विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 293, कुल 1001 में से
संदर्भ में पढ़ेंहृते मया दुष्टमशेषमस्य स्वस्थो भवत्वेष यथा वचो हरेः ॥ ५८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सत्वबाधाप्रशमनं नाम षण्णवत्यधिकशततमोऽध्यायः ॥ १९६॥ वज्र उवाच ॥ जगत्सृष्टिप्रसंगेन चोर्वीसंम्भवस्त्वया ॥ कथितस्तु महाभाग तत्प्रसङ्गेन चापराः॥ १॥ कथिताश्च कथा ब्रह्मन्विर्मुक्ता मनोहराः ॥ विष्णुमाहात्म्यसंयुक्ताः सर्वपापभयापहाः ॥२॥ कश्यपस्य तु या पत्नी खशानाम्नी त्वयोदिता ॥ यस्याः पुत्रौ महात्मानौ कथितौ यक्षराक्षसौ ॥ ३ ॥ तयोरुत्पत्तिमिच्छामि श्रोतुं वंशं तथैव च ॥ प्रस्तुता जगदुत्पत्तिं निखिलेन प्रकीर्तय ॥४॥ मार्कण्डेय उवाच ॥ राक्षसं पूर्वसन्ध्यायां जनयामास सा खशा ॥ दंष्ट्राकरालवदनं पिङ्गलोद्वेक्षलोचनम् ॥ ५ ॥ आकर्णदारितास्यं च स्थूलनासायसुलवणम् ॥ विकचं विकटाटोपं शङ्कुकर्णं विभीषणम् ॥ ६॥ तथैवापरसन्ध्यायां सैव यक्षं व्यजायत ॥ तादृशेनैव रूपेण यादृशेनैव राक्षसम् ॥ ७ ॥ क्षिणोमि मातरं यक्षः क्षुधितस्तामभाषत ॥ रक्षेति मातरं तां तु यक्षं वै रक्षसोऽब्रवीत् ॥ ८ ॥ रक्षणाद्राक्षसः प्रोक्तः क्षणाद्यक्षः स उच्यते ॥ भार्या बभूव यक्षस्य देवरामा कृतस्थला ॥ ९ ॥ यक्षो राजननाभाख्यस्तस्यास्तस्य सुतः स्मृतः ॥ अनुह्लादसुता भार्या तस्यासीन्नृपगुह्यका ॥१०॥ वीरो मणिचरश्चैव वीरभद्रस्तथैव च ॥ तस्याः पुत्रावुभौ ख्यातौ देवतुल्यौ मनीषिणौ ॥११॥ ककुत्स्थतनये भार्ये तयोरास्तां नराधिप॥ राजन्पुण्यजनीनाम प्रथमस्य बभूव सा ॥१२॥ तथा देवजनीनाम द्वितीयस्याऽपि यादव ॥ तस्याः पुण्यजना यक्षा देवं देवजनास्तथा ॥ कथिता बहुसाहस्रा महाबलपराक्रमाः ॥ १३ ॥ शुभावाप्तैर्वहंस्तूप यक्षवंशैवशास्तु जाता बहुशीलयुक्ताः ॥ धर्मस्थिताः सत्यपरा विनीता महासुभावा वरदा वरेण्याः ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे यक्षोत्पत्तिर्नाम सप्तनवत्यधिकशततमोऽध्यायः ॥ १९७ ॥ मार्कण्डेय उवाच ॥ अजः षण्डः पिशाचौ द्वौ सुपाल कपिशासुतौ ॥ पिशाची ब्रह्मयानाख्या तत्राजस्य सुता मता ॥ १॥ पिशाची यातुधानाख्या षण्डस्य तनया मता ॥ अजश्च राजषण्डश्च निशीथे क्षुचितावुभौ ॥२॥ बहिर्भूत्यौ तु सहितौ दृष्टवन्तौ नरेश्वर ॥ राक्षसं क्षुधितकारं पतन्तं क्षुधितं निशि ॥३॥ गृहीतः स पिशाचाभ्यां क्षुधितभ्यां यदा बली ॥ पृष्टः स ताभ्यां यत्नेन दृष्ट्वा तस्य तदा बलम् ॥ ४ ॥ जगाद भूमिपश्चेष्ट चोमयोर्जन्मकारणम् ॥ जन्म कर्म च तौ तस्य श्रुत्वा पिशितभोजनौ ॥ ५ ॥ ददतुः कन्यके तस्य राक्षसस्य नराशिनः ॥ भार्याद्वयस्य वंशौ द्वौ राक्ष सत्य प्रकीर्तितौ ॥ ६ ॥ ब्रह्मज्ञानान्वये तस्य ब्रह्मधाना निशाचराः ॥ यातुधानान्वये तस्य यातुधानाः प्रकीर्तिताः ॥ ७ ॥
१ 'वरो' इति क० ।