भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 313, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 313

एवमाज्ञाप्य नागानां तुरगाणां तथैव च ॥ १०१ ॥ प्रत्यवेक्षां ततः कृत्वा सन्ध्यामन्वास्य पश्चिमाम् ॥ रेवागातः स शुश्राव नराणां गूढभाषितम् ॥ १०२ ॥ आरुरोह तदा प्रासादं हिमपाण्डुरम् ॥ कैलासशिखराकारं निर्वाते रजनीमुखे ॥ ॥ १०३ ॥ ततस्ते सैनिकः कश्चिच्छिबिरं भरतस्य तु ॥ तलं तैलेनाभ्यहनत्पवनार्थं यदृच्छया ॥ १०४ ॥ ततस्तु सैनिकैः सर्वैस्तत्तैलमैलास्रवनम् ॥ चक्रिरे पुरुपुण्यान्न तस्मिन्काले दिवं गतम् ॥ १०५ ॥ प्रभवौ च तदानीतौ वायुमेतनुजध्रुव ॥ एतस्मिन्नेव काले तु मद्रराजस्तदांशुमान् ॥ १०६ ॥ प्रासादवरमारूढो ज्ञातवान्भरतं तदा ॥ दीपालोकेन लक्ष्म्या च प्रासादस्य विवृद्धया ॥ १०७ ॥ स जगाम तदा राजा प्रहसन्सैनिकं जनम् ॥ भरतस्य प्रदास्यामि युक्त्यैव बलदर्शनम् ॥ १०८ ॥ तृणमुष्टिमुपादाय सर्वोऽपि कटके जनः ॥ पाणावादाय मुदितः क्ष्वेडाशब्दं करोतु वै ॥ १०९ ॥ पार्थिवेनैवमुक्ते तु कटके तस्य धीमतः ॥ सोल्काहस्तो जनः सर्वः क्षणेन समपद्यत ॥ ॥ ११० ॥ शिबिरं मद्रराजस्य द्वितीयमिव चाभवत् ॥ बभूव तारकाचित्रमुल्काहस्तैस्तदा नरैः ॥ १११ ॥ तद्वह्नोघमपर्यन्तं सोल्काहस्तैर्जनै र्वृतम् ॥ दृष्ट्वा जगाम धर्मात्मा परां प्रीतिं रघूद्वहः ॥ ११२ ॥ क्ष्वेडाः किलकिलाश्र्चैव श्रुत्वा हर्षमुपागतः ॥ तस्मिन्प्रशान्ते ज्वलने मन्दीभूते च निःस्वने ॥ ११३ ॥ अभ्यहन्यन्त भूपानां शिबिरेषु पृथक्पृथक् ॥ संज्ञातूर्याणि रम्याणि नानालिङ्गानि चाप्यथ ॥ ११४ ॥ सुवहूनि महाराज तेन कोलाहलं महत् ॥ बभूव प्रीतिजननं भरतस्य महात्मनः ॥ ११५ ॥ मन्त्रयित्वा ततः श्रीमान्क्षणमात्रं युधाजिता ॥ तेनैव सह भुक्त्वा च सुषुवाप शयनेत्तमे ॥ मधुरेण सुगीतेन वीणावेणुस्वरेण च ॥ ११६ ॥ हिमावदाते वरमाल्यचित्रे वितानकाद्यौर्विहिते मनोज्ञे ॥ सुषुवाप रात्रिं स महातुभावो भोगीन्द्रभोगे मधुजिद्यथैव ॥ ११७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे युद्धसज्जवर्णनो नाम नवोत्तरद्विश ततमोऽध्यायः ॥ २०९ ॥ ॥ मार्कण्डेय उवाच ॥ आह्नानदुन्दुभिं श्रुत्वा शैलपतनयामस्ततः ॥ आसंग्दः पार्थिवं सर्वं रोटूपं तं समागताः ॥ १ ॥ नमुचिः कामपालश्च गवणसुदर्शनौ ॥ वीरबाहुः सुबाहुश्च वायुवेगसुवर्चसौ ॥२॥ निकुम्भः कुम्भनामा च बलोको बलकस्तथा ॥ हरिकेशो महो जाश्व सूर्य्रश्मिः प्रभञ्जनः ॥ ३ ॥ वृन्दारको ज्योतिषिकौ दृढस्यूरपराजितः ॥ कुमुदः कुमुदापाडो वसुनाथः सुलोचनः ॥ ४ ॥ चन्द्रपीडो गदी मौली किन्नरोज्जगरो रुहः ॥ केसरी वरवाणश्च भानूरागवाहो रथिः ॥५॥ एकलव्यो विशालश्च कलविङ्गः कलाप्रियः ॥ भीमनादो महानादो वासक्तिः पनसौ गदः ॥ ६ ॥ चन्द्रवर्मा महावर्मा वसषेणोऽथजाककः ॥ एते चान्ये च गन्धर्वाः शैलूषस्य मताः प्रभोः ॥ ७ ॥ दिग्गजानां