भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 330, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 330

वि० ध० ॥१४१॥

प्र० सं० अ० २२२

तुरगश्च महात्मरस्य विदितात्मनः ॥७३॥ न ते क्षमं तेन नरेन्द्रचन्द्र वैरं महात्मा स तु लोकपूज्यः ॥ तस्यास्त्रवेगस्त्वयि रणे च वेगं सोढुं न शक्तास्त्रिदशाः सशक्राः ॥७४॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवचनं रावणस्य त्रैलोक्यविजयो नामैक विंशत्युत्तरद्विशततमोऽध्यायः ॥२२१॥ शैलूप उवाच ॥ वसिष्ठाद्विप्रवृधं संप्रैक्ष्य तदा वेदवतीं द्विज ॥ किं चकार महातेजा दशग्रीवः प्रतापवान् ॥१॥ नाडायन उवाच॥ जगाम स तदा लङ्कां पूज्यमानो निशाचरैः ॥ ततस्त्वं प्रेषयामास दूतं धनपतिः स्वयम् ॥ २ ॥ अकार्याद्विनिवर्तस्व सुरैस्ते वि नश्यते वधः ॥ दूतस्य वचनं श्रुत्वा दूतं हत्वा निशाचरः ॥३॥ गत्वा विजिग्ये धनदं विजहारऽस्य पुष्पकम् ॥ पुष्पेकेन विमानेन कैलासं स तदा ययौ ॥ ४ ॥ पुष्पकस्य गतिं रुद्धां तत्र वीक्ष्य निशाचरः ॥ ददर्श शैलशृङ्गस्थं नन्दिनं वानराकृतिम् ॥ ५ ॥ तं दृष्ट्वा मुमुचे हासं नन्दी तं शतवांस्ततः ॥ गिरावस्मिन्दशग्रीव स्वयं क्रीडति शङ्करः ॥६॥ विमानेन यदा तस्य समीपंमुपयास्यसि ॥ करोषि चावहास्यं मां तस्माच्छ्रुप्त्वा म्यहं तव ॥ ७ ॥ मद्वक्रसदृशा घोराः पुलस्त्य प्रजापतेः ॥ उत्पत्स्यन्ति कुले भीमाः क्षयार्थं वानरास्तव ॥ ८ ॥ श्रुत्वैवं नन्दिनो वाक्यं संकै लासं त्रिलोचनम् ॥ नेतुका मस्तदा लङ्कां भुजाञ्चिक्षेप पर्वते ॥ ९ ॥ पौलस्त्यभुजसंरुद्धकैकलासचलित्तासना ॥ जग्राह निर्भरं कण्ठे तदोमा त्रिपुरान्तकम् ॥ १० ॥ ततो गर्जनमहादेवो देवानां प्रवरो हरः ॥ पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ ११ ॥ रक्षसा तेन रोषाच्च भुजानां रुजया तथा ॥ मुक्तो विरावः सुमहास्त्रैलोक्यं येन रावितम् ॥ १२ ॥ मनिरे वज्रनिष्पेषं तस्यामात्या युगक्षयम् ॥ आसनेभ्यः प्रचलिता देवाः शक्रपुरोगमाः ॥ १३ ॥ तेन शब्देन वित्रस्ता सुतरां पर्वतात्मजा ॥ हरस्यालिङ्गनं चक्रे भयोल्लेखाक्षणा भृशम् ॥ १४ ॥ अकुद्विग्नालिङ् नजां प्रीतिं प्राप्य तदा हरः ॥ मुक्त्वा चात्य सुजानन्नाह वाक्यं दशाननम् ॥ १५ ॥ प्रीतोऽस्मि तव वीर्येण शौण्डीर्येण दशानन ॥ यस्माद्राक्षसो रावस्त्वया मुक्तो भयङ्करः ॥ १६ ॥ तस्मात्तवं रावणो नाम भविष्यसि जगत्त्रये ॥ ततः प्रभृति राजेन्द्र रावणो लोकरावणः ॥ १७॥ शातकुम्भमयं लिङ्गं देवदेवस्य शूलिनः ॥ सम्पूजयति राजेन्द्र नित्यं श्रद्धासमन्वितः ॥१८॥ यत्रयत्र यथा याति तत्रतत्रात्य पार्थिव ॥ सौवर्णं तस्य देवस्य लिङ्गं तदनु नीयते ॥ १९ ॥ ततस्तु रावणो राजा ययौ संयमनीं पुरीम् ॥ युयुधे कालपाशेभ्यो यमँश्च सह मृत्युना ॥२०॥ जित्वा पितृगणैश्चैव मोक्षयित्वा च नारकान् ॥ यमेन युयुधे सार्धं क्रोधाद्वैवस्वतस्ततः ॥ २१ ॥ हन्तुमिच्छुन्महीपाल दुरास्तरंण निशाचरम् ॥ वारयामास तं ब्रह्मा वाक्यं चेदमुवाच ह ॥ २२ ॥ अमोघस्त्वव दण्डोयमवध्यश्चैव रावणः ॥ एकस्मिन्नपि निष्क्रान्ते भूयान्महदवग्रहम् ॥ २३ ॥

॥१४१॥