विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 345, कुल 1001 में से
संदर्भ में पढ़ेंसृष्टवान्गणम् ॥ ३ ॥ भद्रकाली स्वकाद्देहात्सृष्ट्वत्यथ पार्वती ॥ गणैरनुगतो राजन्वीरभद्रो महायशाः ॥ ४ ॥ भद्रकाली तथा गत्वा दक्षयज्ञम- शातयत् ॥ विध्वस्यमानं यज्ञन्तु पार्वत्या सहितः शिवः ॥ ५ ॥ दृष्टवांस्तत्र राजेन्द्र भद्रकर्णेश्वरः स्थितः ॥ विध्वस्यमाने यज्ञे तु दक्षो वचनम- ब्रवीत् ॥ ६ ॥ वीरभद्रं महाभागं भद्रकालीं तथैव च ॥ कौ भवन्ताविह प्राप्तौ मम यज्ञोपघातकौ ॥ ७ ॥ वीरभद्र उवाच ॥ क्रुद्धेन शङ्करे- णावां भागस्यापरिकल्पनात् ॥ यज्ञविध्वंसनार्थाय प्रेषितौ ते परन्तपौ ॥ ८ ॥ भद्रकर्णेश्वरं शर्वं गच्छ शीघ्रं प्रसादय ॥ नारायण उवाच ॥ वीरभद्रवचः श्रुत्वा गत्वा तुष्टाव शङ्करम् ॥ ९ ॥ अश्वमेधसहस्रायं फलं लेभे त्रिलोचनात् ॥ त्रिलोचनस्तदा तुष्टो वीरभद्रमभाषत ॥ १० ॥ यत्रत्वेन त्वया यज्ञो दाक्षाय्याय विनाशितः ॥ तत्र स्थाने तु सततं सांनिध्यं त्वं करिष्यसि ॥ ११ ॥ पूजां च विपुलां तत्र प्राप्स्यसे मत्प्रसादजाम् ॥ ये च त्वां पूजयिष्यन्ति वीरभद्र गणेश्वर ॥ १२ ॥ ते नाकपृष्ठं यास्यन्ति नात्र कार्या विचारणा ॥ दक्षेण च समाहूता भद्रकर्णेश्वरे त्वया ॥ १३ ॥ सरस्वती महाभागा प्रविष्टा जाह्नवीजलम् ॥ सङ्गमे च तयोः स्नात्वा पूजां मम करिष्यति ॥ १४ ॥ यः पुमान्स गणेशत्वं मम प्राप्स्यत्यसंशयम् ॥ गङ्गाद्वारं कुशावर्त्तं विल्वकं नीलपर्वतम् ॥१५॥ तथा कनलखलं तीर्थं सर्वपापप्रमोचनम् ॥ भविष्यति महाभाग तथैव च मनोहरम् ॥ १६ ॥ प्रजापतेर्यज्ञभुवं समासाद्य यतस्ततः ॥ मोक्ष्यते पातकं सर्वं त्रिदिवं च गमिष्यति ॥ १७ ॥ भूमिष्ठमुद्धतात्पुण्यं तस्मात्प्रस्रवणोदकम्॥तस्मादपि तथा पुण्यं सारसं परिकीर्तितम् ॥ सासान्नैर्झरं पुण्यं नादेयमपि नैर्झरात् ॥ १८॥ तस्मादपि च गाङ्गेयं तदिहापि विशेषतः ॥ सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥ १९॥गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ गङ्गाद्वारे कुशावर्ते विल्वके नीलपर्वते ॥२०॥ स्नात्वा कनलखले तीर्थे न पुनर्जन्मभाग्भवेत् ॥ तीर्थपञ्चकमेतद्धि यत्रेव गणनायकः ॥ २१ ॥ तत्र सन्निहितो ब्रह्मा तत्राहं तत्र केशवः ॥ तत्र देवगणाः सर्वे ऋषयश्च तपोधनाः ॥ २२ ॥ तत्समीपे च ते स्थानं त्विदं दत्तं मया तव ॥ तत्र त्वं सततं वत्स लोकानाम्पूजामवाप्स्यसि ॥ २३ ॥ एवमुक्ता महातेजा वीरभद्रं महेश्वरः ॥ उवाच वचनं देवो भद्रकालीं महेश्वरः ॥२४ ॥ महेश्वर उवाच ॥ नमोस्तु ते महाभागे वरदे कामरूपिणि ॥ अष्टादशभुजे स्वस्ति शूलमुद्गरधारिणि ॥ २५ ॥ पीतकोशेयवसने शशाङ्कसहशानने ॥ नीलोत्पलदलश्यामे गजकुम्भोपमस्तनि ॥ २६ ॥ वरदे चारुसर्वाङ्गि सर्वाभरणभूषिते ॥ कमण्डलुधरे देवि देवादिबलनाशिनी॥२७॥अदितिश्च दितिश्चैव वनिता सिद्धिरेव च॥रात्रिनिंद्रा प्रभा कान्तिर्वृद्धि- र्लक्ष्मीः सरस्वती॥२८॥ धृतिः कीर्तिः स्वधा स्वाहा त्वमेव वरवर्णिनी ॥ त्वां जनाः पूजयिष्यन्ति सर्वकामप्रदां शुभाम्॥२९॥नवम्यां शुक्लपक्षस्य