विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध० ॥१४१॥ प्र० सं० अ० २३६
लोकात्पूजामवाप्स्यसि ॥ नवम्यां पूजयिष्यंति ये त्वां सम्यगुपोषिताः॥३०॥ तेषां त्वं काम्यदा सौम्ये भविष्यसि न संशयः ॥ कन्दरेषु च शैलानां वनानां गहनेषु च ॥ ३१ ॥ रंस्यसे त्वं विशालाक्षि तदा पूजामवाप्स्यसि ॥ ये च त्वां मत्प्रभावाज्ञाः पूजयिष्यन्ति मानवाः ॥३२॥ न तेषां दुर्लभं किञ्चिदिह लोके परत्र च ॥ ये चेदं मत्कृतं स्तोत्रमभिधास्यन्ति भक्तितः॥३३॥ते सर्वं भयनिर्मुक्ता भविष्यन्ति न संशयः ॥नाडायन उवाच॥ एतावदुक्त्वा वचनं तत्रैवान्तरधीयत॥३४॥ दक्षोपि च वरं लब्ध्वा मुदं लेभे त्रिलोचनात्॥३५॥एवं प्रभावो वरदः स देवो भक्त्यनुकम्पी जगतो निवासः ॥ कस्यास्त्य वक्तुं नृपवर्य तस्य गुणान्प्रवक्तुं सकला हि शक्तिः ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये दक्षयज्ञविध्वंसनो नाम पञ्चत्रिंशादुत्तरद्विशततमोऽध्यायः ॥ २३५ ॥ ॥ नाडायन उवाच ॥ प्रभावमपरं तस्य शृणु देवस्य शूलिनः॥ यथा विमोक्षितस्तेन श्वेतो मृत्युवशं गतः ॥ १ ॥ श्वेतो नाम महातेजा ऋषिः परमधार्मिकः ॥ पूजयामास सततं लिङ्गं त्रिपुरघातिनः ॥ २ ॥ तस्य पूजाप्रसक्तस्य कदाचित्पृथिवीपते ॥ आजगाम समुद्देशं कालः परमदारुणः ॥ ३ ॥ रक्तवृत्तत्रिनयनः सर्पयज्ञोपवीतवान् ॥ दंष्ट्राकरालो विकटः चूर्णिताञ्जनसंनिभः ॥ ४ ॥ रक्तवासा महाकायः सर्पाभरणभूषितः ॥ पाशहस्तस्तथाऽभ्येत्य श्वेते पारमथायुजत् ॥ ५ ॥ कण्ठात्पतितं पाशेन श्वेतः कालमथाब्रवीत् ॥ क्षणमात्रं प्रतीक्षस्व मम त्रिभुवनान्तक ॥ ६ ॥ निवर्त्तयाम्यहं यावत्पूजनं मन्मथाद्विषः ॥ तमब्रवीत्तदा कालः प्रहसन्मुहुषानिव ॥ ७ ॥ न श्रुतं तु त्वया मन्ये वृद्धानां श्वेत जल्पितम् ॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराणिकं ॥ ८ ॥ न हि प्रतीक्षते मृत्युः कृतं वास्यन्न वा कृतम् ॥ गतं बाष्यथ बाल्ये वा यौवने वार्धकेपि वा ॥ ९ ॥ आयुष्ये कर्मणि क्षीणे लोकोऽयं नीयते मया ॥ नौषधानि न मंत्राश्च न होमो न पुनर्जयः ॥ १० ॥ त्रायन्ति मृत्युनापेतं जरया वापि मानवम् ॥ बहूनीन्द्रसहस्राणि पितामहशतानि च ॥ ११ ॥ मया नीतानि कर्त्तव्यो नात्र मन्युस्त्वयानघ ॥ विभूतेः पूजनं यस्य महादेवस्य शूलिनः ॥ १२ ॥ देहन्यासं स बहुधा मया वै श्वेत कारितः ॥ स्वयं प्रसूनं वैवाहं कर्मायिता मतिर्मम ॥ १३ ॥ कर्मणां हि तथा नाशं नास्ति भूतस्य कस्यचित् ॥ कर्ममार्गाणुसारेण धात्राहं संप्रचोदितः ॥ १४ ॥ नयामि सर्वमाक्रम्य त्रैलोक्यं सचराचरम् ॥ एवमुक्तस्तु कालेन नीयमानस्त्रिलोचनम् ॥ १५ ॥ जगाम सर्वभावेन शरणं भक्तवत्सलम् ॥ श्वेते तु शरणं प्राते लिङ्गस्य त्रिपुरांतकः ॥ १६ ॥ भूतमध्यभवद्व्याघ्रः प्रादुर्भावेतु शार्ङ्गिणः ॥ आत्मनः कवचं कृत्वा कृतरक्षो महेश्वरः ॥ १७ ॥ भित्त्वा लिङ्गं समुत्तस्थौ क्रोधविस्फारितेक्षणः ॥ तृतीयलोचनज्वालप्रकारितजगत्त्रयः ॥१८॥
दृष्टमात्रस्तदा तस्य कालो जज्वल तेजसा ॥ स शान्तो भस्मभूश्च सर्वभूतविधिर्ययैः ॥ १९ ॥ श्वेतस्य दत्त्वा सामीप्यं गणेशत्वं तथैव च ॥ कृत्वा विधिव्रहं कालं तत्रैवान्तरधायत ॥ २० ॥ ततः प्रभृति राजेन्द्र कालः स कल्यन्प्रजाम् ॥ न कैश्चिदृष्यते लोके विद्वद्भूत्वाजगत्त्रये ॥ २१ ॥ ॥ शैलूष उवाच ॥ ॥ वैष्णवं कवचं ब्रह्मन्सर्वबाधानिवारणम् ॥ त्वत्तोहं श्रोतुमिच्छामि तत्र मे संशयो महान् ॥ २२ ॥ ॥ नाडायन उवाच ॥ अदृष्ट्यमेतत्परमं पवित्रं पूर्वोक्तं कल्मषनाशनं च ॥ दुःखापहं ते कवचं ब्रवीमि रक्षा कृता येन महेश्वरेण ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे कालदरणो नाम षट्त्रिंशुदत्तराद्विशततमोऽध्यायः ॥ २३६ ॥ ॥ महेश्वर उवाच ॥ ॥ प्रणम्यामजरमीशानमजं नित्यमनामयम् ॥ देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ १ ॥ वक्ष्याम्यहं प्रतिसरं नमस्कृत्य जनार्द्दनम् ॥ अमोघमप्रतिहतं सर्वदुःख निवार णम् ॥ २ ॥ विष्णुमन्नामात्रः पातु कृष्णो रक्षतु पृष्ठतः ॥ हरिर्मे रक्षतु शिरो हृदयं च जनार्द्दनः ॥ ३ ॥ मनो मम हृषीकेशो जिह्वां रक्षतु केशवः॥ पातु नेत्रे वासुदेवः श्रोत्रे संकर्षणस्तथा ॥ ४ ॥ प्रद्युम्नः पातु मे घ्राणमनिरुद्धो मुखं मम ॥ वनमाली गलं पातु श्रीवत्सो रक्षतातुरः ॥ पात्वं उ पातु मे चक्रं वामं दैत्यविदारणम् ॥ ५ ॥ दक्षिणं तु गदादेवी सर्वासुरनिवारिणी ॥ उदरं मुसली पातु पृष्ठं पातु च लाङ्गली ॥ ६ ॥ ऊरू रक्षतु शार्ङ्गी मे जङ्घे रक्षतु चर्मकी ॥ पाणी रक्षतु शंखी च पादौ मे चरणावुभौ ॥ सर्वकार्यार्थसिद्धयर्थं पातु मां गरुडध्वजः ॥ ७॥ वाराहो रक्षतु जले विषमेषु च वामनः ॥ अटव्यां नरसिंहस्तु सर्वतः पातु केशवः ॥ ८ ॥ हिरण्यगर्भो भगवान्विन्हरण्यं मे प्रयच्छतु ॥ सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ ९ ॥ श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ॥ सर्वाञ्छत्रून्दहत्वद्य मधुकैटभसूदनः ॥ १० ॥ विकुर्वीत सदा विष्णुः किल्बिषं मम विग्रहात् ॥ हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥ ११ ॥ त्रिविक्रमस्तु मे देवः सर्वान्पाशान्निकृन्ततु ॥ नारायणो देवो बुद्धिं पालयतां मम ॥ १२ ॥ शेषो शेषामलज्ञानः करोत्वज्ञाननाशनम् ॥ वडवामुखो नाशयतु कल्मषं यन्मया कृतम् ॥ १३ ॥ विद्यां ददातु परमाम्भगवान्नरः पालयतु सपुत्रपशुबान्धवम् ॥ १४ ॥ सर्वान्रोगान्नाशयत रामः पशुना मम ॥ रक्षोभ्यो मे दाशरथिः पातु नित्यं महाभुजः ॥ १५ ॥ रिपूनूहलेन मे हन्याद्दामो यादवन्दनः ॥ प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ॥ १६ ॥ कृष्णो यो बालभावेन स मे कामान्प्रयच्छतु ॥ अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम् ॥ १७ ॥ पश्यामि भयतंसतः पाशहस्तमिवान्तकम्॥ ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ॥ १८ ॥ योगीशममितिरूपस्थं शुभांशीतांशुनिर्मलम् ॥ धन्योऽहं विजयी नित्यं यस्य मे भगवा
वि० ध० ॥१६०॥
प्र० खं० अ० २३८
॥१६०॥
