विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 341, कुल 1001 में से
संदर्भ में पढ़ेंव ॥ १४ ॥ तथापि अत्र एवान्न विज्ञेयानि विपश्चिता ॥ तेषामन्तर्भवन्त्येते यस्मात्पार्थिवसत्तम ॥ १५ ॥ बलिकामस्तु रत्यर्थी हिंसार्थी च तथा ग्रहः ॥ असाध्यं बलिकामं तु कृच्छ्रसाध्यं रतिग्रहम् ॥ १६ ॥ हन्तुकाममसाध्यन्तु विना मन्त्रबलं महत् ॥ सांत्वपूर्वं ग्रहो विद्यान्मधुरं यः प्रजायते ॥ १७ ॥ ततश्चान्तसमासाद्य विचित्रं याचते बलिम् ॥ पानमाल्यानुलेपांश्च वैद्यं दृष्ट्वा नमस्यति ॥ १८ ॥ बलिकामस्य लिङ्गानि प्रोक्तान्येतानि वै मया ॥ रमते नृत्यति शुचिस्तथा हसति गायति ॥ १९ ॥ गंधमाल्याम्बरस्नानधूपदानेनरञ्जकः ॥ कथा विचित्राः कुरुते मधुरं सम्प्रभाषते ॥ २० ॥ अलंकृतं चाविशति वर्जयत्यनलंकृतम् ॥ रतिकामस्य रूपाणि ज्ञेयान्येतानि बुद्धिना ॥ २१ ॥ यश्चाविष्टो विदधति सिंहव्याघ्रतरक्षुपम् ॥ युद्धमारभते कर्तुं गजादिभिरभीतवत ॥ २२ ॥ भृशं ताडयति स्वाङ्गं पतत्यग्नौ पतङ्गवत ॥ राजेन्दुपाणि कुरुते विजने रमतेऽधिकम् ॥ २३ ॥ करोति मरणोपायान्हन्तुं कामादितो नरः ॥ लोमहर्षो ऽक्ष्मांद्यं च छायावैकृत्यमेव च ॥ २४ ॥ अमानुषोत्साहबलं विहाराहारचेष्टितम् ॥ द्वौ वा त्रयो वा नेत्रेऽस्य संपश्यन्ते कुमारकाः ॥ २५ ॥ निमीलिताक्षितात्यर्थं रक्ताक्षित्वमं तथा ॥ सामान्यमेतदुद्दिष्टं गृहीतस्य तु लक्षणम् ॥ २६ ॥ मुक्तस्य लक्षणं चातः प्रवक्ष्यामि निबोधत ॥ भूमौ विनिपतत्याशु तथा संज्ञां प्रपद्यते ॥ २७ ॥ परामृशति केशांश्च वासांस्याभरणानि च ॥ शुभाशुभं चात्मकायं पृच्छतिस्म सुहृज्जनम् ॥ २८ ॥ अतः परं प्रवक्ष्यामि देवादिसंग्रहलक्षणम् ॥ चिकित्सितेन संयुक्तं तन्निबोध जनाधिप ॥ २९ ॥ नदीकूलाद्रिशिखररुचिः प्रासादमेव च ॥ शुचिशील समाचारो ज्ञेयो देवग्रहार्दितः ॥ ३० ॥ देवानां पूजनं तस्य पुष्पधूपफलक्षतैः ॥ गन्धदीपप्रदानैश्च वह्निसन्तर्पणेनतथा ॥ ३१ ॥ गौरसैश्च स शाल्यन्नैर्ब्राह्मणैः स्वस्तिवाचनैः ॥ कर्त्तव्यं विदुषा नित्यं ततः संपद्यते सुखी ॥ ३२ ॥ उच्छिष्ट्यान्मक्षवारान्निवरसं कुरुतेऽधिकम् ॥ तस्मिंस्त थोत्सवान्ख्यान्ब्रतानध्ययनानि च ॥ ३३ ॥ बहुशो वटुचाश्नाति वस्त्रं पाटयति स्वकम् ॥ असुरग्रहदृष्टस्य रूपमेतद्दिनार्द्धेशेत ॥ ३४ ॥ दैत्यसंग्पूजनं तस्य कार्यं मांससुरासवैः ॥ रक्तैः पुष्पैर्धूपदीपेस्तथा बीजसमुद्भवैः ॥ ३५ ॥ गन्धर्वबाधानिर्वोपं श्रुत्वा दृष्टः प्रनृत्यति ॥ तीर्थो द्याननदीतीरगन्धमाल्यादिसेवनात ॥ ३६ ॥ यथाकामं विचरति गन्धर्वाप्यादितो नरः ॥ गन्धर्मोल्यैश्च विविधैर्गीतवाद्यैस्तथैव च ॥ ३७ ॥ गन्धर्वपूजनं कार्यं तेन संपद्यते सुखी ॥ निद्राक्षुरलसो दुष्टो दुर्वीवाक्कुरुते करो ॥ ३८ ॥ गर्भवासगृहासेवी नरोगन्धर्त्त विदुबुधाः ॥ नागानां पूजनं तस्य कार्यं कुल्माषपूप्टैः ॥ ३९ ॥ पायसोल्लोपिकापूपैः पद्मोत्पलबिसैस्तथा ॥ अमत्सरी मृदुर्वीरः प्रियवाग्बहुभोजनः ॥ ४० ॥ पृथुविह्वलता