भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 344, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 344

पुत्रार्थी लभते पुत्रान्धनकामो धनानि च ॥ १२ ॥ मृतश्च प्राप्नुयात्स्वर्गं त्वयि तुष्टे सुरोत्तम ॥ स्तोत्रेण च मदीयेन ये स्तोष्यन्ति तव प्रभो ॥ १३ ॥ लोकद्वयेऽपि ते कामान्प्राप्स्यन्ति मनसेप्सितान् ॥ स्कन्द उवाच ॥ ॥ पिता मे दैवतं शक्र महादेवः प्रतापवान् ॥ १४ ॥ तस्याज्ञायां करिष्यामि यन्मां वक्ष्यति वासव ॥ ॥ नाडायन उवाच ॥ ॥ ततः प्रादुरभूत्तत्र देवदेवस्त्रिलोचनः ॥ १५ ॥ अभ्यर्च्य चैव कुमारं च ब्रह्मणा सहितः प्रभुः ॥ सेनापत्येन देवानां सोऽभिषिक्तस्तदा प्रभो ॥ १६ ॥ जघान महिषं नाम दानवं देवकण्टकम् ॥ महिषेण समान्वीर्याञ्जघानायुतशोऽपरान् ॥ १७ ॥ बहुत्वान्दानवान्वीरः स्कन्दः परबलार्द्दनः ॥ यदा हन्तुं न शक्नोति तदा देवस्त्रिलोचनः ॥ १८ ॥ जघान मनसा तत्र ततः शूलवरायुधः ॥ जघान दानवानन्याञ्शतशोऽथ सहस्रशः ॥ १९ ॥ भक्तोऽनुकम्पी भगवान्त्रिनेत्रो दुरारिसंघान्विनिपात्य सद्यः ॥ कृत्वा त्रिलोकीं च तदा प्रहृष्टां जगाम कैलासगिरिं महात्मा ॥ २० ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे महिषवधो नाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३३ ॥ ॥ नाडायन उवाच ॥ ॥ तस्यैव देवदेवस्य प्रभावमपरं शृणु ॥ गुहकामैः सुरैः पूर्वं यज्ञे भागो न कल्पितः ॥ १ ॥ यदा राजंस्त्रिनेत्रस्य तदा क्रुद्धेन शंभुना ॥ यज्ञवाटं ततो गत्वा देवा निर्वासिता बलात् ॥ २ ॥ पुरोडाशं भक्षयित्वा पूष्णो दन्तानशातयत् ॥ भगस्य नयनं वामं बभञ्ज परवीरहा ॥ ३ ॥ क्रुद्धं दृष्ट्वा महादेवं भृगुरप्यत्रस्तदा ॥ प्राद्रवत्सहसा यज्ञो नरनारायणाश्रमम् ॥ ४ ॥ तमन्वयान्महातेजा बाणचापधरो हरः ॥ यज्ञानुसारिणं प्राप्तं दृष्ट्वा बाणधनुर्धरम् ॥ ५ ॥ नारायणस्तु तं चक्रे विह्वलं कण्ठपीडनात् ॥ विह्वले तु महादेवे यज्ञो दिवमथाश्रितः ॥ ६ ॥ हरोऽपि लब्धसंज्ञस्तमन्वयाद्दिवि सत्त्वरः ॥ न शशाक मृगं वोढुं यदा धर्मश्च तेजसा ॥ ७ ॥ ततस्तं बोधयामास ब्रह्मा शुभचतुर्मुखः ॥ भगस्य पूष्णश्च तदा प्रसादमकरोत्पुनः ॥ ८ ॥ यज्ञस्य चाभयं दत्त्वा क्रीडन्तमकरोत्पुनः ॥ तारामृगोऽथ गगने महादेवानुगः सदा ॥ ९ ॥ दृश्यते स महाभाग रात्रौ गगनभूषणः ॥ १० ॥ क्रुद्धेन रुद्रेण सुरा निरस्ताः स्वस्थाः प्रसन्नेन कृताश्च भूयः ॥ तस्मात्प्रसन्नोऽस्तु भवाय लोके क्रुद्धश्च लोकान्तकरः प्रदिष्टः ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे यज्ञविध्वंसनो नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३४ ॥ ॥ नाडायन उवाच ॥ तस्यैव देवदेवस्य प्रभावमपरं शृणु ॥ तेन विध्वंसितो यज्ञो यदा दक्षस्य धीमतः ॥ १ ॥ दक्षस्य यजमानस्य गङ्गाद्वारे पुरा प्रभो ॥ अनाह्वाने च शर्वस्य देवी प्रकुपिताऽभवत् ॥ २ ॥ देव्याः प्रकोपाच्च तथा क्रुद्धः शूलधरस्तदा ॥ वीरभद्रेति विख्यातं क्रोधजं

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 344, कुल 1001 में से · BharatKosha