विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 328, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१४०॥
प्र० खं० अ० २२१
सा कन्या सत्यं वचनमब्रवीत् ॥ बृहस्पतिसुतो विद्वानिपता मम कुशध्वजः ॥२०॥ वेदाभ्यासप्रवृत्तस्य तस्याहं नृपान्वया ॥ सुतापरम समुत्पन्ना तत्पत्न्य। विदिता तथा ॥ २१ ॥ नाम्ना वेदवतीत्येवं ख्याता लोकेषु राक्षस ॥ विष्णोर्मयेयं दातव्या तत्त्वासीन्मे पितुर्मतिः ॥ २२ ॥ मयाचना निरस्तेन दैत्यनाथेन शम्भुना ॥ पिता मम हतो रात्रौ तमालिङ्ग्य विभावसुम् ॥ २३ ॥ प्रविष्टा जनयित्री मे यथाहं विधृता चिरम् ॥ स्वर्गस्थस्य पितुः कामं साहं सत्यमभीप्सती ॥ २४ ॥ आराधयामि तपसा पत्यर्थं मधुसूदनम् ॥ ततस्तामब्रवीद्रक्षो मा त्वं क्लेशे मतिं कृथाः ॥२५ ॥ भवस्व मे वरारोहे भार्या त्रैलोक्यसुन्दरी ॥ रूपस्य वयसश्चैव नानुरूपं तपस्तव ॥ २६ ॥ त्वां कृत्वापगतो मन्ये रूपं कृत्वा स विश्वकृत् ॥ न हि रूपोपमा त्वय्या तथास्ति सदृशी यतः ॥ २७ ॥ संपूर्णकान्तिमत्सौम्यं वदनं ते वरानने ॥ सकलङ्केन चन्द्रेण कथमोपम्यमर्हति ॥ ॥२८॥ भव भूषणजातानां भूषणं त्वं शुचिस्मिते ॥ वृणुष्व मां वरारोहे पतित्वे वरवर्णिनि ॥ २९ ॥ आक्रम्याक्रम्य लोकस्य प्रधाना या मया हताः ॥ स्त्रियः कुरुष्व सर्वासवां तासां स्वाम्यमनिन्दिते ॥३०॥ जटामालाजिनधरी त्वमेवं रतिवर्धिनी ॥ न जाने मण्डनं प्राप्य कथं भीरु भविष्यसि ॥ ३१ ॥ रूपेण वयसा लक्ष्म्या तथैव गुणसम्पदा ॥ विक्रमे मे वरारोहे न समो हि जनार्द्दनः ॥ ३२ ॥ जन्म तस्य न जानन्ति परेभ्यो ये परे जनाः ॥ तेन त्वमकुलीनेन किङ्करिष्यसि सुन्दरि ॥ ३३ ॥ अनिन्दं लोकमिच्छन्तो सुराणां हितकाम्यया ॥ हता येनानुवृत्तेन योषित्काव्या रणिः पुरा ॥ ३४ ॥ पुराणा ये जगत्स्यास्तिस्तेभ्यः पूर्वतराश्च ये ॥ तेभ्योऽप्यति पुराणं तं भर्त्तारं कथममिच्छसि ॥ ३५ ॥ ब्रह्मणो वरदानेन यस्त्ववध्यो दिवौकसाम् ॥ ते दैत्यनाथाः सबलाश्छद्मना तेन घातिताः ॥ ३६ ॥ तप्ततापनिदिष्टेन चेतसा रक्षसां श्रियम् ॥ यो बिभर्त्यपि तां तेन किं करिष्यति भामिनि ॥ ३७ ॥ वृद्धेभ्यो न श्रुतं तस्य त्वया रूपमनिन्दिते ॥ विदितं सर्वलोकानां विश्वरूपधरस्त्वसौ ॥ ३८ ॥ शेषाहिमोगपर्य्यङ्के तेन त्वं शयिता सह ॥ सविषेणोग्रनिश्र्वासैः परां शान्तिमुपैष्यसि ॥ ३९ ॥ कण्ठग्रहेण निहतो येन तौ मधुकैटभौ ॥ कथं कण्ठग्रहं तस्य समुपैष्यसि सुन्दरि ॥ ४० ॥ हिरण्यकशिपुश्चैवं नखैरुत्क्रान्तजीवितः ॥ कथं रत्यन्तरे तस्य नखवातं सहिष्यसि ॥ ४१ ॥ तस्माद्भावं समुत्सृज्य चारुगात्रि जनार्द्दनै ॥ भजस्व भजमानं मां चिरं प्रीतिमवाप्नुहि ॥ ४२ ॥ वेदवतुवाच ॥ गुणा एव सुरेशस्य दोषास्ते रजनीचर ॥ जगत्प्रकाशका भानोरूलूकस्येव रम्यः ॥ ४३ ॥ किं त्वया सह वादेन वर्णनीयः स मे प्रभुः ॥ यादृशास्तादृशो वापि पतित्वे रजनीचर ॥ ४४ ॥ इति वेदवतीवाक्यं श्रुत्वा कोपसमन्वितः ॥ कामेन राक्षसेन्द्रस्तां केशपाशे परामृशत् ॥ ४५ ॥ त्वया संधर्षिता पाप
॥१४०॥