विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 326, कुल 1001 में से
संदर्भ में पढ़ेंविज्ञातस्त्वदभिप्रायो मयाद्य वरवर्णिनि ॥ ११ ॥ पुत्रार्थं त्वमनुप्राप्ता मत्समीपमनिन्दिते ॥ रौद्रे काले यथा प्राप्ता तादृशं जनयिष्यसि ॥ १२ ॥ एवमुक्त्वत्यथोत्थाय सा तत्रोवास सुखं तदा ॥ ततः कालेन सा पुत्रं जनयामास भामिनी ॥ १३ ॥ दशास्यं विश्रुतिसुतमेकदंष्ट्रं महाबलम् ॥ नाम तस्य पिता चक्रे दशग्रीवेति बुद्धिमान् ॥ १४ ॥ ततो द्वितीयं तनयं महाकायं सुषाव सा ॥ कुम्भकर्णेति तस्यापि नाम चक्रे तदा पिता ॥ १५ ॥ तत्र शूर्पणखां कन्यां जनयामास सा तदा ॥ ततः कदाचित्सा पुत्रं कैकसी ज्येष्ठमब्रवीत् ॥ १६ ॥ दर्शयन्ती धनाध्यक्षं सर्व्वदेव नमन्तप ॥ पश्य स्वीयाग्रजस्यास्य श्रियं भ्रातृर्दशानन ॥ १७ ॥ स त्वं यत्नमथास्थाय भव वैश्रवणोपमः ॥ एवमुक्तेस्तु गोकर्णे प्रययौ भ्रातृभिः सह ॥ १८ ॥ शीर्णपर्णाशनस्तत्र चकार सुमहत्तपः ॥ पूर्ण वर्षसहस्त्रे तु शिरश्छित्त्वा दशाननः ॥ १९ ॥ जुहावाग्नौ महाभाग एकैकं तपसा कृशः ॥ ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशशायिकः ॥ २० ॥ आर्द्रावासाश्च शिशिरे कुम्भकर्णोऽप्यतप्यत ॥ विभीषणस्ततः काले पदे षष्ठे फलाशनः ॥ २१ ॥ परिचर्य्यां तदा तेषां चक्रे शूर्पणखा स्वसा ॥ दशवर्षसहस्रान्ते तदा काले दशाननः ॥ २२ ॥ दशमं मस्तकं वह्नौ जुहुपति यदा प्रभो ॥ ततस्तं देशमागम्य ब्रह्मा वचनमब्रवीत् ॥ २३ ॥ ब्रह्मोवाच ॥ वरं वरय भद्रन्ते परितुष्टोऽस्मि पुत्रक ॥ तपसा ते सुतप्तेन सर्व्वेन विपुलेन च ॥ २४ ॥ ॥ नाडायन उवाच ॥ देवांदीनि स भूतानि कीर्तयामास राक्षसः ॥ सर्वाण्यवेवाविशेषेण वर्जयित्वा तु मानुषम् ॥ २५ ॥ संकीर्त्य तेभ्योऽभयत्वं वरयामास भूमिप ॥ त्रैलोक्यविषयञ्चैव चञ्च तस्य ददौ प्रभुः ॥ २६ ॥ छन्दयित्वा वरेणाथ दशग्रीवं निशाचरम् ॥ न्यस्त्व्वा सरस्वतीं वक्रे कुम्भकर्णं स राक्षस म् ॥ २७ ॥ वरेणच्छन्दयामास तदागत्य विभीषणम् ॥ स वव्रे नित्यकालं तु मतिं धर्मे सनातनीम् ॥२८॥ तेन तस्य तदा तुष्टस्त्वमरत्वं ददौ प्रभुः ॥ वरेणच्छन्दयित्वा तान्ब्रह्मा स्वभवनं गतः ॥ २९॥ लब्ध्वावरं च दशग्रीवं ज्ञात्वा रक्षोगणस्तदा ॥ पातालात्तु विनिष्क्रम्य महाराज्येऽभ्यषेचयत् ॥३०॥ स तु राज्यं तदा लब्ध्वा प्रेषयामास राक्षसान् ॥ कुवेराय तदा दूतं प्रहस्तं नाम नामतः ॥ ३१॥ राक्षसानांमधिवासो लङ्केयं निर्मिता पुरा ॥ तां त्यजस्व धनाध्यक्ष साम्प्रव मम मा चिरम्॥ ३२ ॥ प्रहस्तवनचं श्रुत्वा धना ध्यक्षो महामतिः ॥ दशग्रीवं वरोन्मत्तं ज्ञात्वा तत्याज तां पुरीम् ॥३३॥ कैलासं पर्वतं गत्वा तदा चक्रे पुरीं शुभाम् ॥ अलकां नाम राजेन्द्र यत्रास्ते स सुखी सदा ॥३४॥ दशग्रीवो महाराज त्रैलोक्यविजयं तथा ॥ चक्रे लङ्कामथासाद्य वरदानात्तपस्यभूः ॥३५ ॥मन्दोदरीं नाम भार्य्या तदा लेभे मयात्मजाम् ॥ तस्यां स जनयामास मेघनादं तथा सुतम् ॥ ३६॥ त्रिलोकेविजयी श्रीमान्देवब्राह्मणकण्टकः ॥ निहतः स तु कालेन विष्णुना