भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 351, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 351

तलेन तैनैव ततः प्रविवेश निशाचरः ॥ १७ ॥ एक एव महातेजा वरदानात्सत्त्वपुंगवः ॥ प्रविश्य ददृशे तत्र सर्वाभरणभूषितान् ॥ १८ ॥ नित्यो त्सवाञ्छ्रोतिभयान्त्रिक्लानपावकप्रभान् ॥ चतुर्भुजान्महारूपाञ्छङ्खचक्रगदाधरान् ॥ १९ ॥ एकरूपधरान्सर्वांन्तरक्तमाल्यानुलेपनान् ॥ रागद्वेषविनिर्मुक्तान्सर्वसत्त्वाञ्जातप्रभून् ॥ २० ॥ नृत्येन गीतवाद्येन सेवमानाञ्जनार्दनम् ॥ मातृष्यं पूजनं कृत्वा देवदेवस्य चक्रिणः ॥ २१ ॥ समीपं समुपागतास्तस्यैव परमोष्ठिनः ॥ दृष्ट्वा कोटयः सहस्राणां दृष्ट्वा च रजनीचरः ॥ २२ ॥ ऊर्ध्वरोमास्ततस्तस्माद्देशाद्देशमपासतत् ॥ जगाम ददृशेऽप्यात्मन्योपम्यगुणं गृहम् ॥ २३ ॥ ददर्श च तदा तत्र पुरुषं शयने स्थितम् ॥ पाण्डुरेण महार्घेण शयनासनवाससा ॥ २४ ॥ शेते स पुरुषव्याघ्रः पावकेनावगुण्ठितः ॥ दिव्यान्धासुलितांगो दिव्याभरणभूषितः ॥ २५ ॥ दिव्याम्बरधरा साध्वी त्रैलोक्यैकस्वरूपिणम् ॥ बालव्यजन हस्ता वै रूपेणाप्रतिमा भुवि ॥ २६ ॥ पादावुत्संग आरोप्य तस्य देवस्य चक्रिणः ॥ जिघृक्षुः सहसा साध्वीं राक्षसेन्द्रोऽपतद्बलात् ॥ २७ ॥ अव गुण्ठनमात्रं वै दृष्टं तेन महात्मनः ॥ जहा सोच्चैस्तदा देवी दृष्ट्वा तं राक्षसेश्वरम् ॥ २८ ॥ तेजसा स तु देवस्य रावणो लोकरावणः ॥ कृन्तमूलो यथा शाखी निपपात महीतले ॥ २९ ॥ पतितं राक्षसेन्द्रं तं देवो वचनमब्रवीत् ॥ उत्तिष्ठ मरणं नास्ति साम्प्रतं ते निशाचर ॥ ३० ॥ प्रजा पतिवरो रक्षो येन जीवसि साम्प्रतम् ॥ तमब्रवीत्तदा राजा राक्षसानां तु विह्वलः ॥ ३१ ॥ को भवाञ्छयने शेते युगान्तानलसन्निभः ॥ एवमुक्तः स तेनाथ प्रत्युवाच निशाचरम् ॥ ३२ ॥ किं ते मया दशग्रीव वध्यसि न चिरान्मम ॥ एवमेव च मृत्युस्ते भविष्यति दशानन ॥ ३३ ॥ यां जिघृक्षसि मोहात्वं ध्रुवंश्शैनों हरिष्यसि ॥ मातृष्यमममासाद्य त्वां वधिष्यामि रावण ॥ ३४ ॥ अस्याः कृते विशालाक्ष्याः साम्प्रतं गच्छ राक्षस ॥ श्रुत्वैतद्वचनं देवाद्रावणो वाक्यमब्रवीत् ॥ ३५ ॥ नास्ति धन्यतरो लोके मया लोकत्रये विना ॥ त्वद्धस्तान्मरणं यस्य भविष्यति जगत्प्रभो ॥ ॥ ३६ ॥ यशस्यं श्लाघनीयं च त्वद्धस्तान्मरणं मम ॥ अथास्य गात्रे संपश्याद्रावणो भीमविक्रमः ॥ ३७ ॥ त्रैलोक्यं सकलं राजन्विश्वरूपधरस्य तु ॥ दृष्ट्वैतद्रावणो राजन्विस्मयोत्फुल्ललोचनः ॥ ३८ ॥ बहुमेने तथात्मानं निर्जगाम तथैव च ॥ देवदेवमभ्यनुज्ञातः स जगाम तदा गृहम् ॥ ३९ ॥ तस्य देवो वधार्थाय चतुर्मूर्त्तिर्जनार्दनः ॥ मातृव्यमागतं राजंस्तन मा विषहं कृथाः ॥ ४० ॥ रामो जनार्दनः साक्षात्सीता लक्ष्मीस्तथैव च ॥ तथा भरतशत्रुघ्नो लक्ष्मणोऽपि महायशाः ॥ ४१ ॥ विष्णोर्भागास्त्वया ज्ञेया विष्णुत्तुल्यपराक्रमाः ॥ शत्रुघ्नेन महत्कर्म लवणस्य वधे कृतम् ॥ तस्माद्ध्यधिकं मन्ये भरतं धर्मवत्सलम् ॥ ४२ ॥ न देवसङ्घैर्मनुजैर्न यक्षैर्न राक्षसैर्नागवरैर्न दैत्यैः ॥ रणे विजेतुं रघुवस्तु शक्या येषां स नाथो