विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 343, कुल 1001 में से
संदर्भ में पढ़ेंवालुके ॥ ४ ॥ एतच्चूर्णीकृतं सर्वं पञ्चगव्यांशमिश्रितम् ॥ सर्वग्रहप्रशमनं स्नानमायुष्यमुत्तमम् ॥ ५ ॥ सर्षपांश्च खरं कुष्ठं घृतं भल्लातकं वचा॥ पूतीकमजमोदां च धूपः सर्वग्रहापहः ॥ ६ ॥ शशं वा रोचनं शस्तं सुवर्णं मणिमौक्तिकम् ॥ विषं सवत्सां धेनुं च मतं छागं तथैव च ॥ ७ ॥ पूर्णं कुम्भं च मंत्रांश्च वीणा चन्दनमेव च ॥ मयूरपक्षाञ्जलजं समाणगणगुणं धनुः ॥ ८ ॥ भल्लातकानि सर्पिंश्च रक्षां धारयेद्धृदे ॥ पुष्पैर्धूपैस्तथा गन्धै र्भर्जैर्नानाविधैस्तथा ॥ ९ ॥ पूर्णकुम्भैः सकल्पांगैरक्षतैश्चन्दनेन च ॥ धूपैरभ्रंकरैश्च बलिः कार्यो विजानता ॥ १० ॥ कायस्थां ज टिलां वीरां वयस्थां नकुलीद्वयम् ॥ जया चापि विजयां चैव मानां पर्पट्कम्बरीम् ॥ ११ ॥ मर्कटीं सूकरीं छत्रामतिच्छत्रां पलङ्कषाम् ॥ रामां पूत नकां केशरक्षां कटुकां कटुकांवचाम् ॥ १२ ॥ चौरकां विष्णुदन्तां च वृश्चिकाण्डीं च चूर्णयेत् ॥ पुराणमेभिर्विपचेद्घृतं तोये चतुर्गुणे ॥ १३ ॥ महा पैशाचकं नाम सर्वग्रहनिवारणम् ॥ रसाञ्जनं त्रिकटुकं मञ्जिष्ठा समनःशिला ॥ १४ ॥ समनि च्छायासुसूत्रेण पिष्ट्वा वर्तिन्तु कारयेत् ॥ छाया शुष्कं तु तं कुर्यादञ्जनं ग्रहनाशनम् ॥ १५ ॥ श्वेतज्योतिष्मती व्योषं वस्त्रसूत्रेण वेष्टितम् ॥ छायांशुष्के पुनः पिष्टे ज्ञेयं प्रशमनं हितम् ॥ ॥ १६ ॥ संपूजनं देवगुरुद्विजानां भक्तिः परा चक्रगदाधरस्य ॥ येषां न तेषां प्रभवन्ति दोषा गृहोद्भवा भूमिपतिमियान ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहबाधाप्रतिषेधो नाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३२ ॥ ॥ छ. ॥ ॥ शैलूष उवाच ॥ ॥ स्कन्दस्य शरणं प्राप्तान्याहुर्हुत्वा शतक्रतुः ॥ यश्चकार महाभाग तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ ॥ नाडायन उवाच ॥ स्कन्दस्य शरणं प्राप्ताञ्छ्रुत्वा शतमखो ययौ ॥ देववृंदगणैः सार्द्धं स्कन्दो यत्र व्यवस्थितः ॥ २ ॥ स्कन्दं देवेश्वरो दृष्ट्वा दीप्ततेजःसमद्युतिम् ॥ तुष्टाव राजशार्दूल प्रयत्नतः सुसमाहितः॥ ३ ॥ ॥ शक्र उवाच ॥ ॥ देवदेवं नमस्यामि कुमारं वरमच्युतम् ॥ कार्तिकेयं दुराधर्षं वह्नितैजः ससुद्भवम् ॥ ४ ॥ उमाशङ्करजं भीमं गङ्गाया जठरे धृतम् ॥ शक्तिहस्तं विशालाक्षं षण्मुखं दीप्ततेजसम् ॥ ५ ॥ भक्तानुकम्पिनं दांतं ब्रह्मण्यं वरदं प्रभुम् ॥ काकपक्षधरं शांतं शिवषण्डकविभूषितम् ॥ ६ ॥ रक्ताम्बरं महाबाहुं मयूरवरगामिनम् ॥ घण्टाप्रियं गणाध्यक्षं महाबलपराक्रमम् ॥ ॥ ७ ॥ सेनापतिं देवं सर्वलोकहितेप्सया ॥ षष्ठ्यान्तु शुक्लपक्षस्य ये च त्वां भौमवासरे ॥ ८ ॥ कृत्तिकास्वर्चयिष्यन्ति यथालाभं पृथक्पृथक् ॥ न तेषां दुर्लभं किञ्चिद्भविष्यति सुरोत्तम ॥ ९ ॥ द्वियोगे द्विगुणं फलं स्कन्द भविष्यति ॥ त्रियोगे पूजनं कृत्वा भवतः सुरसत्तम ॥ १० ॥ अक्षयं फलमाप्नोन्ति नात्र कार्या विचारणा ॥ वैशाखमासादारभ्य पञ्चम्यां च उपोषितः ॥ ११ ॥ भवन्तं पूजयेत्षष्ठ्यां संवत्सरमतन्द्रितः ॥