विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 325, कुल 1001 में से
संदर्भ में पढ़ें॥ शैलूष उवाच ॥ ॥ कथं वैश्रवणे दत्ता पुरा लङ्का द्विजोत्तम ॥ कथं चापहृता तस्य रावणेन महात्मना ॥ १ ॥ चरितं रावणस्याहं श्रोतुमिच्छामि तत्त्वतः ॥ त्रैलोक्यं विजितं येन तपसा पौरुषेण च ॥ २ ॥ ॥ नाडायन उवाच ॥ ॥ ब्रह्मणो मानसः पुत्रः पुलस्त्यो विदितस्तथा ॥ तस्यासीद्विश्रवा नाम पुत्रस्त्रैलोक्यविश्रुतः ॥ ३ ॥ पौत्री बृहस्पतेः पत्नी भरद्वाजसुता शुभा ॥ बभूव तस्य राजेन्द्र नाम्ना वै देववर्णिनी ॥ ४ ॥ तस्यां स जनयामास पुत्रं वैश्रवणं प्रभुम् ॥ आराधितः सुतपसा प्रादात्तस्य पितामहः ॥ ५ ॥ यक्षेशत्वं धनेशत्वं लोकपालत्वमेव च ॥ पुष्पकं च तथा यानं कामगं कामरूपिणम् ॥ ६ ॥ पुत्रं लब्ध्वरं राजन्विश्रवा अभ्यभाषत ॥ त्रिकूटे पर्वतश्रेष्ठे निर्मिता विश्वकर्मणा ॥ ७ ॥ लङ्का नाम पुरी रम्या देवराजकृते पुरा ॥ हत्वा तां देवराजस्य सुकेशतनयैः पुरा ॥ ८ ॥ आयासिता महाराज तेषां ज्येष्ठं तु मालिनम् ॥ निपात्य वासुदेवेन ते तु विद्रावितास्ततः ॥ ९ ॥ पातालतलमाश्रित्य ते वसन्तीह निर्भयाः ॥ १० ॥ तां त्वं लङ्कां समासाद्य वस यक्षसमन्वितः ॥ धर्मेण पालयन्राज्यं सततं राक्षसेश्वर ॥ ११ ॥ धर्मे ते दीयतां बुद्धिः सर्वावस्थस्य सर्वदा ॥ धर्मार्थेश्च कामश्च धर्ममूलमिदं जगत् ॥ १२ ॥ श्रुत्वा पितुर्वाक्यमदीनसत्त्वो लङ्कां समासाद्य धनाधिनाथः ॥ धर्मेण लोकं स तु रक्षयानश्चकार राज्यं क्षणदाचराणाम् ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनानुशासने लङ्काकथायां वैश्रवणाख्यान- वर्णनो नामैकोनविंशत्युत्तरद्विशततमोऽध्यायः ॥ २१९ ॥ ॥ नाडायन उवाच ॥ ॥ एतस्मिन्नेव काले तु सुमाली वसुधातलम् ॥ चचारा- दाय तनयां कैकसीं नाम नामतः ॥ १ ॥ चरन्स वसुधां स्फीतां ददर्शाय नराधिपम् ॥ पुष्पकं यानमारूढं श्रिया परमया युतम् ॥ २ ॥ तं दृष्ट्वा कैकसीं वाक्यं चोवाच रजनीचरः ॥ पुत्र प्रदानकालेस्ते न कश्चित्त्वां वृणोति माम् ॥ ३ ॥ अप्रार्थितप्रदानं च धर्षणामयशङ्कया ॥ न करोमि विशालाक्षि तवार्थे वरवर्णिनि ॥ ४ ॥ कष्टं कन्यापितृत्वं हि नराणां मानकाङ्क्षिणाम् ॥ ध्रुवं कन्यापितृत्वं हि शक्रस्यापि प्रधर्षणम् ॥ ५ ॥ मातुः कुलं पितृकुलं यत्र कन्या प्रदीयते ॥ कुलत्रयं संशयितं कन्यां कृत्वा हि तिष्ठति ॥ ६ ॥ तेनाहं त्वां न दास्यामि सा त्वं गच्छ स्वयं शुभे ॥ भर्तारं वरयस्वाद्य मुनिं विश्रवसं विभुम् ॥ ७ ॥ यतः सोऽयं धनाध्यक्षः श्रिया परमया युतः ॥ तादृशं तनयं तस्माज्जनयिष्यसि भामिनि ॥ ८ ॥ जगाम कैकसी राजंस्ततो विश्रवसं मुनिम् ॥ रौद्रे मुहूर्त्ते संप्राप्ते संध्यायां नृपसत्तम ॥ ९ ॥ साभिगम्य ततः पादौ तस्य विश्रवसो मुनेः ॥ बभूव पुरतस्तन्वी व्रीडमानेव लज्जया ॥ १० ॥ उवाच तां मुनिः प्रह्लां कैकसीं चारुहासिनीम् ॥
२४