न्दर्हैः ॥ १९ ॥ स्तुत्वा नारायणं देवं सर्वोपद्रवनाशनम् ॥ वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ २० ॥ अप्रधृष्योऽस्मि भूतानां सर्व- विष्णुमयोह्यहम् ॥ स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ २१ ॥ सिद्धिर्भवतु मे नित्यं तथा मंत्र उदाहृतः ॥ यो मां पश्यति चक्षुर्भ्यां यं च पश्यामि चक्षुषा ॥ २२ ॥ सर्वासां समदृष्टीनां विष्णुर्वक्षतु चक्षुषा ॥ वासुदेवस्य चक्रं तस्य चक्रस्य ये अराः ॥ २३ ॥ ते च छिन्दन्तु मे पापं मा मे हिंसन्तु हिंसकाः ॥ राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ॥ २४ ॥ विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ नदीसन्तरणे घोरे संग्रामे प्राणसंशये ॥ २५ ॥ अग्निरौत्पातिके च सर्वग्रहनिवारणे ॥ विद्युतसर्पविषोद्योगे वातोत्थे रिपुसङ्कटे ॥२६॥ तथ्यमेतज्जपेत्रित्यं शरीरे भय आगते ॥ अयं भगवतो मन्त्रो मंत्राणां परमो महान् ॥ २७॥ विख्यातं कवचं गुह्यं सर्वपापप्रणाशनम् ॥ स्वमायाकृतनिर्माणं कल्पांतगृहलोपकत् ॥ अनाथं तज्जगद्विजं पद्मनाभ नमोस्तु ते ॥ २८ ॥ ॐकालाय स्वाहा ॥ ॐकालपुरुषाय स्वाहा ॥ ॐप्रचण्डाय स्वाहा ॥ ॐ प्रचण्डपुरुषाय स्वाहा ॥ ॐसर्वाय स्वाहा ॥ ॐसर्वसर्वाय स्वाहा ॥ ॐनमो भुवनेशाय त्रिलोकेशाय इतितीपरिटि स्वाहा ॥ ॐउत्तेमनेनअधुनेमे वायुतुमं चे सत्त्वाः पापातुचारास्तेषां दैत्यदानवयक्षराक्षसभूतप्रेतपिशाचकूष्माण्डापस्मारोन्मादनज्वराणां एकाहिकद्वितीयाकतृतीयाकचातुर्थिकभौमाहिकादि नड्वरात्रि्जवरसततज्वरसन्ध्याज्वरसंर्वज्वरादीनामुत्सादनलूताकीटकंटककंटकपूतनासुजग्मस्थावरविषमविषवादीनामिदं शरीरं ममाप्रधृष्यं भवतु ॐ सुकारे प्रकोरटककटविकटद्रूंघूवेती रक्ष ॥ ॐ हूँ हूँ हूँ हूँ दिनकरसहस्रकान्तसमोमतेजः पश्चमतो रक्षक्ष ॥ ॐ निरिनिरिमृदीतज्वलन ज्वालाकालमहाकपिलजटिल उत्तरतो रक्ष ॥ ॐ चिलिचिलिमिलिमिलिकेडि गौरिगांधारि विषोदानि विषं मां मोहयुत स्वाहा ॥ दक्षिणतो रक्ष माममुकस्य सर्वभूतमयोपद्रवभ्यः स्वाहा ॥ जयति विजयदानं जायतां रिपुपुवदासतुनवध्यते भयदृढभयमद्योमयंभवं दिशतु ममामयसुदारमच्युतः॥ यदुदरमखिलं विशन्ति रश्मयः ॥ आबान्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ह्यशुशित्सितारः ॥ सर्वञ्चवन्वन्तु ममानिरुद्धप्रद्युम्नसंकर्षणवासु देवाः॥२९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शेलूपं प्रति नाडायनावक्ये विष्णुकवचं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः॥२३७॥ ॥ वज्र उवाच ॥ श्रुत्वा कालाङ्गदहनं ब्राह्मणेन समीरितम् ॥ किं पप्रच्छ तदा ब्रह्मन्शैलूपो मृत्युचोदितः॥१॥ मार्कण्डेय उवाच ॥ श्रुत्वा कालाङ्गद हनं ब्राह्मणेन समीरितम् ॥ रावणस्यैव चरितं भूयः पप्रच्छ तं तदा ॥ २ ॥ शैलूप उवाच ॥ चरितस्यावशेषं यद्दशग्रीवस्य रक्षसः ॥ तदहं श्रोतु मिच्छामि तत्र मे संशयो महान्॥३॥ नाडायत उवाच ॥ ततोऽस्य नगरं भूयः परिक्राम रावणः ॥ स ददर्श तदा तत्र प्रासादं सर्वकाञ्चनम्॥४॥
मुक्ताजालपरिक्षिप्तं तथा विद्रुमतोरणम् ॥ गारुडेन च रक्तेन समन्तात्कृतवेदिकम् ॥ ५ ॥ वैदूर्यरुचिरस्तम्भं पद्मरागप्रभोज्ज्वलम् ॥ इन्द्रनीलप्रभाच्छन्नं निर्यूहशतशोभितम् ॥ ६ ॥ महाभुवनसंबाधं महोद्यानविभूषितम् ॥ सुखारोहणसोपानं दीर्घिकाशतसंकुलम् ॥ ७ ॥ सर्वर्तु- कुसुमैर्वृक्षैः समन्तादुपशोभितम् ॥ सर्वासुनयुतं रम्यं महेन्द्रभवनाधिकम् ॥ ८॥ तन्तु दृष्ट्वा गृहं राजन्रहस्तं वाक्यमब्रवीत् ॥ प्रहस्त शीघ्रं जानी- हि कस्येदं भवनोत्तमम् ॥ ९ ॥ एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ संप्रतातायौं च कक्षायां भिन्नाञ्जनचयोपमम् ॥ १० ॥ सर्वाभरणसंवीतं सर्व- लक्षणलक्षितम् ॥ गृहीत्वा लोहमुसलं द्वारदेशे व्यवस्थितम् ॥ ११ ॥ ददर्श पुरुषं भीमं ज्वालामण्डलदुर्द्दशम् ॥ तं तु दृष्ट्वा तथा भूतं स विवेश दशाननः ॥ १२ ॥ समातायां¹ च कक्षायां स ददर्श तमेव हि ॥ तमुवाच महातेजा निशाचरगणेश्वरः ॥ १३ ॥ युद्धार्थमहमनुप्राप्तो युद्धातिथ्यं प्रयच्छ मे ॥ अथ वा तस्य शंस त्वं गृहे योस्मिन्वयवस्थितः ॥ १४ ॥ ततो राक्षसराजस्य पुरुषो वाक्यमब्रवीत् ॥ तिष्ठत्यस्मिन्गृहे राजा दान- वानां बलिर्बली ॥ १५ ॥ तेन चेद्योत्स्यसे वीर प्रविशेदं गृहोत्तमम् ॥ योद्धुं नार्हसि तेन त्वं स महात्मा महाबलः ॥ १६ ॥ ब्रह्मण्यश्च शरण्यश्च शूरः सत्यपराक्रमः ॥ वीरो बहुगुणोपेतो बलवान्दृढविक्रमः ॥ बालार्क इव तेजस्वी समरेष्वनिवर्त्तकः ॥ १७ ॥ प्रियंवदः संविभागी गूढ- साङ्ख्यीय तत्परः ॥ एवमुक्तो दशग्रीवः प्रविवेश गृहोत्तमम् ॥ १८ ॥ अथ संदर्शनादेव बलिना सुमहामना ॥ शीघ्रमुत्सङ्गमानीय पृष्टस्त्वगमनं ततः ॥ १९ ॥ तस्योवाच महातेजा रावणो राक्षसाधिपः ॥ श्रुतं मया महाभाग बद्धस्त्वं किल विष्णुना ॥ २० ॥ सोऽहं मोचयितुं शक्तो बन्धनात्त्वां न संशयः ॥ एवमुक्तस्ततो हासं बलिर्मुक्त्वेदमन्रवीत् ॥ २१ ॥ एते मे कुण्डले दिव्ये महारत्नोपशोभिते ॥ अनयोरेककम्मानी- य चात्रोपविश मा चिरम् ॥ २२ ॥ अत्रोपविष्टस्य च ते व्याख्यास्ये विष्णोर्विक्रमम् ॥ एवमुक्तो दशग्रीवः कुण्डलानयने ततः॥२३॥ चकार परमं यत्नं न शशाक च शङ्कहा ॥ यदा चालयितुं स्थानान्न शशाक स कुण्डलम् ॥ २४ ॥ प्रस्विन्नसर्व्वगात्रस्तु संदृष्टदशनच्छदः ॥ भ्रुकुटीसंकट मुखः परं विस्मयमागतः ॥ २५ ॥ उत्सङ्गे तदवस्थे तु बलिः कृत्वेदमब्रवीत् ॥ हिरण्यकशिपुर्नामनामवन्मे प्रपितामहः ॥ २६ ॥ यदा बभूव तस्येमे कुण्डले वै बभूवतुः ॥ एताभ्यां कुण्डलाभ्यां तु सोऽभूत्पूर्वं विभूषितः ॥ २७ ॥ उर्वारोरोप्य नखरैः करैस्तेन विदारितः ॥ २१॥ कथमन्य महाभागं तं त्वं जेतुं व्यवस्यसि ॥ २८ ॥ स एव पुरुषः श्यामो द्वारे तिष्ठति नित्यशः ॥ एतेन दानवेन्द्राश्च तथान्ये बलदर्पिताः ॥ २९॥
¹ 'सप्तमायाम्' इति ख० ।
२६
प्र० खं०
अ० २३१
वे० ध०
१५९॥
वशं नीता बलवता पूर्ववृत्तराश ये ॥ बद्ध्वाहंमनेनैव कालोऽयं दुरतिक्रमः ॥ ३० ॥ क एनं पुरुषं लोके वश्ययिष्यति राक्षस ॥ लोकत्रयस्य
सर्वस्य कर्त्ता हर्त्ता तथैव च ॥ ३१ ॥ संहरत्येष भूतानि स्थावराणि चराणि च ॥ पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ॥ ३२ ॥ इष्टं चैव हुतं चैव
तपस्तप्तं तथैव च ॥ सर्वस्यैव हि लोकेशो धाता गोप्ता न संशयः ॥ ३३ ॥ सर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥ सर्वलोकमयश्चैव सर्वज्ञानमय
स्तथा ॥ ३४ ॥ सर्वदर्शी महारूपी महाबलो महाभुजः ॥ स्तुत्वा स्तुत्वा तथैषा च सर्वमस्मादवाप्नुयात् ॥ ३५ ॥ एतच्छ्रुत्वा च वचनं रावणो
निर्ययौ तदा ॥ न च तं पुरुषं तत्र ददर्श रजनीचरः ॥ ३६ ॥ समेत्य रक्षोधिपतिः सहायश्चाभवद्भूयः पृथिवीं समग्रामथ। न चाप्यसौ कश्चिदपश्य
तान्यं लोकेषु धीरं त्रिदशारिसूदनः ॥ ३७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये बलिरावणसमा
गमो नामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २३८ ॥ नाडायन उवाच ॥ स कदाचिन्महीं सर्वां विचरंश्चन्दनोद्भवः ॥ पश्चिमे सागरद्वीपे
ददर्श पुरुषं शुभम् ॥ १ ॥ जांबूनदसमप्रख्यं ज्वलितानलसुप्रभम् ॥ विश्वरूपधरं देवं वरदं कामरूपिणम् ॥ २ ॥ धर्मस्तस्य तपश्चैव जगतः
सिद्धिहेतुके ॥ ऊरू चाश्रित्य तस्यास्तां मन्मथः शिश्नमाश्रितः ॥ ३ ॥ विश्वेदेवाः कटीभागे मरुतो वस्तिशीर्षके ॥ पादयोश्च
धरा देवी पिशाचाश्च नखाश्रिताः ॥ ४ ॥ मध्ये द्यौर्वसवस्तस्य कुक्षिमाश्रिताः ॥ पार्श्वेषु च दिशः सर्वाः सर्वस
न्धिषु मारुतः ॥ ५ ॥ पितरश्चाश्रिताः पृष्ठे हृदये च पितामहः ॥ गोदानानि पवित्राणि भूमिदानानि यानि च ॥ ६ ॥
सुवर्णस्य च दानानि यच्छ्रेष्ठामन्तराणि च ॥ अस्थिभागेषु शैलाश्च शिरासु सरितस्तथा ॥ ७ ॥ मणिबन्धोऽभवत्तस्य शरीरे घोरसं
स्थिताः ॥ कुक्षाटिकायां सन्ध्याश्च तलवाहाश्च ये घनाः ॥ ८ ॥ बाहू धाता विधाता च भगः पूषा तथा करौ ॥ नागा घोरविषाः सर्वे करजेषु
