विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 275, कुल 1001 में से
संदर्भ में पढ़ेंवैष्णवेन तेजसा ॥ ३३ ॥ ब्राह्मणानां सुराणां च साध्वीनां च तथा गवाम् ॥ जगतां धारिणीं शक्तिं विद्धि तां वैष्णवीं विभो ॥३४॥ राजानस्तेजसा युक्ता वैष्णवेन वसुन्धराम् ॥ पालयन्ति महीपाल वीर्योदग्रा यशस्विनः ॥ ३५ ॥ ऋषयश्च तथा विप्रा वेदवेदाङ्गपारगाः ॥ पालयन्ति जग- त्कृत्स्नं युक्ता वैष्णवतेजसा ॥३६॥ ये त्वानुभावाद्ये केचिज्जायन्ते चक्रवर्तिनः ॥ गुरुणा विद्धि तान्सर्वान्संयुक्तान्विष्णुतेजसा ॥३७॥ आजानुबाहवः सर्वे न्यग्रोधपरिमण्डलाः ॥ जिह्वया सकलं वक्त्रं परिमार्जयन्ति ते तथा ॥३८॥ षष्ट्या दन्तैश्च संयुक्ता दंष्ट्राभिश्च तथाशुभैः ॥ ओजेयं च शुभं तेषां भवत्यन्तर्भुवेर्नृपा ॥ ३९॥ चक्राङ्कितैः पादतलेः करैश्चापि शराङ्कितैः ॥ जालपादकराश्चैव तथा तुरगमेहनाः ॥४०॥ रूपवन्तः प्रभावन्तो वपुष्मन्तश्च यादव ॥ अतीन्द्रियज्ञानबलाः पृथिव्यां चक्रवर्तिनः ॥४१॥ तेषां तु सप्त रत्नानि भवन्तीह महीतले॥हस्त्यश्वरत्नभार्यारत्नं तथैव च ॥४२॥ तथैवायुधरत्नं च मणिरत्ननिधिस्तथा ॥ चतस्रश्चाप्रतिहतास्तेषां तु गतयस्तथा॥४३॥पाताले गगने शैले समुद्रे च महीपते। स्तम्भितजलैः प्रयाणे चक्रवर्तिनाम् ॥ ४४ ॥ भूम्यश्च तथा शैला मार्गे तेषां भवन्ति तु ॥ भूमिर्ददाति विवरं पातालमुपयातताम ॥ ४५ ॥ न विषीदन्ति गगने तथा तेषां तुरङ्गमाः ॥ श्रुतेन तपसा यज्ञैर्वीर्येणाथाबलेन च ॥ ४६ ॥ सर्वेभ्यस्तेऽतिरिक्ष्यन्ते प्राणिभ्यो मनुजेश्वर ॥ आराधितजगन्नाथा ये प्राप्नुवन्तीह तत्पदम् ॥ ४७ ॥ वर्षायुतानि जीवन्ति षड्वै सप्त वा नृप ॥ तेषां च तेजसा विष्णुः करोत्याप्यायनं सदा ॥ ४८ ॥ येन ते कथितं सर्वं प्राप्नुवन्ति गुणोदयम् ॥ स्थानान्तरगतेनापि तेऽपि वैष्णवतेजसा ॥ ४९ ॥ संहारमुपगच्छन्ति क्षयकाल उपस्थिते ॥ क्षयकाले च मान्धातु- स्तेजस्तदतिदुःसहम् ॥ ५० ॥ वैष्णवं शूलिशूलमथाभ्यगात् ॥ स यादव ॥ अर्जुनस्य नरेन्द्रस्य युक्तस्य हरितेजसा ॥ ५१ ॥ हरेरेवान्तकृच्छास्ता रामो भृगुकुलोद्वहः ॥ भार्गवस्य च रामस्य तेजस्तदतिदुःसहम् ॥ ५२ ॥ आदत्ते वैष्णवं घोरं रामो दशरथात्मजः ॥ काश्चित्कलामधिष्ठाय तेन घोरेण तेजसा ॥ ५३ ॥ करोति देवकार्याणि कृतकर्मा ततः प्रभुः ॥ आदाने तेजसस्तस्य ध्रियते स स्वतेजसा ॥ ५४ ॥ नान्यः शमयिता लोके नृप वैष्णवतेजसः ॥५५॥ तस्यावतारेषु मया स्वरूपमेतत्तवोक्तं भुवनस्य पत्युः ॥ रहस्यमेतत्परमं मुनीनां ज्ञानामृतं कल्मषनाशकारि ॥ ५६॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे प्रादुर्भावस्वरूपवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ १७२ ॥ वज्र उवाच ॥ भुवना- र्थेन यद्राज्ञा पुत्त्रीयं तु कृतं व्रतम् ॥ तमहं श्रोतुमिच्छामि जनानां हितकाम्यया ॥ १ ॥ मार्कण्डेय उवाच ॥ पुत्त्रीयं ते प्रवक्ष्यामि व्रतं भूपाल- सत्तम ॥ अनन्तव्रतमित्युक्तं सेवतां पुत्रजन्मदम् ॥ २ ॥ मासिमासि तु नक्षत्रे मासनाम्ना तु चिह्नितम् ॥ सम्प्राप्य पूजयेद्देवं सोपवासो नरो