भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 279, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 279

अतः परं प्रवक्ष्यामि ऋषयः सप्त वै तदा ॥ रजोबाहुर्ध्वबाहु च सवनश्चानघश्च यः ॥ ३ ॥ सुतपाः शक्तिरित्येते ऋषयः सप्त कीर्तिताः ॥ वशवर्तिनः स्वधासानो वशा सत्याहा मतादिनांः ॥ ४ ॥ पञ्च देवगणाः प्रोक्ताः सर्वे द्वादशकास्तु ते ॥ तेषां सुचित्तिर्नामाऽभूच्छक्रः परमपूरुषयः ॥ ५ ॥ आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥ येषामासीद्बली राजा प्रलम्बो नाम नामतः ॥ ६ ॥ शक्रस्य विप्रियासक्तं तं सबहुऽम्बुवाहनम् ॥ मत्स्यरूपधरो विष्णुर्जघ्नेत्वान्बलवत्तरम् ॥ ७ ॥ कालानलोभं तु विदेशशत्रुं रूपेण मात्स्येन जगतप्रचारः ॥ जघान तं पर्वतकूटमात्रं समुद्र मध्ये शरदानतप्तम् ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीयमन्वन्तरवर्णनन्नामाष्टसप्तत्यधिकशततमो ऽध्यायः ॥ १७८ ॥ ॥ छ ॥ ॥ शाम्बरायणउवाच ॥ ॥ तामसस्य मनोः पुत्रांश्चतुर्थम्य निबोध मे ॥ जानुजङ्घः शान्तभयो नरः ख्याति नैरुत्था³ ॥ १ ॥ प्रियभृत्यो ह्यविविक्षश्च प्रस्थिलश्च दृढेषुधिः ॥ कृतश्च कृतगन्धश्च तामसस्य मनोः सुताः ॥ २ ॥ ऋर्षिवन्तः कठीयान्वै गात्र श्वेत्रोऽग्निरव च ॥ ज्योतिर्वासाः पृथुः काव्य ऋषयः सप्त कीर्तिताः ॥ ३ ॥ सत्याः सुपादाः सुरिहा हरश्चेति प्रकीर्तिताः ॥ देवतानां गणा एते चत्वारः पञ्चविंशकाः ॥ ४ ॥ सत्यानामपि भेदौ द्वौ सत्या विश्वाश्च कीर्तिताः ॥ मत्या द्वादश निर्दिष्टा विश्वाः प्रोक्तास्त्रयोदश ॥ ५ ॥ तेषामासीन्महातेजा शिबिरिन्द्रः प्रताप वान् ॥ आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥ ६ ॥ येषामासीन्महातेजा राजा भीमस्थः प्रभुः ॥ प्रसाय येन ब्रह्माणमध्यक्षं स्थलेवृतम ॥ ॥ ७ ॥ जलंस वर्जयामास ततः प्रभृति दुर्पतिः ॥ स ददर्श मरौ कूर्म पर्वताकारदर्शनम् ॥ ८ ॥ तमारुरोह दुर्बुद्धिः कौतूहलसमन्वितः ॥ समारूढं महाकायमादाय भगवान्हरिः ॥ ९ ॥ कूर्मरूपधरो वेगात्पातालजलमाविशत् ॥ पातालजलमानीय मज्जयित्वा जघान तम् ॥ आक्रम्य तं महाकायं महता कूर्मवर्मणा ॥ १० ॥ एवं स कूर्पेण जले प्रसङ्गा देवेश्वरस्याप्रतिमस्य शत्रुः ॥ निपातितः सर्वसुरप्रधानः सर्वेश्वरेणा प्रतिमेन तेन ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्थतामसमन्वन्तरवर्णनन्नामैकोनाशीत्यधिकशततमोऽ ध्यायः ॥ १७९ ॥ शाम्बरायणउवाच ॥ रैवतस्य मनोः पुत्रान्पञ्चमस्य निबोध मे ॥ महापराणः सम्भाव्यः प्रत्यङ्गः परहा शुचिः ॥ १ ॥ चलेन्द्रिन्निरमित्रः केतुशृङ्गो दृढव्रतः ॥ रैवतस्य मनोः पुत्रा ऋषय स्तस्य वच्मि ते ॥ २ ॥ वेदश्रुतिर्वेदबाहूरूध्वबाहुर्यजुस्तथा ॥ हिरण्योरोमा पर्जन्यः सत्यनेत्रस्तथैव च ॥ ३ ॥ आभूतराजसश्चैव तथा देवाः सुमेधसः ॥ वैकुण्ठाश्चामृतांश्चैव चत्वारो देवतगणाः ॥ ४ ॥ एकैकस्मिन्गणे


१ 'बहुवर्तिः सुवामानः वशाः सत्याः प्रर्दनाः' इति ख० । २, ३ 'नय' इति ख० । ४ 'म्रियन्तो' इति ख० । ५ 'आभूतजरस' इति ख० ।