व्यवस्थिताः ॥ ९ ॥ अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रोऽधिष्ठितौ ॥ दन्ता मासांस्तथैवर्तू दंष्ट्रास्तस्य तु वत्सरः ॥ १० ॥ नासायां चाप्यमावस्या तच्छि
द्रेषु च वासराः ॥ ग्रीवा तस्याभवद्देवी वाणी चाथ सरस्वती ॥ ११ ॥ नासत्यौ श्रवणौ चोभौ नेत्रे शशिदिवाकरौ ॥ वेदाङ्गानि च यज्ञाश्च तारा
रूपाणि यानि च ॥ १२ ॥ एतानि नररूपस्य तस्य देहाश्रितानि वै ॥ तेनातिकांयेन तदा राक्षसः पाणिपीडितः ॥ १३॥ मुमूर्च्छ सचिवाश्चास्य
पलायन्त दिशो दश ॥ ऋग्वेदमंत्रैः श्रेष्ठः पद्ममालाविवर्धितः ॥ १४ ॥ क्रमेण च विवेशाथ पातालं गिरिसन्निभः ॥ उत्थाय च दशग्रीवश्चाहूय
सचिवत्रयम् ॥ १५॥ क्व गतः सहसा भूत प्रहस्तमुखसारणाः ॥ एवमुक्ते राक्षसेन्द्र राक्षसास्तमथाब्रुवन् ॥१६॥ प्रविष्टः स नरो दैवं देवदानवदर्पहा ॥
॥१५९॥
तलेन तैनैव ततः प्रविवेश निशाचरः ॥ १७ ॥ एक एव महातेजा वरदानात्सत्त्वपुंगवः ॥ प्रविश्य ददृशे तत्र सर्वाभरणभूषितान् ॥ १८ ॥ नित्यो त्सवाञ्छ्रोतिभयान्त्रिक्लानपावकप्रभान् ॥ चतुर्भुजान्महारूपाञ्छङ्खचक्रगदाधरान् ॥ १९ ॥ एकरूपधरान्सर्वांन्तरक्तमाल्यानुलेपनान् ॥ रागद्वेषविनिर्मुक्तान्सर्वसत्त्वाञ्जातप्रभून् ॥ २० ॥ नृत्येन गीतवाद्येन सेवमानाञ्जनार्दनम् ॥ मातृष्यं पूजनं कृत्वा देवदेवस्य चक्रिणः ॥ २१ ॥ समीपं समुपागतास्तस्यैव परमोष्ठिनः ॥ दृष्ट्वा कोटयः सहस्राणां दृष्ट्वा च रजनीचरः ॥ २२ ॥ ऊर्ध्वरोमास्ततस्तस्माद्देशाद्देशमपासतत् ॥ जगाम ददृशेऽप्यात्मन्योपम्यगुणं गृहम् ॥ २३ ॥ ददर्श च तदा तत्र पुरुषं शयने स्थितम् ॥ पाण्डुरेण महार्घेण शयनासनवाससा ॥ २४ ॥ शेते स पुरुषव्याघ्रः पावकेनावगुण्ठितः ॥ दिव्यान्धासुलितांगो दिव्याभरणभूषितः ॥ २५ ॥ दिव्याम्बरधरा साध्वी त्रैलोक्यैकस्वरूपिणम् ॥ बालव्यजन हस्ता वै रूपेणाप्रतिमा भुवि ॥ २६ ॥ पादावुत्संग आरोप्य तस्य देवस्य चक्रिणः ॥ जिघृक्षुः सहसा साध्वीं राक्षसेन्द्रोऽपतद्बलात् ॥ २७ ॥ अव गुण्ठनमात्रं वै दृष्टं तेन महात्मनः ॥ जहा सोच्चैस्तदा देवी दृष्ट्वा तं राक्षसेश्वरम् ॥ २८ ॥ तेजसा स तु देवस्य रावणो लोकरावणः ॥ कृन्तमूलो यथा शाखी निपपात महीतले ॥ २९ ॥ पतितं राक्षसेन्द्रं तं देवो वचनमब्रवीत् ॥ उत्तिष्ठ मरणं नास्ति साम्प्रतं ते निशाचर ॥ ३० ॥ प्रजा पतिवरो रक्षो येन जीवसि साम्प्रतम् ॥ तमब्रवीत्तदा राजा राक्षसानां तु विह्वलः ॥ ३१ ॥ को भवाञ्छयने शेते युगान्तानलसन्निभः ॥ एवमुक्तः स तेनाथ प्रत्युवाच निशाचरम् ॥ ३२ ॥ किं ते मया दशग्रीव वध्यसि न चिरान्मम ॥ एवमेव च मृत्युस्ते भविष्यति दशानन ॥ ३३ ॥ यां जिघृक्षसि मोहात्वं ध्रुवंश्शैनों हरिष्यसि ॥ मातृष्यमममासाद्य त्वां वधिष्यामि रावण ॥ ३४ ॥ अस्याः कृते विशालाक्ष्याः साम्प्रतं गच्छ राक्षस ॥ श्रुत्वैतद्वचनं देवाद्रावणो वाक्यमब्रवीत् ॥ ३५ ॥ नास्ति धन्यतरो लोके मया लोकत्रये विना ॥ त्वद्धस्तान्मरणं यस्य भविष्यति जगत्प्रभो ॥ ॥ ३६ ॥ यशस्यं श्लाघनीयं च त्वद्धस्तान्मरणं मम ॥ अथास्य गात्रे संपश्याद्रावणो भीमविक्रमः ॥ ३७ ॥ त्रैलोक्यं सकलं राजन्विश्वरूपधरस्य तु ॥ दृष्ट्वैतद्रावणो राजन्विस्मयोत्फुल्ललोचनः ॥ ३८ ॥ बहुमेने तथात्मानं निर्जगाम तथैव च ॥ देवदेवमभ्यनुज्ञातः स जगाम तदा गृहम् ॥ ३९ ॥ तस्य देवो वधार्थाय चतुर्मूर्त्तिर्जनार्दनः ॥ मातृव्यमागतं राजंस्तन मा विषहं कृथाः ॥ ४० ॥ रामो जनार्दनः साक्षात्सीता लक्ष्मीस्तथैव च ॥ तथा भरतशत्रुघ्नो लक्ष्मणोऽपि महायशाः ॥ ४१ ॥ विष्णोर्भागास्त्वया ज्ञेया विष्णुत्तुल्यपराक्रमाः ॥ शत्रुघ्नेन महत्कर्म लवणस्य वधे कृतम् ॥ तस्माद्ध्यधिकं मन्ये भरतं धर्मवत्सलम् ॥ ४२ ॥ न देवसङ्घैर्मनुजैर्न यक्षैर्न राक्षसैर्नागवरैर्न दैत्यैः ॥ रणे विजेतुं रघुवस्तु शक्या येषां स नाथो
वि० ध० प्र० खं०
॥१५२॥ अ० २४१
हरिप्रमेयः ॥ ४३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये रावणस्य महापुरुषदर्शनं नामै- कोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥ २३९ ॥ शैलूष उवाच ॥ लवणस्य वधं श्रोतुश्रोतुमिच्छामि तत्त्वतः ॥ शत्रुघ्नेन कथं युद्धे लवणो विनिपातितः ॥१॥ ॥ नाडायन उवाच ॥ ॥ अयोध्यामयामयोध्यायां राजन्दाशरथौ स्थिते ॥ अनतीते कदाचित्तु वसन्ते गतिवर्धने ॥२॥ नात्युष्णशीते सुसुखे सर्वप्राणिमनोहरे ॥ उत्फुल्लशालिसंलीनाचारुस्तनशिलिमुखे ॥ ३ ॥ कोकिलारावबहुले सप्रवालवनस्पतौ ॥ सुव्यर्के किरणे काले विपुष्पितधरातले ॥ ४ ॥ पत्रच्छत्रप्रशाखास्थपृथुनादिनिभेदिते ॥ गन्तुकामाः प्रवलिताः पन्था भूयो निवर्तिताः ॥ ५ ॥ मञ्जर्यः सहकाराणां यत्र लग्ना शिलीमुखाः ॥ कामनामाङ्किता बाणाः कामस्येव शरीरिणाम् ॥ ६ ॥ कामिन्यः कामिनां कामं यत्र त्यजन्तो दृढम् ॥ समीरणेन दाक्षिण्यं सर्वत्र प्रकटीकृतम् ॥ ७ ॥ मृदुप्रवातसंतप्तप्रसूननयनान्वितशालीनी ॥ दृष्ट्वाऽपङ्किः सुरूचे वहमानैव निम्बगा ॥ ८ ॥ आलिङ्गितास्तृ मधुना समन्तान्नगराजयः ॥ फुल्लैः पलाशैः प्रकटं रागं वधुरिव तदा स्वयम् ॥ ९ ॥ समीरणेन दूदूना पुष्पपर्यार्चिता मही ॥ रात्रौ व्यभ्रत्य नभसः श्रियमुद्हे सराद्बला ॥ १० ॥ वश्चितैर्नवजातानां वत्सानां मुग्धाणिपाम् ॥ गोष्ठेषु शोभा महती यस्मिन्नद्याधर्वसत्तम ॥ ११ ॥ हम्भारवविराविण्यः स्त्वस्रमाणपद्कमाः ॥ यस्मिन्वत्सोत्सुका गावः प्रविशन्ति दिनक्षये ॥१२॥ स्तनं पिबद्भिर्मातृणां वत्सैरुत्क्षिप्तपुच्छकैः ॥ मुहुर्मुहुं परां यत्र मातली दृष्टु गोपिनः ॥ १३॥ यत्र पुष्पोच्चयं चक्रुः कामिनीपानिपल्लवाः ॥ पल्लवानां तु साह्रश्याद्विज्ञाता नैव कामिभिः ॥१४॥ऋतुकोकिलसंगीतौ दिरे फक्विनिवृक्ष्मीम् ॥ नृत्यैव ननृतुर्यत्र मुदुवातहता लताः ॥ १५॥ तस्मिन्व्यतीते तु मयो नरेन्द्र संतापयामास जगत्समग्रम् ॥ निदाघकालो लव- णोपमस्तु संरुद्धमार्गोऽतितृषत्पलाशः ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येवधोऽध्यायवसन्तर- वर्णनं नाम चत्वारिंशदुत्तराद्वशततमोऽध्यायः ॥ २४०॥ ॥ नाडायन उवाच ॥ वर्तमाने तदा ग्रीष्मे विकसन्मल्लिकाकुले ॥ निवृत्तपान्थसंचारे संततसिकतोत्करौ ॥१॥प्रफुल्लद्रुमाक्रान्ते ज्वलिताभवनान्तरे॥ चारुचम्पकपुष्पाढ्यवनराजिविराजिते ॥२॥पाटलपुष्पसंलीनद्विरेफगणमण्डितौ॥ संततमहिप्रोक्रीडत्तुष्टपुञ्जयूषणे ॥ ३॥ पार्वतीचुम्बनामाङ्गक्रिडोलितजलशाय ॥ स्वादुश्रावचसलिले नीहारवृतपर्वते ॥ ४ ॥ कर्पूरचन्दनाङ्गांग्यो मृणालवलयाः प्रियाः ॥ रमयन्ति प्रियान्यत्र वनमालकृतसजः ॥५॥ सेव्याश्चन्द्रंशवो यत्र कामिनां कामवर्धनाः ॥ रमणीयप्रदोपाश्च सुतरां यत्र रात्रयः ॥ ६ ॥ रम्यन्ते शीतलान्वातान्कुसुमाश्रयान्विनः ॥ समाश्रायभिभजायन्ते कामिनस्तु रिरंसवः ॥ ७ ॥ रात्रयः शीघ्रगामिन्यो दिवसा
॥१५२॥
वि० ध० ॥१५३॥ , प्र० खं० अ० २४२ ॥१५३॥
अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ॥ आदाय गच्छ शत्रुघ्न पर्याप्तबलवाहनः ॥ २१ ॥ बलं च सुभृतं वीर तुष्टपुष्टमनुद्धतम् ॥ वशं च सान्त्वदानाभ्यां कुरुष्व रघुनन्दन ॥ २२ ॥ न ह्यर्थास्तत्र तिष्ठन्ति न मित्राणि न बान्धवाः ॥ सुभीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ॥ २३ ॥ स त्वं दुष्टजनाकीर्णां संस्थाप्य महतीं चमूम् ॥ एक एव धनुष्पाणियोंधयेथा मधोः सुतम् ॥ २४॥ यथा च त्वां न जानाति गच्छ तं युद्धकांक्षिणम् ॥ लवणः स मधोः पुत्रस्तथा निःशङ्किनो व्रज ॥ २५ ॥ आस्यातो न च तस्यास्ति कश्चिन्मृत्युर्भयान्वितः ॥ दर्शनं योऽभिगच्छेत हन्येत लवणेन सः ॥ २६ ॥ माहेश्वरेण शूलेन विद्युत्तं दुराधायगतम् ॥ द्वारमावृत्य लवणं युध्यस्व रघुनन्दन ॥ २७ ॥ माहेश्वरममोघं तु शूलं च परिवर्जितम् ॥ गृह्णाणं शरं वत्स सर्वायुधविनाशनम् ॥ २८ ॥ अनेन लवणं युद्धे घातयिष्यस्यसंशयम् ॥ गच्छ त्वं ग्रीष्मशेषेण लवणस्य जिघांसया ॥ २९ ॥ काले तथा प्रावृषि संप्रवृत्ते विवृद्धतोयासु सरिद्वरासु ॥ महत्तवाणेन निशाचरस्य व्यसुं क्षितौ पातय तस्य देहम् ॥ ३० ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति माडायानवाक्येषु लवणवधे शत्रुघ्नं प्रति रामाशासनं नाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४२ ॥
राम उवाच ॥
संप्राप्य प्रावृषं वत्स भीमतोयदनिनदाम् ॥ निषिद्धपान्थसंचारां विद्युत्क्षुभिततोयदाम् ॥ १ ॥ मेघैस्तोयभरानम्रैः स्थगितार्कनिशाकराम् ॥ प्रवर्षणजलौघाघातविकसितसिटोदग्रहाम् ॥ २ ॥ पश्यां घनवज्रासात्पीनोल्मपिथयोधराः ॥ कुर्वन्त्यलिङ्गनं कान्ताः कान्तानां मनसः प्रियम् ॥ ३ ॥ भूमिनिर्वततृणच्छन्ना शक्रगोपावभूषिता ॥ भीमोवनादविस्तीर्णा फेनवत्यश्च निम्नगाः ॥४॥ सतोयचवाणदाक्रान्तं स्निग्धनीलं नभस्तलम् ॥ वलाकाः शोभयन्ति स्म शारदं तारका इव ॥ ५ ॥ घना घनागमारूढा धृतवासवकर्मुंकाः ॥ तोयोद्यवाणधाराभिः प्रवर्षमुर्महीतलमू ॥ ६ ॥ धारकदम्बकुलकूटसर्जार्जुनशोभिताः ॥ पक्कजम्ब्वग्राशालिन्यो वनराज्यो मनोहराः ॥ ७ ॥ निदायतापतप्तस्तानवततोयप्लुताक्षिता ॥ मही विसृजते यस्यां गन्धमाल्यगुणं स्वकम् ॥ ८ ॥ गर्जमानेषु मेघेषु मुदङ्कध्वनिसन्निभम् ॥ अस्यां मयूरा नृत्यंति विकसत्सत्कलापिनः ॥ ९ ॥ समीरणेन मृदुना वृन्नाः खे च पयोधराः ॥ महिष्वञ्च विसर्पिन्त पयःपूर्णपयोधराः॥१०॥प्रत्यूपे संचरन्तीनां महिषीणां तदासमम् ॥ घण्टानिनादो मधुरः श्रूयते तृणगह्वरे॥११॥स्थल्यः कृष्णास्तसङ्गेननिमेषिरिव ॥ यस्यां पश्यन्ति शत्रुघ्न जलपूर्णमहीतलमू ॥ १२ ॥ मेघपातेन दृढेन पृषतोत्करशालिना ॥ कामिन्यः कामिनां सार्थं त्यजिता रघुनन्दन ॥ १३ ॥ अपागम्याः सरितो राजानो गतविग्रहाः ॥ बलाकहणमच्छन्ना द्यौस्तथैव सविग्रहा ॥ १४ ॥ न निर्वृत्तसुखोदाहहकाम्याकाम्यक्रिया मही ॥ प्रहृष्टपौराजतुगतैः संवत्सपुरोहितैः ॥ १५ ॥
व्यग्राः भवन्ति राजनः शक्राद्यधिप्रवेशने ॥ १५॥ शैलैर्नवतृणच्छन्नैस्तथा नीलाभ्रशेखरैः ॥ १६ ॥ कान्तिमद्भिर्विशेषेण विराजति वसुन्धरा ॥
तां प्राप्य प्राप्य नद्यप्योद्गमनर्तिताशिखण्डिवृन्दाम् ॥ द्वारं समाश्रित्य महोतस्त्वजं धनुर्धरस्त्वं जहि राजपुत्र ॥ १७॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्ये प्रावृड्वर्णनं नाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४३ ॥ राम उवाच ॥ हत्वा
प्रावृषि तं पापं यमुनातीरगोचरः ॥ नय त्वं शारदं कालं यावत्सुप्तो जनार्दनः ॥ १ ॥ रमणीयान्नरा यत्र नभः प्रकटसैकताः ॥ सुस्वादुशीतसलिला
स्सारसैरुपशोभिताः ॥ २ ॥ बालार्कसदृशः पद्मैः पद्मिन्यो यत्र भूषिताः ॥ सरसां विमलं यत्र तोयं मधुरशीतलम् ॥३॥ वरस्त्रीनयनाकारचारुपत्र
विभूषणैः ॥ पश्यतीवोत्पलैर्व्योम उत्पलिन्यः सुनिर्मलम् ॥ ४ ॥ नभःसरसि विस्तीर्णे ताराद्युगणचित्रिते ॥ शोभते च निशीथेषु हंसवद्विचर
ञ्शशी ॥ ५ ॥ आदधानो महच्चापं संधानश्च दृश्यते ॥ यावत्संपूर्व इत्येव बाणैर्भूमितलं शरत् ॥६॥ जातीकुसुमहृद्यासु बन्धुजीवोज्जवलासु च ॥
मनः प्रसादमायाति हृष्टासु वनराजिषु ॥ ७ ॥ पक्वसस्या वसुमती परां धारयति श्रियम् ॥ कलविङ्काः प्रहृष्टाश्च पक्वकेदारपङ्क्तिषु ॥ ८ ॥
निभृगाः काशवसनाश्चक्रवाकयुगस्तनाः ॥ सारसारावहामिन्यः सुतरां रतिवर्द्धनाः ॥ ९ ॥ हंसैः संछन्नतोयेषुकहाररजसोत्करैः ॥ सरांसि दुर्विभा
व्यानि कुशलैरपि मानवैः ॥ १० ॥ पाण्डुराम्रकृतन्यासाः सर्व एव शिलोच्चयाः ॥ श्रियं विडम्बयंतीव तुषारगंडैः समुज्ज्वलाम् ॥ ११ ॥ शर
त्भूतोत्पलाचारुपद्मां विपक्वकेदरिक्षुविशोभितोर्मीम्॥ नीत्वा ततः प्राप्य हिमस्य कालं कार्यस्त्वया पत्तनसन्निवेशः॥१२॥ इति श्रीविष्णुधर्मोत्तरे प्रथम
खण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामानुशासने शरद्वर्णनं नाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४४॥
॥ राम उवाच ॥ प्रबुद्धे पुण्डरीकाक्षे हेमन्ते वैष्णवे ऋतौ ॥ कार्यः पुरनिवेशस्ते तथा जनपदस्य वा ॥ १॥ पक्वनारङ्गसुभगे नीहारावृतदिङ्मुखे ॥
प्रलूनधान्यकेदारे गततुष्टशिलिमुखे ॥ २ ॥ कृतसंग्रहणे काले प्रवृत्ततृपविग्रहे ॥ विपङ्कवसुधे रम्ये स्वादुशीतजलाशये ॥ ३ ॥ विशाला यत्र
यामिन्यः सुतरां सुरतक्षमाः ॥ भृशं मनोहरा यूनां पीडितालिङ्गनक्षमाः ॥ ४ ॥ यत्र शीतापदेशेन मानिनीमपि स्वयम् ॥ क्रियते त्यक्तमा
नाभिः प्रियकण्ठग्रहोत्सवः ॥ ५ ॥ सुखोष्णोदकान्गन्धर्वप्रम्यप्रसवणोदकं ॥ प्ररूढपवनोद्भूते काले नीलधरातले ॥ ६ ॥ वासोद्मनसंरुरुद्धार्वामा
व्यनडीतटे ॥ सारसारावविज्ञेये काले कामिजनप्रिये ॥ ७ ॥ यत्रेषुपीडयन्त्राणां यष्टयः प्रुरुपचोदिताः ॥ भयानीव मनुष्याणामुपक्रर्मन्त नम
न्ति च ॥ ८ ॥ कृताग्रायणपूजाय्च हुतहव्या द्विजातयः ॥ यत्र प्रवेशहद्याश्च तथा यत्र च कर्षकाः ॥ ९ ॥ गृहेषु च सुखोष्णेषु गवां निःश्वास
मारुतः ॥ स्वाध्यायघोषो विप्राणां नृणां यत्र सुखावहः ॥ १० ॥ सिताभिः पच्यमानाभिः क्रियमाणास्तथा गुडैः ॥ रम्यः सुशीतलः कालः प्राणि- प्रियहुताशनः ॥ ११ ॥ विचरन्ति नरा यत्र गुरुप्रावरणाम्बराः ॥ कुंकुमेनाङ्गुलिप्ताङ्गा धनिनः प्रियदर्शिनः ॥ १२ ॥ अभ्यायाम- क्षमे काले यत्र यूनां विशेषतः ॥ मृगया दयिता वत्स मन्दरश्मौ दिवाकरे ॥ १३ ॥ रोहिताशनपृष्ठानां साधूनारञ्जवासितम् ॥ महिषीणां तु मथितं गन्धवर्णरसान्वितम् ॥ १४ ॥ इक्षवश्च विदार्यन्ते तथैव मूलकानि च ॥ रसवन्ति विशेषेण यत्र पिष्टकृतानि च ॥ १५ ॥ प्रवृत्तमेखलाबन्धविवाहादिक्रिये जने ॥ प्रबुद्धे पुण्डरीकाक्षे प्रवृत्ते यज्ञसन्तरे ॥ १६ ॥ काले प्रहृष्टाश्चेन्दूसूर्ये कार्या त्वया राघव वास्तुपूजा ॥ आरम्भणीयं नगरस्य कर्म शिवाय सर्वस्य जनस्य वत्स ॥ १७ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडा- यनवाक्येषु शत्रुघ्नं प्रति रामसमुपदेशे हेमन्तवर्णनं नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ राम उवाच ॥ ततस्तु शिशिरे प्राप्ते काले तपनवल्लभे ॥ हिर्माप्रपातप्रच्छन्नदुर्विभाव्यादिशामुखे ॥ १॥ सुपक्वमातुलुङ्गाढ्यवनराजिसुगन्धिनि ॥ प्रफुल्लकुंकुमचमत्कारोगोज्ज्वलत्विषि ॥ २ ॥ हिमप्रयातसञ्जातखर्वतॄणतणोल्बणे ॥ अत्यर्थशीतकुसुमे कुङ्कुमागुरुवल्लभे ॥ ३॥ कामिन्यः कुङ्कुमाङ्गाङ्ग्यः पीनोन्नतपयोधराः ॥ आलिङ्गनेन कान्तानां यत्र शीतभयापहाः ॥४॥ पुष्पितैरातसीवातैर्नीलनीरज निर्मलैः ॥ पूर्णतोयाशयाशाङ्का जायते सुधियामपि ॥५॥ मात्र्यूकन्दुकपुष्पाढ्या वनराज्यो मनोहराः ॥ सुशीर्णपर्णसरला नम्रेरुविविधद्रुमाः ॥६॥ संत्यक्ता दक्षिणामाशां व्रजमाने तथोत्तराम् ॥ सूर्ये सुमाच पवनं निःश्वासमिव दक्षिणा ॥७॥ रम्याश्च गंधमंजयैः शोभयन्ति वनस्थलीः ॥ मन्मथस्य शराः कांताः कामिमन्मथवर्धनाः ॥ ८ ॥ हयानां मधुरः शब्दः श्रूयते इशनोद्भवः ॥ शब्दो गवसृजां यत्र स्वामिनां रतिवर्धनः ॥ ९ ॥ निर्मलानां तु सरसां विनिविद्धा जलेचराः ॥ ब्रुवन्तो मधुरं पांथा जनयन्ति परां मुदम् ॥ १० ॥ जनयन्ति परां प्रीतिं कामिनीनां तु कामुकाः ॥ यत्र मध्वैनैर्वत्स मातुलुङ्गाधिवासितैः ॥ ११ ॥ वापीकूपतडागेषु हृदमन्त्रवनेषु च ॥ यत्र काले रन्त्यापः कम्पयन्त्यः पुरीं महत् ॥ १२ ॥ तस्मिंस्त्वं शिशिरे काले कृत्वा गृहवरे स्वके ॥ प्रवेशयतु विधिना शिल्पिमिश्रैर्निशानिशैः ॥ १३॥ धर्मेण पालयन्क्षोणीं वस राजविलोचन ॥ वृद्धिं कार्येस्त्वया धर्मो नित्यमेव नरोत्तम ॥ १४ ॥ उत्तिष्ठ शीघ्रं विजयाय गच्छ दीप्तां श्रियं प्राप्नुहि राजपुत्र ॥ रक्षन्तु देवास्तव सर्वकालं पदं विध्वस्तारिगणस्य मूर्ध्नि ॥ १५ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं
१ 'कथितम्' इति क० । २ 'ह्यानानामश्वरा राजन्' इति ख० ।
प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामातुशासने लवणं प्रति शत्रुघ्नप्रस्थानं नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ ॥ नाडायन उवाच ॥ ॥ इति रामवचः श्रुत्वा बाढमुक्तवा स सत्वरः ॥ अभिवाद्य वसिष्ठस्य पादौ रामस्य चाप्यथ ॥ १ ॥ पुरस्कृत्य महाभागन्भागव प्रमुखानृषीन् ॥ यथोक्तसैन्यानुगतः प्रययौ भीमविक्रमः ॥ २ ॥ वाल्मीकेराश्रमं प्राप्य तासुवास तदा निशाम् ॥ पूजयित्वा तु वाल्मीकिऋषिणा प्रतिपूजितः ॥ ३ ॥ यस्मिन्नहनि शत्रुघ्नो वाल्मीकेराश्रमं गतः ॥ उभौ प्रसूतौ तनयौ तस्मिन्नेवाह्नि जानकी ॥ ४ ॥ सीताप्रसवसंहष्टः क्रमेण रघुनन्दनः ॥ निदावशेषेण नदीमुत्ततार स सूर्यजाम् ॥ ५ ॥ शिबिरं समवस्थाप्य यथावयवसुनांतटे ॥ एक एव धनुष्पाणिः प्रविवेश मधोर्वनम् ॥ ॥ ६ ॥ प्रविश्य च युवा तत्र लवणस्य निवेशनम् ॥ तस्थौ द्वारमपाश्रित्य वीरो विततकार्मुकः ॥ ७ ॥ एतस्मिन्नेव काले तु मृगान्हत्वा सह स्रशः ॥ बहुना मृगभारेण स दर्श मधोः सुतम् ॥ ८ ॥ वृत्ताक्षमुरुक्टं भीमं दन्तोत्कृष्टोत्तरोष्ठकम् ॥ दृष्ट्वाकरालवदनं दृप्तवत्पुरुषच्छविम् ॥ ९ ॥ स तु दृष्ट्व शत्रुघ्नुवाच परुषं बहु ॥ विप्रधावत दुष्टात्मा शत्रुघ्नवधकाम्यया ॥ १० ॥ त्यक्त्वा मृगसहस्राणि द्रुमविक्षेपतत्परः ॥ द्रुमवृष्टिं सुघोरां तां लवणेन विसार्जिताम् ॥ ११ ॥ विच्छेद बाणैः सौमित्रिः शतशोऽथ सहस्रशः ॥ छिन्ने द्रुममहावर्षे लवणः शत्रुतापनः ॥ १२ ॥ जघान मुशराञ्च्छूनं शत्रुघ्नं मुष्टिना भृशम् ॥ मुष्टिप्रहारनिश्चेष्टं शत्रुघ्नं लवणस्तदा ॥ १३ ॥ न जगाह च तच्छूलं मृत्युपाशवशङ्गतः ॥ प्रवेशयामास गृहं मृगसंघाननेकशः ॥ १४ ॥ एतस्मिन्नेव काले तु लब्धसंज्ञः स राघवः ॥ वितत्य कार्मुकं तस्थौ द्वारमावृत्य वेश्मनः ॥ १५ ॥ ततः पादपवर्षेण च्छादयन्तं निशाचरम् ॥ चकार विमुखं बाणैश्छित्त्वा महीरुहान् ॥ १६ ॥ रामदूतं ततो वाणं सन्धाय वरकार्मुके ॥ निर्वि भेद महातेजा लवणं रघुनन्दनः ॥ १७॥, सन्धियमाने बाणे तु त्रस्तं त्रिभुवनं तदा ॥ आश्वासयामास विभुर्ब्रह्मा कमलसम्भवः ॥ १८॥ तेन बाणप्रहा रेण निर्भिन्नहृदयः क्षितौ ॥ व्यसुः पपात मेदिन्यां शैलो वज्राहतो यथा ॥ १९ ॥ तस्मिन्विपतिते भूमौ दैत्ये देवभयङ्करे ॥ त्रैलोक्यं विगतातङ्कं क्षणेन समपद्यत ॥ २० ॥ तं च देशमथाजग्मुः सुराः सब्रह्मकास्तदा ॥ पूजितास्तेन वीरेण शत्रुघ्नं वाक्यमब्रुवन् ॥ २१ ॥ ॥ देवा ऊचुः ॥ वरं वरय शत्रुघ्न यत्ते मनसि कांक्षितम् ॥ अपनीतं त्वयास्माकं भयं शूलवरायुधात ॥ २२ ॥ त्वया तु निहते तस्मिंल्छ्रवणे पापराक्षसे ॥ पश्य शूलवरं यांतमेनं शार्वं विहायसा ॥ २३ ॥ ॥ शत्रुघ्न उवाच ॥ ॥ अस्मिन्देशे करिष्यामि पुरीं रामाज्ञया त्वहम् ॥ मासे समाप्यतां शीघ्रां वरमेतत्प्रदीयताम् ॥ २४ ॥ ॥ देवा ऊचुः ॥ ॥ निष्पत्ति यास्यते धीर स्थिरा चैव भविष्यति ॥ पुण्या च रमणीया च मधुरा नामतः
वि० ध० ॥१८६॥
प्र० खं० अ० २४८
शुभा ॥ २६ ॥ ॥ नाडायन उवाच ॥ ॥ एवमुक्त्वा सुराः सर्वे जग्मुर्निकामतांद्रिताः ॥ आजगाम त तं देशं सैन्येन च्यवनः सह ॥ २६ ॥ संवर्धयित्वा शत्रुघ्नं जगामाश्रममञ्जसा ॥ सर्वं रामवचश्चक्रे शत्रुघ्नोऽपि महायशाः ॥ २७ ॥ कृत्वा पुरनिवेशनं च गृहप्रवेशनं तथा ॥ उषित्वा द्वादश समाः सम्प्राप्ते सुतर्कामणि ॥ २८ ॥ जगाम भ्रातरं द्रष्टुं वाल्मीकिराश्रमं पुनः ॥ तत्र शुश्राव धर्मात्मा शुभां रामकथां कृताम् ॥ २९ ॥ वाल्मीकिना प्रहृष्टेन गीयमानां कुशीलवैः ॥ तत्रोष्य रजनीमेकां रामं दृष्ट्वा तथैव च ॥ ३० ॥ तत्रोष्य पश्चात्तु नृपो रामविसर्जितः ॥ मधुरायां च वसुधां पालयामास धर्मवित् ॥ ३१ ॥ एवंविधः स शत्रुघ्नो भवेतोऽप्यधिकस्ततः ॥ मा तेन विग्रहं गच्छ भरतेन महात्मना ॥ अजेया रघवो येषां सहाया वानरोत्तमाः ॥३२॥ सुग्रीवोनीलङ्गदवायुपुत्रसुषेणमैन्दादिविविदमख्यानाः ॥ महाबलाः पर्वतमन्त्रिकायाः सुरैरपिर्युद्धगता अजेयाः ॥ ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवक्येषु लवणवधो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥
॥ शैलूष उवाच ॥ ॥ पुलहस्य प्रजासर्गं श्रोतुमिच्छामि तत्त्वतः ॥ यस्य वंशे समुत्पन्ना वानरा बलदर्पिताः ॥ १ ॥
नाडायन उवाच ॥ ॥ दुगा च मृगमंदा च हरिस्तथा तथा इरा ॥ भूता च कपिशा दंष्ट्री सुरसा सरमा तथा॥२॥ कश्यपो जनयामास क्रोधासु दश कन्यकाः ॥ कश्यपेन च ता दत्ताः पुलहाय महात्मने ॥ ३ ॥ प्रजास्तासां प्रवक्ष्यामि सर्वासां त्वं निबोध मे ॥ सुगायास्तु शुभा जाता हरणौणाः शशास्तथा ॥ ४ ॥ रुरवः पृषतश्चैव न्यङ्कवः शशकास्तथा ॥ सुमरा मृगमंदाया गवया महिषास्तथा ॥५॥ चमरोदूवराहाश्च खङ्गा पौरुषास्तथा ॥ हर्याश्च वानरा जाता गोलाङ्गूलाः सकिन्नराः ॥ ६ ॥ मण्डूका नकुलाश्चैव ये चाप्यन्ये विलेशयाः ॥ पञ्च कन्याश्च ताश्रायाः १ प्रत्यस्ता वरुणस्य च ॥ ७ ॥ प्राङ्गेधर्मभृतां श्रेष्ठः पुलहस्तपसां निधिः ॥ श्येनी भासी तथा क्रौंची धृतराष्ट्री शुकी तथा ॥ ८ ॥ श्येनी तु जनयामास पुत्रं संपातिनं तथा ॥ जटायुषं च राजानं गृध्राणां बलदर्पितम् ॥ ९ ॥ संपाती जनयामास श्येनग्रध्रवटांस्तथा ॥ भासीपुत्राः स्मृता भासाः क्रौञ्चाः क्रौञ्चीसुताः स्मृताः ॥ १० ॥ धृतराष्ट्रीसुता हंसा धात्तराष्ट्रास्तथैव च ॥ चक्रवाकमुखाश्चान्ये तथा ये जलचारिणः ॥ ११ ॥ शुकात्पुत्राः शुका ज्ञेयाः पक्षिणश्चापि कीर्तिताः ॥ कश्यपस्य तु या पत्नी इरा नाम प्रकीर्तिता ॥ १२ ॥ कुञ्जरं जनयामास सुरकार्योद्यतं सदा ॥ भूतापुत्रास्तथा भूता महादेवानुबन्ताः ॥ १३ ॥ उपरीरोलूलूलिका २ आस्थकर्णा कृपण्डिका ॥ पांसवः पाणिपात्राश्च चैतन्यानि पुनस्तया ॥ १४ ॥
