भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 347, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 347

दृष्टमात्रस्तदा तस्य कालो जज्वल तेजसा ॥ स शान्तो भस्मभूश्च सर्वभूतविधिर्ययैः ॥ १९ ॥ श्वेतस्य दत्त्वा सामीप्यं गणेशत्वं तथैव च ॥ कृत्वा विधिव्रहं कालं तत्रैवान्तरधायत ॥ २० ॥ ततः प्रभृति राजेन्द्र कालः स कल्यन्प्रजाम् ॥ न कैश्चिदृष्यते लोके विद्वद्भूत्वाजगत्त्रये ॥ २१ ॥ ॥ शैलूष उवाच ॥ ॥ वैष्णवं कवचं ब्रह्मन्सर्वबाधानिवारणम् ॥ त्वत्तोहं श्रोतुमिच्छामि तत्र मे संशयो महान् ॥ २२ ॥ ॥ नाडायन उवाच ॥ अदृष्ट्यमेतत्परमं पवित्रं पूर्वोक्तं कल्मषनाशनं च ॥ दुःखापहं ते कवचं ब्रवीमि रक्षा कृता येन महेश्वरेण ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे कालदरणो नाम षट्त्रिंशुदत्तराद्विशततमोऽध्यायः ॥ २३६ ॥ ॥ महेश्वर उवाच ॥ ॥ प्रणम्यामजरमीशानमजं नित्यमनामयम् ॥ देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ १ ॥ वक्ष्याम्यहं प्रतिसरं नमस्कृत्य जनार्द्दनम् ॥ अमोघमप्रतिहतं सर्वदुःख निवार णम् ॥ २ ॥ विष्णुमन्नामात्रः पातु कृष्णो रक्षतु पृष्ठतः ॥ हरिर्मे रक्षतु शिरो हृदयं च जनार्द्दनः ॥ ३ ॥ मनो मम हृषीकेशो जिह्वां रक्षतु केशवः॥ पातु नेत्रे वासुदेवः श्रोत्रे संकर्षणस्तथा ॥ ४ ॥ प्रद्युम्नः पातु मे घ्राणमनिरुद्धो मुखं मम ॥ वनमाली गलं पातु श्रीवत्सो रक्षतातुरः ॥ पात्वं उ पातु मे चक्रं वामं दैत्यविदारणम् ॥ ५ ॥ दक्षिणं तु गदादेवी सर्वासुरनिवारिणी ॥ उदरं मुसली पातु पृष्ठं पातु च लाङ्गली ॥ ६ ॥ ऊरू रक्षतु शार्ङ्गी मे जङ्घे रक्षतु चर्मकी ॥ पाणी रक्षतु शंखी च पादौ मे चरणावुभौ ॥ सर्वकार्यार्थसिद्धयर्थं पातु मां गरुडध्वजः ॥ ७॥ वाराहो रक्षतु जले विषमेषु च वामनः ॥ अटव्यां नरसिंहस्तु सर्वतः पातु केशवः ॥ ८ ॥ हिरण्यगर्भो भगवान्विन्हरण्यं मे प्रयच्छतु ॥ सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ ९ ॥ श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ॥ सर्वाञ्छत्रून्दहत्वद्य मधुकैटभसूदनः ॥ १० ॥ विकुर्वीत सदा विष्णुः किल्बिषं मम विग्रहात् ॥ हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥ ११ ॥ त्रिविक्रमस्तु मे देवः सर्वान्पाशान्निकृन्ततु ॥ नारायणो देवो बुद्धिं पालयतां मम ॥ १२ ॥ शेषो शेषामलज्ञानः करोत्वज्ञाननाशनम् ॥ वडवामुखो नाशयतु कल्मषं यन्मया कृतम् ॥ १३ ॥ विद्यां ददातु परमाम्भगवान्नरः पालयतु सपुत्रपशुबान्धवम् ॥ १४ ॥ सर्वान्रोगान्नाशयत रामः पशुना मम ॥ रक्षोभ्यो मे दाशरथिः पातु नित्यं महाभुजः ॥ १५ ॥ रिपूनूहलेन मे हन्याद्दामो यादवन्दनः ॥ प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ॥ १६ ॥ कृष्णो यो बालभावेन स मे कामान्प्रयच्छतु ॥ अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम् ॥ १७ ॥ पश्यामि भयतंसतः पाशहस्तमिवान्तकम्॥ ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ॥ १८ ॥ योगीशममितिरूपस्थं शुभांशीतांशुनिर्मलम् ॥ धन्योऽहं विजयी नित्यं यस्य मे भगवा