विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 348, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१६०॥
प्र० खं० अ० २३८
॥१६०॥
न्दर्हैः ॥ १९ ॥ स्तुत्वा नारायणं देवं सर्वोपद्रवनाशनम् ॥ वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ २० ॥ अप्रधृष्योऽस्मि भूतानां सर्व- विष्णुमयोह्यहम् ॥ स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ २१ ॥ सिद्धिर्भवतु मे नित्यं तथा मंत्र उदाहृतः ॥ यो मां पश्यति चक्षुर्भ्यां यं च पश्यामि चक्षुषा ॥ २२ ॥ सर्वासां समदृष्टीनां विष्णुर्वक्षतु चक्षुषा ॥ वासुदेवस्य चक्रं तस्य चक्रस्य ये अराः ॥ २३ ॥ ते च छिन्दन्तु मे पापं मा मे हिंसन्तु हिंसकाः ॥ राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ॥ २४ ॥ विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ नदीसन्तरणे घोरे संग्रामे प्राणसंशये ॥ २५ ॥ अग्निरौत्पातिके च सर्वग्रहनिवारणे ॥ विद्युतसर्पविषोद्योगे वातोत्थे रिपुसङ्कटे ॥२६॥ तथ्यमेतज्जपेत्रित्यं शरीरे भय आगते ॥ अयं भगवतो मन्त्रो मंत्राणां परमो महान् ॥ २७॥ विख्यातं कवचं गुह्यं सर्वपापप्रणाशनम् ॥ स्वमायाकृतनिर्माणं कल्पांतगृहलोपकत् ॥ अनाथं तज्जगद्विजं पद्मनाभ नमोस्तु ते ॥ २८ ॥ ॐकालाय स्वाहा ॥ ॐकालपुरुषाय स्वाहा ॥ ॐप्रचण्डाय स्वाहा ॥ ॐ प्रचण्डपुरुषाय स्वाहा ॥ ॐसर्वाय स्वाहा ॥ ॐसर्वसर्वाय स्वाहा ॥ ॐनमो भुवनेशाय त्रिलोकेशाय इतितीपरिटि स्वाहा ॥ ॐउत्तेमनेनअधुनेमे वायुतुमं चे सत्त्वाः पापातुचारास्तेषां दैत्यदानवयक्षराक्षसभूतप्रेतपिशाचकूष्माण्डापस्मारोन्मादनज्वराणां एकाहिकद्वितीयाकतृतीयाकचातुर्थिकभौमाहिकादि नड्वरात्रि्जवरसततज्वरसन्ध्याज्वरसंर्वज्वरादीनामुत्सादनलूताकीटकंटककंटकपूतनासुजग्मस्थावरविषमविषवादीनामिदं शरीरं ममाप्रधृष्यं भवतु ॐ सुकारे प्रकोरटककटविकटद्रूंघूवेती रक्ष ॥ ॐ हूँ हूँ हूँ हूँ दिनकरसहस्रकान्तसमोमतेजः पश्चमतो रक्षक्ष ॥ ॐ निरिनिरिमृदीतज्वलन ज्वालाकालमहाकपिलजटिल उत्तरतो रक्ष ॥ ॐ चिलिचिलिमिलिमिलिकेडि गौरिगांधारि विषोदानि विषं मां मोहयुत स्वाहा ॥ दक्षिणतो रक्ष माममुकस्य सर्वभूतमयोपद्रवभ्यः स्वाहा ॥ जयति विजयदानं जायतां रिपुपुवदासतुनवध्यते भयदृढभयमद्योमयंभवं दिशतु ममामयसुदारमच्युतः॥ यदुदरमखिलं विशन्ति रश्मयः ॥ आबान्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ह्यशुशित्सितारः ॥ सर्वञ्चवन्वन्तु ममानिरुद्धप्रद्युम्नसंकर्षणवासु देवाः॥२९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शेलूपं प्रति नाडायनावक्ये विष्णुकवचं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः॥२३७॥ ॥ वज्र उवाच ॥ श्रुत्वा कालाङ्गदहनं ब्राह्मणेन समीरितम् ॥ किं पप्रच्छ तदा ब्रह्मन्शैलूपो मृत्युचोदितः॥१॥ मार्कण्डेय उवाच ॥ श्रुत्वा कालाङ्गद हनं ब्राह्मणेन समीरितम् ॥ रावणस्यैव चरितं भूयः पप्रच्छ तं तदा ॥ २ ॥ शैलूप उवाच ॥ चरितस्यावशेषं यद्दशग्रीवस्य रक्षसः ॥ तदहं श्रोतु मिच्छामि तत्र मे संशयो महान्॥३॥ नाडायत उवाच ॥ ततोऽस्य नगरं भूयः परिक्राम रावणः ॥ स ददर्श तदा तत्र प्रासादं सर्वकाञ्चनम्॥४॥