१ 'शाश्रास्तथा' इति ख० । २ 'तपनीवोदूखलिका आस्थ्यकर्णा' इति ख० ।
॥१९५॥
सूचीमुखाः शोषिणकाः कुलान्येतानि षोडश ॥ कुलेष्वेतेषु जायन्ते नानारूपारविप्रिताः ॥ १६ ॥ निष्कुटेषु प्रतोलीषु चत्वरेषु गृहेषु च ॥
तेषां प्रदात्तदा स्थानमन्तर्द्धानं प्रतापिताः ॥ १६ ॥ अणिमा लघिमा प्राप्तियंच कामावसायिता ॥ दंष्ट्रीपुत्रास्तथा लोके दंष्ट्रिणो ये
प्रकीर्तिताः ॥ १७ ॥ समायास्तथा सर्पाः कीटजात्यश्च सर्वशः ॥ श्यामश्च धवलश्चैव सारमेयौ तथा शुनौ ॥ १८ ॥ यमस्यानुचरौ तौ च
महाबलपराक्रमौ ॥ इति क्रोधादुहिॄणां प्रजातिः कीर्तिता मया ॥ १९ ॥ कश्यपस्य तु या पत्नी सुरभिर्नाम विश्रुता ॥ कनीयसं तु शूद्राणां
तस्यासीद्गाहितेष्टयम् ॥ २० ॥ रोहिणी चैव भद्रे ते गन्धर्वी च महीपते ॥ पुल्लहेयेव ते दत्ते कश्यपेन महात्मना ॥ २१ ॥ सुरूपा हेमरूपा च
सर्वकामदुघा तथा ॥ रोहिण्यां जनयामास पुलहः स महातपाः ॥ २२ ॥ ब्रह्मचर्य्यव्रतास्तास्तु धेनवो दश कीर्तिताः ॥ मानसी तु प्रजा तासां
यथासंख्येन मे शृणु ॥ २३ ॥ गावश्चैव महिष्यश्च अजाश्चैवावयस्तथा ॥ गन्धर्वी जनयामास तुरगान्वान्तरंहसः ॥ २४ ॥ गरुडी च मयूरी च द्वे
तु कन्ये मनोरमे ॥ पुलहेन तु ते दत्ते गरुडाय महात्मने ॥ २५ ॥ गरुडी जनयामास सुपर्णान्भीमविक्रमान् ॥ मयूरी जनयामास मयूराद्यान्वि
हङ्गमान् ॥ २६ ॥ गरुडान्वयसम्भूताः सर्वे पन्नगभोजिनः ॥ पक्षिणस्तु त्वया ज्ञेयाः सुपर्णान्न गरुडाञ्छृणु ॥ २७ ॥ सुवर्णचूडो नागश्च
दारुणश्चूचुटुण्डकः ॥ अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥ २८ ॥ कर्करो ध्वजविष्कम्भी विनतो वामनस्तथा ॥ वातवेगो दिशाचक्षु
र्निमिषोऽनिमिषस्तथा ॥ २९ ॥ त्रिवारः सप्तवारश्च वाल्मीकिर्विप्रुलिक्स्तथा ॥ इत्येतेऽग्रिः सर्पद्वीपः सारसः पद्मकेतनः ॥ ३० ॥ सुमुखोऽथैकदंष्ट्रश्च
चित्रबर्हस्तथानघ ॥ मेघः सत्कुमुदो दक्षः सर्वसुक्तस्तथाभोजनः ॥ ३१ ॥ गुरुभारः कपोतश्च पूर्वेनेत्रश्चिरांतकः ॥ विष्णुरन्त्याः कुमारश्च परिवर्हो
हरस्तथा ॥ ३२ ॥ अश्वाम्बरो मधुपर्कश्च हेमवर्णस्तथैव च ॥ मलयो मातरीश्वा च निशाकरदिवाकरौ ॥ ३३ ॥ एते प्रदेशमात्रेण मयोक्ता
गरुडात्मजाः ॥ कुलमेतत्सुपर्णानां धन्यानां नृपसत्तम ॥ ३४ ॥ सर्वे एते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ॥ कुलमेतद्धि शैलूष
श्लाघ्यं विष्णुपरिग्रहम् ॥ ३५ ॥ दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ॥ हृदि येषां सदा विष्णुर्विष्णुपां परा गतिः ॥
॥ ३६ ॥ एतत्तेवां पुलहस्य वंशं पुत्रैः सुताभिश्च समन्वितं यत ॥ वंशे तु सर्वोत्तमवीर्य्युक्ता जाता खगेन्द्रा हरयश्च
वीराः ॥ ३७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु पुलहवंशाशुकरीर्तनं नामाष्टचत्वारिंशदु
त्तरद्विशततमोऽध्यायः ॥ २४८ ॥ ॥ वज्र उवाच ॥ कथ्यप्रसङ्गेंद्वह्निमेभवता मम कीर्तितम् ॥ सम्भवं सर्वभूतानां सर्वकल्मषनाशनम् ॥ १॥
तेषां विस्तरमाचक्ष्व राजानो मम भार्गव ॥ पालयन्ति द्विजश्रेष्ठ सकलं ये जगत्त्रयम् ॥ २ ॥ मार्कण्डेय उवाच ॥ एवं प्रजासु सृष्टासु सृष्ट्वा सस्रजेऽथ पितामहः ॥ निकायेषु निकायेषु सोऽभ्यषिंचत पार्थिवान् ॥ ३ ॥ ओषधीनां द्विजातीनां नक्षत्राणां तथैव च ॥ यज्ञानां तपसां चैव सोमे राज्यं ऽभ्यषेचयत्॥४॥ प्रजापतीनां सर्वेषां दक्षं प्राचेतसं यथा ॥ बलीमुखानां श्वेतानामृक्षाणां वृष एव च॥ शाम्यतः संन्दिग्धानां च पुरुषाणां च सन्नय म् ॥ प्रह्लादं सर्वदैत्यानां पितॄणां च तथा यमम्॥६॥ अपां तु वरुणं राज्ये तथैव जलवासिनाम् ॥ यक्षाणां राक्षसानां च पार्थिवानां धनस्य चा॥७॥ पुत्रं विश्ववसो ज्येष्ठं कुबेरं नरवाहनम्॥ विप्रचित्तिं च रक्षानां दानवानां महाबलम्॥८॥ सर्वभूताधिराजानां गिरिशं शूलपाणिनम्॥ शैलानां हिमवन्तं च निम्नगानां च लावणम् ॥९॥ भारतं सर्ववर्षाणां द्वीपानामथ मध्यमम् ॥ स्वादूदकं समुद्राणामश्वत्थं सर्वशाखिनाम् ॥ १० ॥ कर्मणां व्यवसायं च मेरुं सर्वशिलाहृताम् ॥ गन्धर्वाणां चित्ररथं गरुडं च पतत्रिणाम् ॥ ११ ॥ उच्चैःश्रवसमश्वानां गोवृषं च तथा गवाम् ॥ सुवर्णं सर्वरत्नाना मौषधीनां तथा यवम् ॥ १२ ॥ सत्यलोकं च लोकानां पातालानां रसातलम् ॥ शास्त्राणां च यजुर्वेदं सर्वधर्मविशेषतः ॥ १३ ॥ गायत्रीं सर्वमन्त्राणां छन्दसां च यदुत्तमम् ॥ मृगाणामथ शार्दूलं पन्नगानाञ्च तक्षकम् ॥ १४ ॥ ऐरावतं गजेन्द्राणां धर्मं सर्वसुखस्य च ॥ वासुकिं सर्वनागानाममूर्षीणां च तथा भृगुम् ॥ १५ ॥ विद्याधराणां सर्वेषां तथा देवीं सरस्वतीम् ॥ उत्पातानां तथा राहुं ग्रहाणां च दिवाकरम् ॥ १६ ॥ कालस्यावयवाश्चैव कालं संवत्सरं तथा ॥ व्याधीनां च ज्वरं राज्ये तृणामर्किनिशाकरौ ॥ १७ ॥ अभिषिक्तो नरेन्द्रेन्द्र ब्रह्मण स्वयमव हि ॥ भारतेऽस्मिन्पुरा वर्षे प्राप्ते वैवस्वतेन्तरे ॥ १८ ॥ तस्मादद्यापि च तयोरंशजाताश्च पार्थिवाः ॥ ततोऽभिषिक्तो देवानां राज्ये देवः शतक्रतुः ॥ संशय राजभिः सर्वैस्त्रैलोक्यपतिभिर्जितः ॥ १९॥ वज्र उवाच ॥ गजेन्द्रोभिषिक्तः स कथं महात्म्या सम्भूय सर्वैद्विरदप्रदिष्टैस्तौ ॥ एतन्ममाचक्ष्व भृगु प्रधान भक्तिममयं त्रिदशेन्द्रशत्रोः॥२०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शैलूषं प्रति नाडायनवाक्ये प्रतिसृष्टौ गजकीर्त्तनं नामैकान्न पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥ ॥ मार्कण्डेय उवाच ॥ सुमेरौ पर्वते श्रेष्ठे नानात्नोच्चलित्विषि ॥ प्रजापतिस्तथादाय राजानंवान्थ कीर्त्तितान् ॥ १ ॥ अभ्यषिञ्चत देवानां राज्ये कश्यपनन्दनम् ॥ तेजस्विनांमथादित्यं जह्वं निर्वृत्कमल्पम् ॥ २ ॥ तस्याभिषेके प्रददौ विश्वकर्मा मनोहरम् ॥ रत्नोत्ज्वलं भद्रपीठं कामरूपधरं शुभम्॥३॥ अत्रैवमुपदिध्याय स्वयं ब्रह्मा जगद्गुरुः ॥ अभ्यषिञ्चत देवानामाधिपत्ये शतक्रतुम् ॥४॥ ब्रह्मा विष्णुश्च शम्भुश्च साध्याश्च समरुद्गणाः ॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥ ५ ॥ भुगोराङ्गिरसः साध्या अश्विनौ च भिषग्वरौ ॥
