विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 327, कुल 1001 में से
संदर्भ में पढ़ेंनररूपिणा ॥ ३७ ॥ राघवेण महाराज रामेणाक्लिष्टकर्मणा ॥ लङ्कां त्यक्त्वा धनाध्यक्षः कैलासे पर्वतोत्तमे ॥ ३८ ॥ अद्यापि पालयन्नास्ते राज्यं निहतकण्टकम् ॥ तस्मात्त्वमपि राजेन्द्र त्यक्त्वा देशमिमं स्वयम् ॥ हिमवन्तमथासाद्य वस वैश्रवणोपमः ॥३९॥ तस्मान्न कार्यं भरतेन वैरं महाबलाह्या रघवः प्रतीताः ॥ प्रसीद जीवन्तु सपुत्रपौत्राः पुत्रास्तवेमे तुहिनाद्रिसंस्थाः ॥४०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रावणवर प्राप्तिवर्णनो नाम त्रिंशत्युत्तरद्विशततमोऽध्यायः ॥२३०॥ शेलूष उवाच ॥ श्रोतुमिच्छाम्यहं तस्य दशग्रीवस्य रक्षसः ॥ त्रैलोक्यविजयं ब्रह्मंस्तत्र मे संशयो महान् ॥ १ ॥ नाडायन उवाच ॥ वरप्रदानात्सन्मत्तो दशग्रीवो निशाचरः ॥ देवगन्धर्वदैत्यानां नागेन्द्रोरगरक्षसाम्॥ २॥ आक्रम्याऽऽक्रम्य रत्नानि स जहार तदा बलात् ॥ पत्युश्च राजशार्दूल तदा दुहितरः शुभाः ॥ ३ ॥ नरेन्द्रान्धर्मसंस्थान्ब्राह्मणांश्च जिघांसति ॥ अयोध्यावासिनं वीरमनरण्यं च जघ्निवान् ॥ ४ ॥ संग्रामे निहतस्तेन दशग्रीवं स शप्तवान् ॥ उत्पत्स्यति कुले नीच पुरुषो मम वीर्यवान् ॥ ५ ॥ यस्तवोद्वासयिष्यति प्राणान्समरे समर्पयिष्ये ॥ युयुधे च तथा राजा मांधात्रा रणशालिना ॥ ६ ॥ तत्रैनं वारयामास नारदो मुनिसत्तमः ॥ मयूरस्य ततो यज्ञे भक्ष्यामास वै द्विजान् ॥ ७ ॥ इन्द्रो मयूररूपेण तस्माद्यज्ञादपाक्रमत् ॥ मयूरस्य वरं प्रादान्मेघे वर्षति सर्वदा ॥ ८ ॥ गमिष्यस्यतुलां प्रीतिं मम नेत्रगणाकृतिम् ॥ धारयिष्यसि लोकेऽस्मिन्कलापं सुमनोहरम् ॥ ९ ॥ कृकलासस्य रूपेण धनाध्यक्षोऽप्यपाक्रमत् ॥ वर्णं तस्य सुवर्णाभं सदृशं च तथा शिरः ॥ १० ॥ प्रादाद्धयमयेत्यात्मा राजराजेन दानव ॥ वरुणश्च तदा राजन्हंसरूपेण निर्गतः ॥ ११ ॥ हंसस्य च वरं प्रादात्तोये रतिमवाप्स्यसि ॥ वर्णञ्चन्द्रसदृशं श्यामो भविष्यसि तथैव च ॥ १२ ॥ यमो वायसरूपेण तस्माद्यज्ञादपाक्रमत् ॥ वायसस्य वरं प्रादान्मरणं विना वयात ॥ १३॥ युष्मद्धतेन चान्नेन घोरा मद्रूपये स्थिताः ॥ परां तृप्तिं गमिष्यन्ति तदा पुण्येन योज्यसे ॥ १४ ॥ वक्ष्यध्वं बलिदातॄणां दिग्देशगतचेतितैः ॥ शुभाशुभं मनुष्याणां तत्रातिथ्यं भविष्यति ॥ १५ ॥ वज्रतुण्डाश्च ये काका घोरा मद्रूपये स्थिताः ॥ बलिपिण्डोंश्च दातृणां भविष्यन्ति ततः शिवम् ॥ १६ ॥ मरुत्तयज्ञे विप्रासं जनयित्वा दिवौ कसाम् ॥ बभ्राम वसुधां राजा राक्षसानां प्रतापवान् ॥ १७ ॥ ददर्श स तदा कन्यां तपस्यन्तीं महत्तपः ॥ रूपेणाप्रतिमां लोके यौवने प्रथमे स्थिताम् ॥ १८ ॥ दशग्रीवः स पप्रच्छ तां कन्यां लोकसुन्दरीम् ॥ का त्वं किमर्थं सुश्रोणि चास्थिता यौवने तपः ॥ १९ ॥ श्रुत्वा तस्य तु
१ ‘मरुत्तस्य’ इति ख०।