विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 262, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० १७४
प्र० खं० अ० १७४
चण्डवेगश्च विप्रोऽभूद्रतौ मे पूर्वजन्मनि ॥ नास्तिको निरनुक्रोशोऽहस्तत्कर्मशास्त्रतः सदा ॥ १२॥ तत्रैव विषये राजा बभूव दधिवाहनः ॥ तस्य भार्या वयस्या मे बभूव कमला शुभा ॥ १३ ॥ सा कदाचिन्मामुवाच रहस्यं वरवर्णिनी ॥ नारी भर्तुःकृतादर्धं पुण्यं प्राप्नोति सुन्दरी ॥ १४ ॥ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥ पतिं शुश्रूषते या तु तेन स्वर्गे महीयते ॥ १५ ॥ कर्तव्यं योषिता पुण्यं पृथग्वापि तदिच्छया ॥ पति- स्ते नास्तिको भद्रे किञ्चिन्नाचरते शुभम् ॥ १६ ॥ न चाचरसि धर्मं त्वं तथा च तदनुज्ञया ॥ का गतिः परलोके ते भविष्यति शुभानने ॥ १७ ॥ इह यत्क्रियते कर्म प्रेत्य तत्राप्यनुज्यते ॥ येनोप्तं फलकाले तु स एवान्नाति भामिनि ॥ १८ ॥ मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ॥ नाचरन्ति शुभं ये तु तेषां जन्म निरर्थकम् ॥ १९ ॥ कदाचिदपि वामोरु योनिष्वथ परिभ्रमन् ॥ मानुष्यं नाम जायेत यन्नायत्तं शुभाशुभम् ॥ ॥ २० ॥ चण्डालत्वेऽपि मानुष्यं सर्वथा सवि दुर्लभम् ॥ आत्मा शक्यस्तया त्रातुं मानुष्यान्नान्यतः शुभे ॥ २१ ॥ तवोपरि तथा जाता सखी- भावेन मे कृपा ॥ कद्रूर्यस्यास्य भार्या त्वं सुस्वभावा पतिव्रता ॥ २२ ॥ तत्र तेऽनुग्रहं किञ्चित्करिष्यामि निबोध तत् ॥ हरस्य दयिता भार्या शैलेन्द्रतनया उमा ॥ २३ ॥ विस्तारितमहाकूला सा वितस्ता महा नदी ॥ अवृत्तिकर्पितः पापं कृत्वैव ऋतुपञ्चकम् ॥ २४ ॥ स्नानेनैकेन सकलं शेशिरेण व्यपोहति ॥ यस्यांन्यास्यां तिथौ स्नातः स्वर्गाग्नामोत्यसंशयम् ॥ २५ ॥ तस्यां सम्वत्सरं स्नात्वा मोक्षोपायं तु विन्दति ॥ या च सुम्बा- दुसलिता या च पापक्षयङ्करी ॥ २६ ॥ तस्यास्तीरे मया नित्यं प्रति संवत्सरं शुभे ॥ उपोष्य माघकृष्णस्य द्वादश्यां श्रवणे तथा ॥ २७ ॥ पूजितो भगवान्विष्णुर्ब्राह्मणाश्च हुताशनः ॥ तिलैस्तस्मात्तु ते ख्यातं ब्राह्मणैर्मतदुदं मम ॥ २८ ॥ तस्मात्स्तकं तिले यच्च यदन्नां पतितं न च ॥ ततः पुण्यफलं सर्वं त्वमाप्नुहि वरानने ॥ २९ ॥ इत्येवमुक्त्वा गत्वा भर्ता पृष्टस्तदा मया ॥ हसता तेन चाम्युक्ता गच्छ गह्णीष्व तत्फलम् ॥ ३० ॥ स्वयं कृत्वा शुभं कर्म कमला सा सखी मम ॥ सह भर्त्रा विशालानि विष्णोलोकमितो गता ॥ ३१ ॥ तल्लोकमक्षयं तस्याः श्रुतं वैवश्वतान्मया ॥ तस्मादृष्टफलं भद्रे करोमि तिलद्वादशीम् ॥ ३२ ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि सुन्दरी ॥ मार्कण्डेय उवाच ॥ एतच्छ्रुत्वा शुभं वाक्यं ब्राह्मण्यापि वसन्तिका ॥ ३३ ॥ श्रवणाद्वादशीयोगे पूजयामास केशवम् ॥ माघकृष्णे महाभाग तिलैर्नियमतत्द्दुता ॥ ३४ ॥ पूजयित्वापि सा देवं श्वेतद्वीपमितो गता ॥ सापि राज्ञो महाभागा तथा नयनसुन्दरी ॥ ३५ ॥ अमलं स्थानमासाद्य विराज शशिप्रभा ॥ तस्मात्सर्वप्रयत्नेन तदा
॥ १७० ॥
१ 'रूपा' इति ख० । २ 'कटा' इति क० ।