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ ६॥ यानि तोयान्युपादाय समुद्रः सरितस्तथा ॥ सरांसि च सतीर्थानि गन्धर्वाप्सरसस्तथा ॥ ७॥ तस्यै न्दुमण्डलाकारं छत्रं जग्राह केशवः ॥ श्वेतौ च बालव्यजनौ तथा चन्द्रदिवाकरौ ॥ ८ ॥ भृङ्गारं यादसां भर्ता दण्डं दण्डधरः प्रभुः ॥ मेनका चैव रंभा च तालवृन्तौ मनोहरौ ॥ ९ ॥ विविधञ्च जुहावाग्निं दैवाचार्यो बृहस्पतिः ॥ ततस्तस्य ददौ प्रीत्या वाहनाथै महोक्षम् ॥ १० ॥ ऐरावणं चतुर्दन्तं नागं च पुलहः स्वयम् ॥ पुलस्त्यः स्वसुतं प्रादाच्छ्रेतं तुरगमेव च ॥ ११ ॥ तुरगाणां सहस्रं च हरीणां वातंहासाम् ॥ श्रिया दत्तं ततः प्रीत्या रथवाहनमुत्तमम् ॥ १२ ॥ तमाप्रियोर्जयामास काञ्चनेन रथेन च ॥ इन्द्रद्युम्नसवर्णाभिः पताकाभिरनन्तरम् ॥ १३ ॥ वायुस्ते योजयामास ध्वजं नागेन शङ्करः ॥ बबन्ध मुकुटं तस्य स्वयं ब्रह्मा जगद्गुरुः ॥ १४ ॥ उपानहौ ददौ तस्य विरूपाक्षस्तथानघ ॥ खड्गञ्च विमलोदंस्तत्तस्य शुक्रेण यादव ॥ १५ ॥ चन्दनानि च मुख्यानि गन्धानि विविधानि च ॥ हिमालयः स्वयं तस्य प्रादाद्धाकुकुरु गुरुः ॥ १६ ॥ रत्नानि सुविचित्राणि समुद्रः स्वयमेव हि ॥ दुदुश्च ऋतवस्तस्य पुष्पाणि च फलानि च ॥ १७ ॥ ननृतुर्देवगन्धर्वा जगुश्चाप्स रसां गणाः ॥ हृष्टं प्रमुदितं चासीत्त्रैलोक्यं सचराचरम् ॥ १८ ॥ सर्वगन्धानुपादाय सुरभिर्मारुतो ववौ ॥ महता स वरोचेन तर्पयित्वा बृहस्पतिम् ॥ १९॥ सर्वैश्चेस्तर्पयामास सर्वानैव द्विजोत्तमान् ॥ सप्ताहे मानसीं सिद्धिं प्रादात्सर्वेषु जन्तुषु ॥ २० ॥ व्याधिमृत्युजराशोकाविनि वृत्ता जगत्रयी ॥ सप्ताहं नरकस्थानां नैव सर्वाश्च यातनाः ॥ २१ ॥ सर्वं मुदितमेवासीत्त्रैलोक्यं सचराचरम् ॥ किरीटी स्ववलात्सर्वाङ्गैः कुण्डलोत्तमाभूषितः ॥ २२ ॥ कौशेयवसनस्तत्र श्वेतमाल्याविभूषणः ॥ श्रियं दधार सोमस्य श्वेतमभ्रस्य शतक्रतुः ॥ २३ ॥ भद्रासनगतं शक्रं प्रणेमुः सर्वदेवताः ॥ स्तूयमानो महाराज तदा देवेन दण्डिना ॥ २४ ॥ ऋषभर्तुयुतस्तुष्टस्तं च गन्धर्वाप्सरसस्तथा ॥ मङ्गलालम्भनं चक्रे ततः शक्रः सुरारिहा ॥ २५ ॥ पूर्णकुम्भं सुमनसो रत्नान्याज्यं तथा दधि ॥ फलानि श्रीफलं चैव उद्भूतानि वसुंधरा ॥ २६ ॥ स्वस्तिकाङ्कुशांश्चैव नन्द्यावर्ताश्च काञ्चनस ॥ कांचनोल्लिखिताश्चैव गाश्च मुख्याः सरिद्वराः ॥ २७ ॥ उद्गदानं तथा दूर्वा दर्पणं चाज्यमेव च ॥ धर्मः सत्यं च शूलं च बलं च यदुनन्दन ॥ २८ ॥ उपासन्त महाभागं सशरीराः शतक्रतुम् ॥ कांतिर्लक्ष्मीर्धृतिः श्रद्धा पुष्टिर्मेधा क्रिया मतिः ॥ २९ ॥ बुद्धिर्लज्जा वपुः शान्तिस्तनूसूया तथैव च ॥ उपासन्त तदा देवं सर्वराजेस्वरं विभुम् ॥ ३० ॥ ततो ववन्दे पितरं मातरं शङ्करं हरिम् ॥ ब्रह्माणं वरदं सौम्यमृषींश्च यदुनन्दन ॥ ३१ ॥ ततो रथेन शुक्रेण स तु मातलिर्यन्त्रिणा ॥ विनाशयामास रणे देवतानामरातयः ॥ ३२ ॥ २७
पालयामास सकलं तथैव च जगत्त्रयम् ॥ शक्राभिषेकमेतत्त्वे कथितं यदुनन्दन ॥ ३३ ॥ श्रोतव्यमभिषेकं तु यात्राकालेषु चाप्यथ ॥ गृहप्रवेशे वैवाहे पुण्याहेषु परेषु च ॥ ३४ ॥ एतत्पवित्रं मङ्गल्यं धन्यं श्रुतिसुखावहम् ॥ पाप्मालक्ष्मीशमनं दुःस्वप्नकिल्बिषापहम् ॥ ३५ ॥ पुण्याहकालेषु नरेन्द्रचन्द्र श्रुत्वाभिषेकं बलसूदनस्य ॥ धर्मार्थकामान्पुरुषा लभन्ते व्याधिप्रणाशं च यशस्तथायुम् ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राभिषेको नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥ ॥ छ ॥ वज्र उवाच ॥ पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वराट् तदा ॥ पप्रच्छ किं तदा भूयस्तन्न नाडायनं द्विजम् ॥ १ ॥ श्रोतुममृतं कथयतो न तृप्यामि तवानघ ॥ त्वं हि ज्ञाननिधिर्विप्रैः प्रोच्यसे वेदपारगैः ॥२॥ मार्कण्डेय उवाच ॥ पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वसत्तमः ॥ भूयः पप्रच्छ तं विप्रं गजोत्पत्तिं सविस्त- राम् ॥३॥ शैलूष उवाच ॥ कुञ्जराणां समुत्पत्तिं श्रोतुमिच्छामि विस्तरात् ॥ कुञ्जरा हि महाभाग भृशं च दयिता मम ॥४॥ नाडायन उवाच ॥ यदा प्रसूता मार्त्तण्डमदितिर्भर्त्सत्कारणैः ॥ ५ ॥ तदा तदण्डमुत्सृज्य दृष्ट्वान्वक्स्पः स्वयम् ॥ तेजोऽधिकत्वाद् द्रष्टुं नापश्यत यदा शिशुम् ॥ ॥ ६॥ उवाच देव्या अण्डेऽस्मिन्कोऽसौ बालको मृतः ॥ ततः स भासः सकलं तेजसाभासयञ्जगत् ॥७॥ तेन मार्त्तण्डता ह्यस्य कथिता द्विज- सत्तमैः ॥ ततस्त्वण्डकपाले द्वे गृहीत्वा तु प्रजापतिः॥८॥पृथक्पृथगवस्थाय रथन्तरमसागायत् ॥ मन्त्रैः प्रवेशयामास इरायास्तौ प्रजेप्सया ॥ ९ ॥ उदरे पुलहस्तेन जनयामास सा गजान् ॥ अष्टौ महाबलान्नागांस्तेषां नामानि मे शृणु ॥ १० ॥ ऐरावणस्तथा पद्मः पुष्पदन्तश्च वामनः ॥ सुप्रतीकोऽथ नीलः कुमुदश्च मतङ्गजः ॥ ११ ॥ शक्राद्यानां दिशांशानां यथासंख्येन वाहनाः ॥ चत्वारो जातयस्तेषामेकैकस्यान्यवे- स्मृताः ॥ १२ ॥ भद्रा मन्दा मृगा चैव संकीर्णा च जनाधिप ॥ भद्रा श्रेष्ठा भवेत्तासां मन्दा मध्या कनीयसी ॥ १३ ॥ मृगा ज्ञेया च बाहुल्यात्सं- कीर्णा पार्थिवोत्तम ॥ भद्रमन्दमृगाणां च तथा वक्ष्यामि लक्षणम् ॥ १४ ॥ संकीर्णानां च संकीर्णं लक्षणं भविता तथा ॥ १गूढोष्ठमस्तकः स्वक्षः पृथ्वायतसुवाङ्गुलिः ॥ १५॥उन्नतोऽग्रसत्त्वश्च समगात्र्यो महाकरो ॥ ताम्रतालुर्वीक्षणः स्निग्धः सहिष्णुः स्वासनस्तथा ॥ १६॥ अन्वर्थवेदी बलवा- न्भद्रो ज्ञेयो मतङ्गजः ॥ गम्भीरवेदी निःशङ्कस्तीक्ष्णास्यो महोदरः ॥ १७॥ दीर्घमन्द्राङ्गुलिर्ह्रस्व सुविभक्तशिरोधरः ॥ स्थिरः कक्षवलस्थूलो दीर्घबालधिपुष्करः ॥ १८॥ हर्यक्षः सूक्ष्मनासिञ्च मन्दो ज्ञेयो मतङ्गजः ॥ ह्रस्वः शुष्कादङ्गुलीर्दुर्बलो ह्यनासनस्तथा ॥ १९ ॥ ह्रस्वोतनस्तवी दुर्गन्धा
१ 'गूढोष्ठमस्तकः' इति ख०।
यूथस्यानुचरस्तथा ॥ दीर्घजिह्वविषाणश्च दीर्घक्षासनस्तथा ॥ २० ॥ कृशाक्षमश्च दीर्घशी मृगो ज्ञेयो मतङ्गजः ॥ संकीर्णलक्षणो
नागः संकीर्णश्च निगद्यते ॥ २१ ॥ अतः परं प्रवक्ष्यामि गजानां ते व्राष्टकम् ॥ हिमवन्मलयञ्चैलगृह्यङ्गमध्ये महद्वनम् ॥ २२ ॥ प्राच्याम
रावणस्योक्तं वनं यत्र मतङ्कजाः ॥ किञ्चित्कमलवर्णाभाश्चपलाः पृथुमस्तकाः ॥ २३ ॥ कुनखा रूपवन्तश्च तथा मन्दमदा गजाः ॥ उन्मत्तगङ्गा
त्रिपुरी दशार्णं मेकलास्तथा ॥२४॥ तेषां मध्ये कुरुपाण्ड्यं वनं पद्मस्य कीर्तितम् ॥ ह्रस्वाश्वाण्डास्तथा श्यामाः शीघ्रोद्गममहास्वनाः॥२५॥ सूक्ष्म
बिन्दुचितस्तत्र भवन्त्यत्यर्थवेदिनः॥बिल्वैरैलै वेत्रवती दशार्णं च महागिरिम्॥२६॥तेषां दशार्णकं मध्ये पुष्पवन्तस्य काननम् ॥ सुवृत्तजघनश्चास्या
माः सूक्ष्मविन्दुविचित्रिताः॥२७॥स्थूलहस्तशिरोग्रीवास्तत्र जाता मतङ्गजाः॥ पारियात्रकवेदर्श्वनर्मदाब्रह्मवर्धनम् ॥२८॥ वामनस्य वनं मध्ये तेषां
वै मार्गरेयकम्॥सुप्रमाणाश्च मञ्जाक्षाः शीघ्रगाश्च सुविग्रहाः॥२९॥करेणुनामधेयाश्च तत्रोक्ताश्च सुगन्धिनः॥विन्ध्यसह्योत्कलानां च दक्षिणस्यार्णवस्य
चा॥३०॥वनं च मध्ये कालेशं सुप्रतीकस्य कीर्तितम् ॥ चापवंशावृहत्तन्वाः पीनहस्वशिरोधराः ॥ ३१ ॥ तनुत्वगुत्तरा दीर्घाः पद्माभास्तत्र दन्ति
नः॥ सेवाद्देशः समुद्रश्च प्रमहारं च नर्भदा ॥३२॥ तेषां मध्येऽञ्जनाख्यस्य वनं खल्वपरान्तकम् ॥ पीनायतविषाणास्या महाकाया बलाधिकाः ॥
॥३३॥रक्तताल्त्वोष्ठजिह्वाश्च जायन्ते तत्र दन्तिनः ॥ कुरास्थली महीपाल अवन्त्यर्बुदनर्मदाः॥३४॥तेषां मध्ये तु सौराष्ट्रं वनं नीलस्य कीर्तितम्॥
