विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 349, कुल 1001 में से
संदर्भ में पढ़ेंमुक्ताजालपरिक्षिप्तं तथा विद्रुमतोरणम् ॥ गारुडेन च रक्तेन समन्तात्कृतवेदिकम् ॥ ५ ॥ वैदूर्यरुचिरस्तम्भं पद्मरागप्रभोज्ज्वलम् ॥ इन्द्रनीलप्रभाच्छन्नं निर्यूहशतशोभितम् ॥ ६ ॥ महाभुवनसंबाधं महोद्यानविभूषितम् ॥ सुखारोहणसोपानं दीर्घिकाशतसंकुलम् ॥ ७ ॥ सर्वर्तु- कुसुमैर्वृक्षैः समन्तादुपशोभितम् ॥ सर्वासुनयुतं रम्यं महेन्द्रभवनाधिकम् ॥ ८॥ तन्तु दृष्ट्वा गृहं राजन्रहस्तं वाक्यमब्रवीत् ॥ प्रहस्त शीघ्रं जानी- हि कस्येदं भवनोत्तमम् ॥ ९ ॥ एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ संप्रतातायौं च कक्षायां भिन्नाञ्जनचयोपमम् ॥ १० ॥ सर्वाभरणसंवीतं सर्व- लक्षणलक्षितम् ॥ गृहीत्वा लोहमुसलं द्वारदेशे व्यवस्थितम् ॥ ११ ॥ ददर्श पुरुषं भीमं ज्वालामण्डलदुर्द्दशम् ॥ तं तु दृष्ट्वा तथा भूतं स विवेश दशाननः ॥ १२ ॥ समातायां¹ च कक्षायां स ददर्श तमेव हि ॥ तमुवाच महातेजा निशाचरगणेश्वरः ॥ १३ ॥ युद्धार्थमहमनुप्राप्तो युद्धातिथ्यं प्रयच्छ मे ॥ अथ वा तस्य शंस त्वं गृहे योस्मिन्वयवस्थितः ॥ १४ ॥ ततो राक्षसराजस्य पुरुषो वाक्यमब्रवीत् ॥ तिष्ठत्यस्मिन्गृहे राजा दान- वानां बलिर्बली ॥ १५ ॥ तेन चेद्योत्स्यसे वीर प्रविशेदं गृहोत्तमम् ॥ योद्धुं नार्हसि तेन त्वं स महात्मा महाबलः ॥ १६ ॥ ब्रह्मण्यश्च शरण्यश्च शूरः सत्यपराक्रमः ॥ वीरो बहुगुणोपेतो बलवान्दृढविक्रमः ॥ बालार्क इव तेजस्वी समरेष्वनिवर्त्तकः ॥ १७ ॥ प्रियंवदः संविभागी गूढ- साङ्ख्यीय तत्परः ॥ एवमुक्तो दशग्रीवः प्रविवेश गृहोत्तमम् ॥ १८ ॥ अथ संदर्शनादेव बलिना सुमहामना ॥ शीघ्रमुत्सङ्गमानीय पृष्टस्त्वगमनं ततः ॥ १९ ॥ तस्योवाच महातेजा रावणो राक्षसाधिपः ॥ श्रुतं मया महाभाग बद्धस्त्वं किल विष्णुना ॥ २० ॥ सोऽहं मोचयितुं शक्तो बन्धनात्त्वां न संशयः ॥ एवमुक्तस्ततो हासं बलिर्मुक्त्वेदमन्रवीत् ॥ २१ ॥ एते मे कुण्डले दिव्ये महारत्नोपशोभिते ॥ अनयोरेककम्मानी- य चात्रोपविश मा चिरम् ॥ २२ ॥ अत्रोपविष्टस्य च ते व्याख्यास्ये विष्णोर्विक्रमम् ॥ एवमुक्तो दशग्रीवः कुण्डलानयने ततः॥२३॥ चकार परमं यत्नं न शशाक च शङ्कहा ॥ यदा चालयितुं स्थानान्न शशाक स कुण्डलम् ॥ २४ ॥ प्रस्विन्नसर्व्वगात्रस्तु संदृष्टदशनच्छदः ॥ भ्रुकुटीसंकट मुखः परं विस्मयमागतः ॥ २५ ॥ उत्सङ्गे तदवस्थे तु बलिः कृत्वेदमब्रवीत् ॥ हिरण्यकशिपुर्नामनामवन्मे प्रपितामहः ॥ २६ ॥ यदा बभूव तस्येमे कुण्डले वै बभूवतुः ॥ एताभ्यां कुण्डलाभ्यां तु सोऽभूत्पूर्वं विभूषितः ॥ २७ ॥ उर्वारोरोप्य नखरैः करैस्तेन विदारितः ॥ २१॥ कथमन्य महाभागं तं त्वं जेतुं व्यवस्यसि ॥ २८ ॥ स एव पुरुषः श्यामो द्वारे तिष्ठति नित्यशः ॥ एतेन दानवेन्द्राश्च तथान्ये बलदर्पिताः ॥ २९॥
¹ 'सप्तमायाम्' इति ख० ।
२६