणम् ॥ ३२ ॥ तस्मात्तस्मादकाङ्क्षीद्रूपमत्र प्रदर्शकात ॥ अवश्यं तस्य दातव्यं घृतपूर्णं तु भाजनम् ॥ ३३ ॥ चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥ ततः पुनः भोजनीयाः स्वशक्त्या द्विजपुङ्गवाः ॥३४॥ लवणक्षीरस्र्वाज्यक्षुद्रभक्ष्यसितोदकम् ॥ भोजनं पानकोपेतं पक्षाद्द्या च दक्षिणा ॥ ३५ ॥ वस्त्रयुग्मं प्रदातव्यं ब्राह्मणाम् नवं शुभम् ॥ ब्राह्मणार्य च दातव्यं महाराजतरङ्गिनम् ॥ ३६ ॥ सप्तबीजानि देयानि लवणं रूप्यमेव च ॥ गृहाद्यदष्टमंहन्याच्छ्रो- पानत्कमथैव च ॥ ३७ ॥ वित्तशाठ्यं न कर्तव्यं सत्तदाने महीपते ॥ अवश्यदेयं सद्गेहेस्मिन्घृतपूर्णं च भाजनम् ॥ ३८ ॥ चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥ व्रतेनानेन चीर्णेन देहत्यागे दिवं गतः ॥३९॥ तत्रोष्य सुचिरं कालं मानुष्ये यदि जायते ॥ राजा भवति धर्मात्मा ब्राह्मणा वा धनान्वितः ॥ ४० ॥ कुले महति सम्भूतो रूपेणाप्रतिमौ भुवि ॥ आरोग्यं महदाप्नोति सौभाग्यमपि चोत्तमम् ॥ ४१ ॥ लावण्यं बुद्धिर्मेध्यं च मति धर्मे च शाश्वतीम् ॥ सम्पूर्णचन्द्रप्रतिमः सर्वसत्त्ववशाङ्गजः ॥ ४२ ॥ नरो भवति राजेन्द्र नारी चाप्सरसोपमा ॥ सुभगा दर्शनीया च लावण्यगुणसंयुता ॥ ४३ ॥ बहुधान्या बहुधना बहुपुत्रपौत्रसंयुता ॥ भर्तुश्चात्यन्तदयिता लोके स्यात्तथा नृपः ॥ नित्यारोग्यवती कान्ता सर्वदोषविवर्जिता ॥४४॥ चन्द्रानना नीलसरोरुहानेत्रा त्रैलोक्यकान्ता पतिवल्लभा च ॥४५॥ भवत्यवश्यं सुभगा सुशीला लावण्ययुक्ता यशसा श्रिया च ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रूपसत्रवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ १५५ ॥ ॥ पुरूरवा उवाच ॥ भगवन्सर्वधर्मज्ञ पितामह महाद्युते ॥ गुरुत्वं मे व्रते तस्मिन्वक्तुमर्हसि मानद ॥ १ ॥ कृतवन्तं च मां तत्र लाभार्थं द्विज- पुङ्गव ॥ एवं शक्त्योस्यरूपेणस्मिन्कर्तुं ब्रह्मन्महद्धनुम् ॥ २ ॥ अत्रिरुवाच ॥ तत्र प्रमादं भगवान्सन्वात्मा मुनुमूर्द्धनः ॥ कुरुष्वेदं करिष्यामि
१ बहुवित्तस्य' इति ख० । २ 'स प्रमादो' इति ख० । ३ बुद्धिमत्कालीकी स्थितिः इति ख० । ४ मेधा धारणावती धीः । ५ 'दक्षताय' इति ख० ।