तस्य वंशे तु जायन्ते चण्डाश्चैवाल्पदंष्ट्रकाः ॥ ३५ ॥ सूक्ष्मह्रस्वत्वचो व्यालास्तथा शिक्षात्यजा गजाः ॥ हिमवत्कालिकासिन्धुकुरुजाङ्गलमेव चा
॥ ३६ ॥ तेषां पञ्चनदं मध्ये कुमुदस्य महद्वनम् ॥ स्फुटिताग्रद्विजास्तत्र जायन्ते मलविक्षिपः ॥ ३७ ॥ दानशीलाश्च भूताश्च दुर्विवेयाश्च
वारणाः ॥३८॥ एतत्तेवोक्तं तु मतङ्कजानां कुलाष्टकं चैव व्राष्टकं च ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥ ३९ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु गजोत्पत्तिर्नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः॥ २५१ ॥
शैलूष उवाच ॥ विस्तरेण समाचक्ष्व वानराणां तु संभवम् ॥ अलंकृत इवाभाति यैर्वंशः पुलहस्य च ॥ १ ॥ नाडायन उवाच ॥ कश्य
पेयी हरिनांम या भार्या पुलहस्य च ॥ पुलहाज्जनयामास श्वेते नाम बलीमुखम् ॥ २ ॥ श्वेतस्तदूर्ध्वदृष्टिं च जनयामास वानरम् ॥ ऊर्ध्वदृष्टि
स्तथा व्याघ्रं व्याघ्रश्च शरभं तथा॥३॥ शरभश्च तथांचं च सिंहमृक्षं वानरम् ॥ ऋक्षी च जनयामास ऋक्षांश्चैव जनाधिपा॥४॥ वानरांश्च महाका
याञ्शतशोऽथ सहस्रशः ॥ येषामन्वयसम्भूता देवपुत्रा महाबलाः ॥५॥ उत्पन्ना रामसाहाय्ये रावणस्य वधैषिणः ॥ ऋक्षस्य भगिनी ऋक्षी प्रजा
वि० ध० ॥ १५८ ॥
प्र० खं० अ० २५२
पतिसुतावुभौ ॥ ६ ॥ धूम्रं च जाम्बवन्तं च जनयामास ऋक्षजौ ॥ जाम्बवाञ्जनयामास मार्जारं भीमविक्रमम् ॥ ७ ॥ मार्जारस्य च मार्जार्याः कुले जाता महाबलाः ॥ ऋक्षस्य वानरेन्द्रस्य दुहितां मानसीं स्वयम् ॥ ८ ॥ ददौ प्रजापतिः श्रीमान्रूपयौवनसंयुताम् ॥ कामयामास तां शक्रस्ततो वालिर्जायत ॥ ९ ॥ तामेव कामयामास भास्करः स्वयमेव तु ॥ सुग्रीवं जनयामास भास्करात्सा सुमध्यमा ॥ १० ॥ तत्र वानरराजेऽभूद्वालिर्विक्रान्तपौरुषः ॥ यस्तु रामेण निहतः सुग्रीवस्त्वभिषेचितः ॥ ११ ॥ तस्यासन्वशगाः सर्वे वानरा देवयोनयः ॥ वालिपुत्रोऽङ्गदो नाम हनुमान्वायुनन्दनः ॥ १२ ॥ नीलो वह्निसुतः श्रीमान्विश्वकर्मसुतो नलः ॥ धर्मपुत्रः सुषेणश्च ऋषभो गरुडात्मजः ॥ १३ ॥ द्वावश्विनसुतौ वीरौ मैन्दो द्विविद एव च ॥ धूम्रश्च जाम्बवांश्चैव वेगदर्शी च वानरः ॥ १४ ॥ मृत्योः पुत्रा महावीर्या मृत्युतुल्यपराक्रमाः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ १५ ॥ यमस्य तनयाः पञ्च गोलांगूला महाबलाः ॥ श्वेतो ज्योतिर्मुखश्चान्यो भास्करस्यात्मजावुभौ ॥ १६ ॥ वरुणस्यावरः पुत्रो हेमकूटः प्रतापवान् ॥ देवपुत्रास्तथैवान्ये ऋक्षगोपुच्छवानराः ॥ १७ ॥ शतसाहस्रयूथानां राजानो भीमविक्रमाः ॥ हिमवन्महिषनिलयाः श्वेतनीलनिलयास्तथा द्वीपेषु च ॥ १८ ॥ शृङ्गवन्माल्यवद्विन्ध्यऋक्षवन्तनिवासिनः ॥ ये वसन्ति सदा सह्ये ऋष्यमे गन्धमादने ॥ १९ ॥ सागरान्तपपर्यन्ते तथा द्वीपेषु सप्तसु ॥ ब्रह्मण्या बलवन्त शूरा धर्मपरायणाः ॥ २० ॥ नीतिशास्त्रेषु कुशलाः सर्वशास्त्रविशारदाः ॥ सुनीताः सत्त्ववन्तश्च दृता नीतिगृहे रताः ॥ २१ ॥ सहाया रामभद्रस्य रावणस्य वधैषिणः ॥ हस्तिवानरसंखामे पुरा रुधिरकर्दमे ॥ २२ ॥ गिरिकूटनिभा नागा विजिता यैः सहस्रशः ॥ सहाया रामभद्रस्य ते वीरा भरतस्य च ॥ मा गच्छ संयुगं तस्माद्भरतेन महात्मना ॥ २३ ॥ सर्वास्त्रविज्ञानविशारदेन संग्रामशौण्डेन जितेन्द्रियेण ॥ धर्माच्च रामस्य परायणेन शक्राधिकेन त्वरितोपरोषेण ॥ २४ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्येषु वानरोत्पत्तिर्नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥
शैलूप उवाच ॥ किनिमित्तमभूद्युद्धं वानराणां तु कुञ्जरैः ॥ कीदृशं चाभवद्युद्धं तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
नाडायन उवाच ॥ वनाट्यं करीन्द्राणां यन्मयोक्तं पुरा तव ॥ तद्भूतं भारताद्वाह्यमंगस्य नवमस्य च ॥ २ ॥ द्वीपेषु राजन्सर्वेषु वर्षेषु च पृथक्पृथक् ॥ वनेषु निवसन्त्येते करीन्द्रा वानरास्तथा ॥ ३ ॥ रक्षन्ति वानरास्तत्र काननेषु च शालिनः ॥ पातयन्ति द्रुमाभागा लीलयैव जनाधिप ॥ ४ ॥ द्रुमेषु पात्यमानेषु कुञ्जराणां तरस्विनाम् ॥ वानराः कदनं चक्रुः क्रोधाविधाः पुनः ॥
॥ १५८ ॥
पुनः ॥ ६ ॥ हन्यमानेषु नागेषु करीन्द्रांश्च वलीमुखान् ॥ पातयन्ति महाराज शतशोऽथ सहस्रशः ॥ ६ ॥ एवं प्रवृद्धे वैरे तु वानरैः कुञ्जरै स्तथा ॥ राज्ञे निवेदितं गत्वा ऋक्षैरावणयातस्तदा ॥७॥ ततस्तौ पार्थिवौ क्रुद्धौ चक्रतुर्बलमुत्तमम् ॥ वानरास्तु महाकाया वीराः परमदंष्ट्रसः ॥८॥ ऋक्षाश्च सगोगपुच्छाः किष्किन्ध्यां पुनरागताः ॥ ऐरावणाज्ञां ये नागाः सपक्षाः पर्वतोत्तमाः ॥ ९ ॥ प्राच्यां वनमथाजग्मुः सर्वतः पृथिवीपते ॥ बलाणांवावृभौ क्षुब्धौ क्रोधाद्दिष्टौ परस्परम् ॥ १० ॥ अन्तर्वेदीं तदा तौ तु जग्मतुर्बलदर्पितौ ॥ ततः प्रावर्तत रणं घोररूपं भयानकम् ॥ ११ ॥ भूमौ चैवान्तरिक्षे च नागानां सह वानरैः ॥ द्रुमप्रहारानिहताः कुञ्जरा वानरोत्तमैः ॥ १२ ॥ पतन्तो गगनाद्भूमीं चालयन्ति मुहुर्मुहुः ॥ खुरेषु वानरं गृह्य द्वौ नागौ गगने तथा ॥ १३ ॥ पातयन्ति महाराज भिन्दन्ति दशनैस्तथा ॥ ममन्थुरपरे पादैर्दहनाताडयँस्तथा ॥ १४ ॥ वृक्षान्करेण्योत्पाट्य चिक्षुपुर्येन वानराः ॥ ऐरावणेन निहताः कोटिशस्तत्र वानराः ॥ १५ ॥ पदेन सुप्रतीकेन वामनेनाञ्जनेन च ॥ कुमुदेन च नीलेन पुष्पदन्तेन चाप्यथ ॥ १६ ॥ तेषामन्वयसम्भूतैस्तथैवान्यैश्च कुञ्जरैः ॥ भद्रेण चाथ मन्देन मृगेण च महीपते ॥ १७ ॥ भद्रमन्देन मिश्रेण सार्वभौमेन वेधसा ॥ राज्ञा सुमनसा राजँस्तथैव च सुवर्चसा ॥ १८ ॥ वलाहकेन मत्तेन भीमेनेन्दीवरेण च ॥ हेमकूटेन कूटेन शंखेन निषेधेन च ॥ १९ ॥ श्वेतेन राजनक्तेन काञ्चनेनाङ्ग सुप्रभ ॥ विरूपाक्षेण चोग्रेण षड्दन्तेनासितेन च ॥ २० ॥ चतुर्दन्तेन यक्षण रक्षसा भीममा लिना ॥ ऋक्षण वानरेन्द्रेण कोटिशः कुञ्जरा हताः ॥ २१ ॥ शरभेण गवाक्षेण तथा कनकविन्दुना॥ऋक्षराजेन धूम्रेण तथा जाम्बवता नृप ॥२२ ॥ सुषेणदधिवक्त्राभ्यां तथा केसरिणा रणे ॥ रणचण्डेन वीरेण वानरेन्द्रेण जाम्बुना ॥ २३ ॥ तथा शतबलिर्येश्च तेनापि कदनं कृतम् ॥ पनसेन विशालेन गजेन गवयेन च ॥२४॥ हेमकूटेन विपुला भातुरोगेणा निशामृता ॥ गन्धमादनेनाम्ना च विजयेन जयेन च ॥२५॥ कुमुदेनाथ पद्मेन कनकाक्षेण शम्भुना ॥ इत्येवं दृश्यमानेषु वानरेषु गजेषु च ॥२६॥ चचाल मोदिनी राजंस्तस्मिन्काले मुहुर्मुहुः ॥ स्वयूथ्यैश्च निघातैर्वानरैः कुञ्जरैस्तथा ॥ २७ ॥ हतैश्च हन्यमानैश्च घोरमायोधनं बभौ ॥ शरीरैर्यत्र संरुद्धाः स्रवन्तो रुधिरापगाः ॥ २८ ॥ वानराणां गजानां च महा शैलोपमैर्नृप ॥ तस्मिंस्तथाविधे युद्धे गजवानरसंक्षये ॥ २९ ॥ आजगामाथ तं देशं स्वयं देवः शतक्रतुः ॥ अभ्येत्य वारयामास वानराँश्चैव कुञ्जरान् ॥ ३० ॥ ततश्च वानराः सर्वे शक्रगौरवयन्त्रिताः ॥ संन्यवर्तन्त संग्रामान्माहाः प्राञ्जलयः स्थिताः ॥ ३१ ॥ त्यक्तयुद्धानरणे जक्षु र्बानरान्कुञ्जरास्तथा ॥ क्रुद्धस्तेषां महेन्द्रस्तु वज्रेण शतपर्वणा ॥ ३२ ॥ पक्षाँश्छिच्छेद नागानां निहता यैर्वलीमुखाः ॥ छिन्नपक्षांस्तदा नागा