भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 361, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 361

ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ ६॥ यानि तोयान्युपादाय समुद्रः सरितस्तथा ॥ सरांसि च सतीर्थानि गन्धर्वाप्सरसस्तथा ॥ ७॥ तस्यै न्दुमण्डलाकारं छत्रं जग्राह केशवः ॥ श्वेतौ च बालव्यजनौ तथा चन्द्रदिवाकरौ ॥ ८ ॥ भृङ्गारं यादसां भर्ता दण्डं दण्डधरः प्रभुः ॥ मेनका चैव रंभा च तालवृन्तौ मनोहरौ ॥ ९ ॥ विविधञ्च जुहावाग्निं दैवाचार्यो बृहस्पतिः ॥ ततस्तस्य ददौ प्रीत्या वाहनाथै महोक्षम् ॥ १० ॥ ऐरावणं चतुर्दन्तं नागं च पुलहः स्वयम् ॥ पुलस्त्यः स्वसुतं प्रादाच्छ्रेतं तुरगमेव च ॥ ११ ॥ तुरगाणां सहस्रं च हरीणां वातंहासाम् ॥ श्रिया दत्तं ततः प्रीत्या रथवाहनमुत्तमम् ॥ १२ ॥ तमाप्रियोर्जयामास काञ्चनेन रथेन च ॥ इन्द्रद्युम्नसवर्णाभिः पताकाभिरनन्तरम् ॥ १३ ॥ वायुस्ते योजयामास ध्वजं नागेन शङ्करः ॥ बबन्ध मुकुटं तस्य स्वयं ब्रह्मा जगद्गुरुः ॥ १४ ॥ उपानहौ ददौ तस्य विरूपाक्षस्तथानघ ॥ खड्गञ्च विमलोदंस्तत्तस्य शुक्रेण यादव ॥ १५ ॥ चन्दनानि च मुख्यानि गन्धानि विविधानि च ॥ हिमालयः स्वयं तस्य प्रादाद्धाकुकुरु गुरुः ॥ १६ ॥ रत्नानि सुविचित्राणि समुद्रः स्वयमेव हि ॥ दुदुश्च ऋतवस्तस्य पुष्पाणि च फलानि च ॥ १७ ॥ ननृतुर्देवगन्धर्वा जगुश्चाप्स रसां गणाः ॥ हृष्टं प्रमुदितं चासीत्त्रैलोक्यं सचराचरम् ॥ १८ ॥ सर्वगन्धानुपादाय सुरभिर्मारुतो ववौ ॥ महता स वरोचेन तर्पयित्वा बृहस्पतिम् ॥ १९॥ सर्वैश्चेस्तर्पयामास सर्वानैव द्विजोत्तमान् ॥ सप्ताहे मानसीं सिद्धिं प्रादात्सर्वेषु जन्तुषु ॥ २० ॥ व्याधिमृत्युजराशोकाविनि वृत्ता जगत्रयी ॥ सप्ताहं नरकस्थानां नैव सर्वाश्च यातनाः ॥ २१ ॥ सर्वं मुदितमेवासीत्त्रैलोक्यं सचराचरम् ॥ किरीटी स्ववलात्सर्वाङ्गैः कुण्डलोत्तमाभूषितः ॥ २२ ॥ कौशेयवसनस्तत्र श्वेतमाल्याविभूषणः ॥ श्रियं दधार सोमस्य श्वेतमभ्रस्य शतक्रतुः ॥ २३ ॥ भद्रासनगतं शक्रं प्रणेमुः सर्वदेवताः ॥ स्तूयमानो महाराज तदा देवेन दण्डिना ॥ २४ ॥ ऋषभर्तुयुतस्तुष्टस्तं च गन्धर्वाप्सरसस्तथा ॥ मङ्गलालम्भनं चक्रे ततः शक्रः सुरारिहा ॥ २५ ॥ पूर्णकुम्भं सुमनसो रत्नान्याज्यं तथा दधि ॥ फलानि श्रीफलं चैव उद्भूतानि वसुंधरा ॥ २६ ॥ स्वस्तिकाङ्कुशांश्चैव नन्द्यावर्ताश्च काञ्चनस ॥ कांचनोल्लिखिताश्चैव गाश्च मुख्याः सरिद्वराः ॥ २७ ॥ उद्गदानं तथा दूर्वा दर्पणं चाज्यमेव च ॥ धर्मः सत्यं च शूलं च बलं च यदुनन्दन ॥ २८ ॥ उपासन्त महाभागं सशरीराः शतक्रतुम् ॥ कांतिर्लक्ष्मीर्धृतिः श्रद्धा पुष्टिर्मेधा क्रिया मतिः ॥ २९ ॥ बुद्धिर्लज्जा वपुः शान्तिस्तनूसूया तथैव च ॥ उपासन्त तदा देवं सर्वराजेस्वरं विभुम् ॥ ३० ॥ ततो ववन्दे पितरं मातरं शङ्करं हरिम् ॥ ब्रह्माणं वरदं सौम्यमृषींश्च यदुनन्दन ॥ ३१ ॥ ततो रथेन शुक्रेण स तु मातलिर्यन्त्रिणा ॥ विनाशयामास रणे देवतानामरातयः ॥ ३२ ॥ २७