भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 329, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 329

प्रवेक्ष्यामि हुताशनम् ॥ अयोनिजा भविष्यामि वधार्थं च तथा तव ॥ ४६ ॥ एवमुक्त्वा चितां कृत्वा प्रविष्टा जातवेदसम् ॥ भूयः सीता समुत्पन्ना जनकस्य महात्मनः ॥ ४७ ॥ अयोनिजा महाभागा कर्षतो यज्ञमेदिनीम् ॥ भर्तारं तपसा विष्णुं रामं लब्धवती यथा ॥ ४८ ॥ यस्या अर्थे स रामेण दशग्रीवो हतो रणे ॥ लोकापवादभीतेन दशग्रीवगृहोषिता ॥ ४९ ॥ अतः पत्नी परित्यक्ता सीता भूमौ जनेश्वर ॥ वाल्मीकेराश्रमे सा तु प्रसूता दारकद्वयम् ॥ ५० ॥ कुशं लवं च विक्रान्तौ तयोः सर्वाः क्रियाः कृताः ॥ वाल्मीकिना महाभागो वेदमध्यापितौ यथा ॥ ५१ ॥ प्रकर्षं च धनुर्वेदे पारं नीतौ तु तौ शिशू ॥ वाल्मीकिना तथा कृत्वा रामस्य चरितं शुभम् ॥ ५२ ॥ अध्यापितौ विशालक्षौ दारकौ प्रियदर्शनौ ॥ अगायतां ततस्तौ तु रामयज्ञे कुमारकौ ॥ ५३ ॥ रामस्य चरितं कृत्स्नं रामस्य पुरतः स्थितौ ॥ तस्मात्कारुण्यात्तु विज्ञाय पुत्रौ तौ प्रियदर्शनौ ॥ ५४ ॥ यज्ञे तां च तथाभूतामानाययामास सत्वरः ॥ उवाच च वरारोहां प्रत्ययं कुरु मे शुभे ॥ ५५ ॥ रामस्य वचनं श्रुत्वा सीता वचनमब्रवीत् ॥ यथाहं राघवादन्यं मनसापि न कामये ॥ ५६ ॥ तेन सत्येन मे देवी विवरं संप्रयच्छतु ॥ एतस्मिन्नेव काले तु भुवं भित्त्वा समुत्थितम् ॥ ५७ ॥ धृतं सिंहासनं नागैस्तत्रेनामुपवेशयत् ॥ स्वयं वसुमती देवी पातालं सा ततो गता ॥ ५८ ॥ अविच्छिन्नेन पतता पुष्पवर्षेण पार्थिव ॥ तस्यां भूमिप्रविष्ठायां राघवं क्रोधसंतप्तम् ॥ ५९ ॥ सान्त्वयामास वै ब्रह्मा सर्वलोकनमसकृतः ॥ रामोऽपि कृत्वा सौवर्णी सीतां पत्नीं यशस्विनीम् ॥ ६० ॥ ईजे यज्ञैर्बहुविधैः सह भ्रातृभिरच्युतः ॥ नापदद्यं न विधवा न च व्यालकृतं भयम् ॥ ६१ ॥ न च व्याधिकृतं किञ्चिद्रामे राज्यं प्रशासति ॥ आजानुबाहुर्धर्मात्मा सिंहस्कन्धो नरेश्वरः ॥ ६२ ॥ पृथ्वीं ससागरां रामो धर्मेणान्वशिषत्तमुः ॥ देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ॥ ६३ ॥ यक्षाश्च भूतानि तथा किन्नराश्चैव राक्षसाः ॥ मानुष्याणां दर्शनं ते सौम्याः सन्तो ययुस्सदा ॥ ६४ ॥ यदर्थमेषा चरति गाथा लोके पुरातनी ॥ आजानुबाहुः सिंहास्यः कम्बुग्रीवो महाबलः ॥ ६५ ॥ सर्वभूतशरण्यश्च विष्णुर्मानुष्यतां गतः ॥ सत्यवाननृशंसश्च जातो भक्तजनप्रियः ॥ ६६ ॥ धृतियुक्तो दयाशीलो धर्मयुक्तो जितेन्द्रियः ॥ मितवागपि कार्येषु वक्ता वाचस्पतेः समः ॥ ६७ ॥ वीर्यवान् च वीर्येण महता तेन विस्मितः ॥ तेजसा भास्करसमः क्षमया पृथिवीसमः ॥ ६८ ॥ महेश्वरसमः क्रोधे नीतांबुशनसा समः ॥ एवं सर्वैषु भूतेषु गुणैर्दर्शरथिर्बभौ ॥ ६९ ॥ वर्णानामा श्रमाणां च न साङ्कर्यं नृपोत्तमे ॥ धर्मिष्ठाश्च जनाः सर्वे रामे राज्यं प्रशासति ॥ ७० ॥ निर्दस्युरभवल्लोको नानर्थः किञ्चिदस्पृशत् ॥ नाकालवर्षी पर्जन्यः सर्वसस्यधरा धरा ॥ जना