भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 259, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 259

तृप्तिमुपागतः ॥ २२ ॥ वितृष्णो विज्वरश्चैव क्षणेन समपद्यत ॥ ततः प्रेतेषु सर्वेषु क्रमाद्भागं तदा ददौ ॥ २३ ॥ दध्योदनस्तत्पानीयंतदैते तृप्तिं परां ययुः ॥ अथ सन्तर्पयित्वा तु प्रेतांस्तान्स तु सर्वशः ॥ २४ ॥ प्रेताधिपः स बुभुजे पश्चादन्नं यथासुखम् ॥ तस्य भुक्तवतस्त्वन्नं पानीयं च क्षयं ययौ ॥ २५ ॥ प्रेताधिपं ततस्तृप्तं वणिग्वचनमब्रवीत् ॥ आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ॥ २६ ॥ अन्नपानस्य सम्प्राप्तिः परमस्य कुतस्तव ॥ स्तोकेन च तथानेन बिभर्षि च बहुन्कथम् ॥ २७ ॥ तृप्ता अपि कथं सर्वे निर्मांसा भिन्नकुक्षयः ॥ कश्चित्त्वमस्यां घोरयामाटव्यां तु कृतालयः ॥ २८ ॥ एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥ एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत् ॥ २९ ॥ वाणिज्यासक्तस्य पुरा कालोऽतीतो ममानघ ॥ शाकले नगरे रम्ये नास्तिकस्य दुरात्मनः ॥ ३० ॥ धनलोभान्मया तत्र न कदाचिदपि प्रभो ॥ दत्तासीद्भिक्षवे भिक्षा कृपणेन कथञ्चन ॥ ३१ ॥ प्रतिवेश्यश्च तत्रासीद्ब्राह्मणो गुणवान्मम ॥ श्रवणद्वादशीयोगे मासि भाद्रपदे तदा ॥ ३२ ॥ स कदाचिन्मया सार्धं तीर्थे नाम नदीं ययौ॥तस्याश्च सङ्गमः पुण्यो यत्रासीच्चन्द्रभागया ॥३३॥ चन्द्रभागा सरिच्छ्रेष्ठा यत्र शीतजलोदका ॥ महादेवजटाजूटाद्गङ्गानिपतिता पुरा ॥३४॥ चन्द्रेण भागती न्यस्ता चन्द्रभागा स्मृता ततः ॥ तत्कालतप्तसलिले तोये तत्रार्कनन्दिनी ॥ ३५ ॥ शीतोष्णे चोदके तस्मिन्संगमे सुमनोहरे॥तं स देशं समासाद्य प्रातिवेश्यमसौ द्विजः ॥३६॥ श्रवणद्वादशीयोगे स्नात्वार्चन उपोषितः ॥चान्द्रभागस्य तोयस्य वारिधानी नवा दृढा ॥३७॥ दध्योदनयुतैः सार्धं सम्पूर्णगन्धमाल्यैः ॥ छत्रैश्चोपानहै रम्यैर्वस्त्रैश्च विविधैर्युता ॥३८॥ प्रददौ विप्रमुख्येभ्यो रहस्यज्ञो महीपतिः ॥चित्तसंरक्षणार्थाय तस्यापि च तदा मया ॥३९॥सोपवासेन दत्तैका वारधानी नवा दृढा ॥चान्द्रभागस्य तोयस्य दध्योदनयुता तदा॥४०॥गत्वा गृहमनुप्राप्य ततः कालेन केनचित्॥पश्चात्त्वहमासाद्य नास्तिक्यात्प्रेततां गतः॥४१॥ अस्यामटव्यां घोरायां यो वा ह्यकुशलस्तदा ॥ श्रवणद्वादशीयोगे दत्ता यासौ मयानघ॥ ॥४२॥दध्योदनयुतारम्या वारिधानी नवा दृढा॥ सेयं मध्याह्नसमये दिवसे दिवसे मम॥४३॥ उपतिष्ठत्यसंदेहं यथा दृष्टा त्वयानघ ॥ ब्रह्मस्वहारिणस्तेवै ते पापाः प्रेतत्वमागताः ॥४४॥ परदाररताः केचित्स्वामिद्रोहकराः परे॥ मित्रद्रोहकराः केचिद्देशेऽस्मिन्पुरुषदारुणे॥४५॥ ममाप्युद्दानं कुर्वन्ति अन्नपान कृतेऽनघ ॥ अक्षयो भगवान्विष्णुः परमात्मा सनातनः ॥४६॥ तद्बुद्धिस्तु यु ददत्तं तदक्षयं प्रकीर्तितम् ॥ अक्षयेन तथाऽन्नेन तृप्ता अपि हि मानद ॥ ४७ ॥ प्रेतभावेन दौर्बल्यं न विमुञ्चन्ति कर्हिचित् ॥ अहं च पूजयित्वा त्वामतिथिं समुपस्थितम् ॥ ४८ ॥ प्रेतभावाद्विनिर्मुक्तो यास्यामि


^१ 'प्रतिवेश्यश्च' इति क० । किंवात्र प्रकरणे सर्वत्रैव कपुस्तके प्रातिवेश्यस्थाने प्रतिवेश्य इत्येव लभ्यते ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 259, कुल 1001 में से · BharatKosha