भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 362, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 362

पालयामास सकलं तथैव च जगत्त्रयम् ॥ शक्राभिषेकमेतत्त्वे कथितं यदुनन्दन ॥ ३३ ॥ श्रोतव्यमभिषेकं तु यात्राकालेषु चाप्यथ ॥ गृहप्रवेशे वैवाहे पुण्याहेषु परेषु च ॥ ३४ ॥ एतत्पवित्रं मङ्गल्यं धन्यं श्रुतिसुखावहम् ॥ पाप्मालक्ष्मीशमनं दुःस्वप्नकिल्बिषापहम् ॥ ३५ ॥ पुण्याहकालेषु नरेन्द्रचन्द्र श्रुत्वाभिषेकं बलसूदनस्य ॥ धर्मार्थकामान्पुरुषा लभन्ते व्याधिप्रणाशं च यशस्तथायुम् ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राभिषेको नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥ ॥ छ ॥ वज्र उवाच ॥ पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वराट् तदा ॥ पप्रच्छ किं तदा भूयस्तन्न नाडायनं द्विजम् ॥ १ ॥ श्रोतुममृतं कथयतो न तृप्यामि तवानघ ॥ त्वं हि ज्ञाननिधिर्विप्रैः प्रोच्यसे वेदपारगैः ॥२॥ मार्कण्डेय उवाच ॥ पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वसत्तमः ॥ भूयः पप्रच्छ तं विप्रं गजोत्पत्तिं सविस्त- राम् ॥३॥ शैलूष उवाच ॥ कुञ्जराणां समुत्पत्तिं श्रोतुमिच्छामि विस्तरात् ॥ कुञ्जरा हि महाभाग भृशं च दयिता मम ॥४॥ नाडायन उवाच ॥ यदा प्रसूता मार्त्तण्डमदितिर्भर्त्सत्कारणैः ॥ ५ ॥ तदा तदण्डमुत्सृज्य दृष्ट्वान्वक्स्पः स्वयम् ॥ तेजोऽधिकत्वाद् द्रष्टुं नापश्यत यदा शिशुम् ॥ ॥ ६॥ उवाच देव्या अण्डेऽस्मिन्कोऽसौ बालको मृतः ॥ ततः स भासः सकलं तेजसाभासयञ्जगत् ॥७॥ तेन मार्त्तण्डता ह्यस्य कथिता द्विज- सत्तमैः ॥ ततस्त्वण्डकपाले द्वे गृहीत्वा तु प्रजापतिः॥८॥पृथक्पृथगवस्थाय रथन्तरमसागायत् ॥ मन्त्रैः प्रवेशयामास इरायास्तौ प्रजेप्सया ॥ ९ ॥ उदरे पुलहस्तेन जनयामास सा गजान् ॥ अष्टौ महाबलान्नागांस्तेषां नामानि मे शृणु ॥ १० ॥ ऐरावणस्तथा पद्मः पुष्पदन्तश्च वामनः ॥ सुप्रतीकोऽथ नीलः कुमुदश्च मतङ्गजः ॥ ११ ॥ शक्राद्यानां दिशांशानां यथासंख्येन वाहनाः ॥ चत्वारो जातयस्तेषामेकैकस्यान्यवे- स्मृताः ॥ १२ ॥ भद्रा मन्दा मृगा चैव संकीर्णा च जनाधिप ॥ भद्रा श्रेष्ठा भवेत्तासां मन्दा मध्या कनीयसी ॥ १३ ॥ मृगा ज्ञेया च बाहुल्यात्सं- कीर्णा पार्थिवोत्तम ॥ भद्रमन्दमृगाणां च तथा वक्ष्यामि लक्षणम् ॥ १४ ॥ संकीर्णानां च संकीर्णं लक्षणं भविता तथा ॥ १गूढोष्ठमस्तकः स्वक्षः पृथ्वायतसुवाङ्गुलिः ॥ १५॥उन्नतोऽग्रसत्त्वश्च समगात्र्यो महाकरो ॥ ताम्रतालुर्वीक्षणः स्निग्धः सहिष्णुः स्वासनस्तथा ॥ १६॥ अन्वर्थवेदी बलवा- न्भद्रो ज्ञेयो मतङ्गजः ॥ गम्भीरवेदी निःशङ्कस्तीक्ष्णास्यो महोदरः ॥ १७॥ दीर्घमन्द्राङ्गुलिर्ह्रस्व सुविभक्तशिरोधरः ॥ स्थिरः कक्षवलस्थूलो दीर्घबालधिपुष्करः ॥ १८॥ हर्यक्षः सूक्ष्मनासिञ्च मन्दो ज्ञेयो मतङ्गजः ॥ ह्रस्वः शुष्कादङ्गुलीर्दुर्बलो ह्यनासनस्तथा ॥ १९ ॥ ह्रस्वोतनस्तवी दुर्गन्धा


१ 'गूढोष्ठमस्तकः' इति ख०।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 362, कुल 1001 में से · BharatKosha