विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 277, कुल 1001 में से
संदर्भ में पढ़ेंपहं धर्मविवर्धनं च ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽनन्तव्रतमाहात्म्यवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥ १७३ ॥ ॥ मार्कण्डेय उवाच ॥ इदमप्यन्यद्वक्ष्यामि मासनक्षत्रपूजनम् ॥ यत्फलं देवदेवस्य पुरुषः समवाप्नुते ॥ १ ॥ आरभ्य कार्तिकादेतद्व्रतं कार्यं विजानता ॥ पारणत्रितयेनैतद्व्रतं परिसमाप्यते ॥ २ ॥ चातुर्मास्यं तथैवान्न पारणं नृप कीर्तितम् ॥ पारेणोपारेणे राजन्नत्रितमासविधिं शृणु ॥ ३ ॥ पञ्चगव्यजलस्नानं सदैव च समाचरेत् ॥ पुष्पादिपूजा कर्तव्या यथालाभमुपाहृतैः ॥ ४ ॥ नैवेद्यं कृसरं पूर्वमत्र मासचतुष्टयम् ॥ यावकेन तथा कार्यं मध्यमं च चतुष्टयम् ॥ ५ ॥ चतुष्टये तृतीये च नैवेद्यं पायसं भवेत् ॥ तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बहुन् ॥ ६ ॥ नक्तं नैवेद्यमश्नीयाद्द्यान्म्यतः सुसमाहितः ॥ संयतस्तां भवेद्रात्रिं तथा स्थण्डिलशायकः ॥ ७ ॥ एवं कुर्यात्पुनस्तावद्यावत्कार्त्तिककृत्तिका ॥ तत्र सम्पूज्य देवेशमारभ्य विधिना नृप ॥ ८ ॥ भाजनं घृतसंयुक्तं सहिरण्यं द्विजातये ॥ दातव्यं भोजनं कार्यं ब्राह्मणानां विशेषतः ॥ ९ ॥ संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तमः ॥ लब्ध्वा स्थानं च मोदेत तथा नारी च यादव ॥ १० ॥ स्थिरां श्रियं धर्ममतिं बलं च सौभाग्यमोजः स्थिरसत्त्वतां च ॥ आस्थायं सुदीर्घा त्रिदिवे च कुर्याद्व्रतं नृणामेतदतीव पुण्यम् ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मासनक्षत्रपूजनं नाम चतुरसप्तत्यधिकशततमोऽध्यायः ॥ १७४ ॥
॥ मार्कण्डेय उवाच ॥ अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ॥ स्वर्गे वृत्तां समाश्रित्य मासनक्षत्रपूजनम् ॥ १ ॥ पूर्वैस्तूक्तं चरितं शक्र नाहं जानामि किञ्चन ॥ भवतः समकालीनं वद मां सुसत्तम ॥ २ ॥ इयं सिद्धा विजानाति प्रख्याता शाम्बरायणी ॥ एवमुक्तस्ततः शक्रः पप्रच्छ बलसूदनः ॥ ३ ॥ जगाद सा च शक्रस्य पूर्ववृत्तं चरितं महत् ॥ शक्राणां सा व्यतीतानां शतशोऽथ सहस्रशः ॥ ४ ॥ जगाद तत्र चरितं कल्पेष्वन्येष्वपि प्रभो ॥ शाम्बरायण्युवाच ॥ सर्वेषामपि शक्राणां ये तु दायादबान्धवाः ॥ ५ ॥ सर्वे विनाशितास्तेन विष्णुना प्रभविष्णुना ॥ सर्वे शक्रास्तथा युक्तास्तेन वैष्णवतेजसा ॥ ६ ॥ भूतेभ्यस्त्वतिरिक्तास्ते तेन ते गुणसम्पदः ॥ दानेन यज्ञैः शौर्येण तपसा च बलेन च ॥ ७ ॥ श्रुतेन चाविष्टतया देवदैत्यमहोरगान् ॥ ऋषयश्च महाभागास्त्वपि पार्थिवसत्तम ॥ ८ ॥ वरं सम्पावनं¹ तैश्च कृतं सर्वै³ स्वयंभुवा ॥ पराजयं यतः प्राप्ता दायादेभ्यः पुनःपुनः ॥ ९ ॥ सर्वेश्वरा वीर्यबलोपपन्ना धर्मे निविष्टा जगतः प्रधानाः ॥ त्यक्ताधिकाराश्च ततः क्रमेण सर्वे गता विष्णुसहायतां च ॥ १० ॥ इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे² शक्रचरिताख्यानं नाम पञ्चसप्तत्यधिकशततमो
¹ 'पाननम्' इति ख० ।
² अत्र सन्दर्भशुद्धया कश्चित्पाठो भ्रष्ट इति भाति ।
³ 'सर्वः' इति ख० ।