विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 360, कुल 1001 में से
संदर्भ में पढ़ेंतेषां विस्तरमाचक्ष्व राजानो मम भार्गव ॥ पालयन्ति द्विजश्रेष्ठ सकलं ये जगत्त्रयम् ॥ २ ॥ मार्कण्डेय उवाच ॥ एवं प्रजासु सृष्टासु सृष्ट्वा सस्रजेऽथ पितामहः ॥ निकायेषु निकायेषु सोऽभ्यषिंचत पार्थिवान् ॥ ३ ॥ ओषधीनां द्विजातीनां नक्षत्राणां तथैव च ॥ यज्ञानां तपसां चैव सोमे राज्यं ऽभ्यषेचयत्॥४॥ प्रजापतीनां सर्वेषां दक्षं प्राचेतसं यथा ॥ बलीमुखानां श्वेतानामृक्षाणां वृष एव च॥ शाम्यतः संन्दिग्धानां च पुरुषाणां च सन्नय म् ॥ प्रह्लादं सर्वदैत्यानां पितॄणां च तथा यमम्॥६॥ अपां तु वरुणं राज्ये तथैव जलवासिनाम् ॥ यक्षाणां राक्षसानां च पार्थिवानां धनस्य चा॥७॥ पुत्रं विश्ववसो ज्येष्ठं कुबेरं नरवाहनम्॥ विप्रचित्तिं च रक्षानां दानवानां महाबलम्॥८॥ सर्वभूताधिराजानां गिरिशं शूलपाणिनम्॥ शैलानां हिमवन्तं च निम्नगानां च लावणम् ॥९॥ भारतं सर्ववर्षाणां द्वीपानामथ मध्यमम् ॥ स्वादूदकं समुद्राणामश्वत्थं सर्वशाखिनाम् ॥ १० ॥ कर्मणां व्यवसायं च मेरुं सर्वशिलाहृताम् ॥ गन्धर्वाणां चित्ररथं गरुडं च पतत्रिणाम् ॥ ११ ॥ उच्चैःश्रवसमश्वानां गोवृषं च तथा गवाम् ॥ सुवर्णं सर्वरत्नाना मौषधीनां तथा यवम् ॥ १२ ॥ सत्यलोकं च लोकानां पातालानां रसातलम् ॥ शास्त्राणां च यजुर्वेदं सर्वधर्मविशेषतः ॥ १३ ॥ गायत्रीं सर्वमन्त्राणां छन्दसां च यदुत्तमम् ॥ मृगाणामथ शार्दूलं पन्नगानाञ्च तक्षकम् ॥ १४ ॥ ऐरावतं गजेन्द्राणां धर्मं सर्वसुखस्य च ॥ वासुकिं सर्वनागानाममूर्षीणां च तथा भृगुम् ॥ १५ ॥ विद्याधराणां सर्वेषां तथा देवीं सरस्वतीम् ॥ उत्पातानां तथा राहुं ग्रहाणां च दिवाकरम् ॥ १६ ॥ कालस्यावयवाश्चैव कालं संवत्सरं तथा ॥ व्याधीनां च ज्वरं राज्ये तृणामर्किनिशाकरौ ॥ १७ ॥ अभिषिक्तो नरेन्द्रेन्द्र ब्रह्मण स्वयमव हि ॥ भारतेऽस्मिन्पुरा वर्षे प्राप्ते वैवस्वतेन्तरे ॥ १८ ॥ तस्मादद्यापि च तयोरंशजाताश्च पार्थिवाः ॥ ततोऽभिषिक्तो देवानां राज्ये देवः शतक्रतुः ॥ संशय राजभिः सर्वैस्त्रैलोक्यपतिभिर्जितः ॥ १९॥ वज्र उवाच ॥ गजेन्द्रोभिषिक्तः स कथं महात्म्या सम्भूय सर्वैद्विरदप्रदिष्टैस्तौ ॥ एतन्ममाचक्ष्व भृगु प्रधान भक्तिममयं त्रिदशेन्द्रशत्रोः॥२०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शैलूषं प्रति नाडायनवाक्ये प्रतिसृष्टौ गजकीर्त्तनं नामैकान्न पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥ ॥ मार्कण्डेय उवाच ॥ सुमेरौ पर्वते श्रेष्ठे नानात्नोच्चलित्विषि ॥ प्रजापतिस्तथादाय राजानंवान्थ कीर्त्तितान् ॥ १ ॥ अभ्यषिञ्चत देवानां राज्ये कश्यपनन्दनम् ॥ तेजस्विनांमथादित्यं जह्वं निर्वृत्कमल्पम् ॥ २ ॥ तस्याभिषेके प्रददौ विश्वकर्मा मनोहरम् ॥ रत्नोत्ज्वलं भद्रपीठं कामरूपधरं शुभम्॥३॥ अत्रैवमुपदिध्याय स्वयं ब्रह्मा जगद्गुरुः ॥ अभ्यषिञ्चत देवानामाधिपत्ये शतक्रतुम् ॥४॥ ब्रह्मा विष्णुश्च शम्भुश्च साध्याश्च समरुद्गणाः ॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥ ५ ॥ भुगोराङ्गिरसः साध्या अश्विनौ च भिषग्वरौ ॥