भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 346, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 346

वि० ध० ॥१४१॥ प्र० सं० अ० २३६

लोकात्पूजामवाप्स्यसि ॥ नवम्यां पूजयिष्यंति ये त्वां सम्यगुपोषिताः॥३०॥ तेषां त्वं काम्यदा सौम्ये भविष्यसि न संशयः ॥ कन्दरेषु च शैलानां वनानां गहनेषु च ॥ ३१ ॥ रंस्यसे त्वं विशालाक्षि तदा पूजामवाप्स्यसि ॥ ये च त्वां मत्प्रभावाज्ञाः पूजयिष्यन्ति मानवाः ॥३२॥ न तेषां दुर्लभं किञ्चिदिह लोके परत्र च ॥ ये चेदं मत्कृतं स्तोत्रमभिधास्यन्ति भक्तितः॥३३॥ते सर्वं भयनिर्मुक्ता भविष्यन्ति न संशयः ॥नाडायन उवाच॥ एतावदुक्त्वा वचनं तत्रैवान्तरधीयत॥३४॥ दक्षोपि च वरं लब्ध्वा मुदं लेभे त्रिलोचनात्॥३५॥एवं प्रभावो वरदः स देवो भक्त्यनुकम्पी जगतो निवासः ॥ कस्यास्त्य वक्तुं नृपवर्य तस्य गुणान्प्रवक्तुं सकला हि शक्तिः ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये दक्षयज्ञविध्वंसनो नाम पञ्चत्रिंशादुत्तरद्विशततमोऽध्यायः ॥ २३५ ॥ ॥ नाडायन उवाच ॥ प्रभावमपरं तस्य शृणु देवस्य शूलिनः॥ यथा विमोक्षितस्तेन श्वेतो मृत्युवशं गतः ॥ १ ॥ श्वेतो नाम महातेजा ऋषिः परमधार्मिकः ॥ पूजयामास सततं लिङ्गं त्रिपुरघातिनः ॥ २ ॥ तस्य पूजाप्रसक्तस्य कदाचित्पृथिवीपते ॥ आजगाम समुद्देशं कालः परमदारुणः ॥ ३ ॥ रक्तवृत्तत्रिनयनः सर्पयज्ञोपवीतवान् ॥ दंष्ट्राकरालो विकटः चूर्णिताञ्जनसंनिभः ॥ ४ ॥ रक्तवासा महाकायः सर्पाभरणभूषितः ॥ पाशहस्तस्तथाऽभ्येत्य श्वेते पारमथायुजत् ॥ ५ ॥ कण्ठात्पतितं पाशेन श्वेतः कालमथाब्रवीत् ॥ क्षणमात्रं प्रतीक्षस्व मम त्रिभुवनान्तक ॥ ६ ॥ निवर्त्तयाम्यहं यावत्पूजनं मन्मथाद्विषः ॥ तमब्रवीत्तदा कालः प्रहसन्मुहुषानिव ॥ ७ ॥ न श्रुतं तु त्वया मन्ये वृद्धानां श्वेत जल्पितम् ॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराणिकं ॥ ८ ॥ न हि प्रतीक्षते मृत्युः कृतं वास्यन्न वा कृतम् ॥ गतं बाष्यथ बाल्ये वा यौवने वार्धकेपि वा ॥ ९ ॥ आयुष्ये कर्मणि क्षीणे लोकोऽयं नीयते मया ॥ नौषधानि न मंत्राश्च न होमो न पुनर्जयः ॥ १० ॥ त्रायन्ति मृत्युनापेतं जरया वापि मानवम् ॥ बहूनीन्द्रसहस्राणि पितामहशतानि च ॥ ११ ॥ मया नीतानि कर्त्तव्यो नात्र मन्युस्त्वयानघ ॥ विभूतेः पूजनं यस्य महादेवस्य शूलिनः ॥ १२ ॥ देहन्यासं स बहुधा मया वै श्वेत कारितः ॥ स्वयं प्रसूनं वैवाहं कर्मायिता मतिर्मम ॥ १३ ॥ कर्मणां हि तथा नाशं नास्ति भूतस्य कस्यचित् ॥ कर्ममार्गाणुसारेण धात्राहं संप्रचोदितः ॥ १४ ॥ नयामि सर्वमाक्रम्य त्रैलोक्यं सचराचरम् ॥ एवमुक्तस्तु कालेन नीयमानस्त्रिलोचनम् ॥ १५ ॥ जगाम सर्वभावेन शरणं भक्तवत्सलम् ॥ श्वेते तु शरणं प्राते लिङ्गस्य त्रिपुरांतकः ॥ १६ ॥ भूतमध्यभवद्व्याघ्रः प्रादुर्भावेतु शार्ङ्गिणः ॥ आत्मनः कवचं कृत्वा कृतरक्षो महेश्वरः ॥ १७ ॥ भित्त्वा लिङ्गं समुत्तस्थौ क्रोधविस्फारितेक्षणः ॥ तृतीयलोचनज्वालप्रकारितजगत्त्रयः ॥१८॥