विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 278, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥११६॥
पृ० सं० अ० १७८ ॥११७॥
ध्यायः ॥ १७६ ॥ ॥ इन्द्र उवाच ॥ यस्मिन्काले व्यतीता ये षडिन्द्रा भूरितेजसः ॥ तेषां चरितमिच्छामि श्रोतुं विस्तरशः शुभे ॥ १ ॥ प्रति शक्रं मनुं मनुपुत्रांस्तथैव च ॥ देवान्सप्त ऋषींश्चैव तथा दायादबांधवान् ॥ २ ॥ शक्रस्य तेषां च वधं तथा देवाज्जनाद॑नात् ॥ त्वत्तोऽहं श्रोतु मिच्छामि सर्वं त्वं वेत्सि सुन्दरि ॥३॥ शाम्बरायण्युवाच॥ ब्रह्मणो मानसः पुत्रः प्रथमोत्तु मनुः स्मृतः ॥ दश पुत्राश्च तस्येमे ख्यातास्त्रिभुवनेश्वराः ॥ ॥४॥ अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिर्वपुः ॥ ज्योतिष्मान्द्युतिमान्धन्वः सवनः सप्त एव च ॥५॥ मरीचिरत्रिर्गिरसो पुलस्त्यः पुलहः क्रतुः ॥ वसिष्ठश्च महातेजा ऋषयः सप्त कीर्तिताः ॥६॥ जयाख्याश्चाजिताख्याश्च शुक्रयामास्तथैव च ॥ गणा द्वादशका एते चत्वारः सोमपायिनः ॥ ७ ॥ विश्वसूदनाम देवानां तेषामिन्द्रो बभूव ह ॥ आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥ ८ ॥ बभूव नृपतिर्येषां बाष्कलो नाम नामतः ॥ यस्य हस्तादुभौ लोकौ वामनेन हतौ पुरा ॥ ९ ॥ क्रमद्वयेन तु हतं पातालं च सुरेश्वर ॥ यस्य पुत्रस्त्वसाविक्षीर्नाम बलोत्कटः ॥ १० ॥ जहार भूयस्त्रैलोक्यं शक्रस्याक्रुध्य दुर्मतिः ॥ तमाहूय रणे विष्णुस्तार्क्ष्येप्रवरवाहनः॥ ११॥ द्विधा चकार चक्रेण त्रैलोक्याहितकाम्यया ॥ १२॥ एवं हतस्तेन पुरारिसुख्या महात्मना कालसमप्रभावः ॥ शक्रप्रियार्थं जगतां हितार्थं देवेन्द्रमप्राप्तनिमेन तेन ॥१३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शाम्बरायणीवाक्ये प्रथममन्वन्तरवर्णनं नाम स्तसप्तत्यधिकशततमोऽध्यायः ॥ १७६ ॥ ॥ छ ॥ ॥ शाम्बरायण्युवाच ॥ मनुः स्वारोचिषो नाम बभूव तदनन्तरम् ॥ गयप्रसान्सुमहाभागाः पुत्रा भूपमण्डलेश्वराः ॥ १ ॥ चैत्रः कविरथोध्वं कृतान्तो विद्युतो गविः ॥ बृहद्धूती नभश्चैव महाबलपराक्रमः ॥ २ ॥ ऊर्जस्तस्य तथा प्राण ऋषभो निश्चलस्तथा ॥ दन्तोभिः शाकिरावांश्च ऋषयः सप्त कीर्तिताः ॥ ३ ॥ भूपिता द्वादश प्रोक्तास्तथा पारावताश्च ये ॥ तेषामिन्द्रो विपश्चिच्च महात्मा लोकविश्रुतः ॥ ४ ॥ आसंस्तस्यासुरा घोरगन्तङ्गा दायादबान्धवाः ॥ तेषामासीत्तदा राजा पुरुहूतो बलोधिकः ॥ ५ ॥ शक्रस्य विप्रियासक्तो मृगयायै वनङ्गतः ॥ व्यधमन्कुञ्जारुन्मात्तान्दुर्वार्यसममाश्रयः ॥ हन्ती भूपालसीचवः स जघान हरीन्वने ॥ ६ ॥ जघान सः शैल इवातिवप्णों नीलाञ्जनाभो रुचितारुणहन्तः ॥ जघान तं दैत्यवरं प्रसह्य देवासुगाणां समरेऽव्वध्यम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रमतिशाम्बरायण्याख्याने द्वितीयमन्वन्तरकथावर्णनन्नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥ १७७ ॥ ॥ छ ॥ ॥ शाम्बरायण्युवाच ॥ ॥ औत्तमस्य मनोः पुत्रांन्तृतीयान्म्य निबोध मे ॥ अजश्च परशुश्चैव देवदेवो वृषो नयः ॥ १ ॥ देवायृवश्चाप्रतिमौ महोत्साहो गजस्तथा ॥ विनीतिश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ॥ २ ॥