विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 365, कुल 1001 में से
संदर्भ में पढ़ेंपुनः ॥ ६ ॥ हन्यमानेषु नागेषु करीन्द्रांश्च वलीमुखान् ॥ पातयन्ति महाराज शतशोऽथ सहस्रशः ॥ ६ ॥ एवं प्रवृद्धे वैरे तु वानरैः कुञ्जरै स्तथा ॥ राज्ञे निवेदितं गत्वा ऋक्षैरावणयातस्तदा ॥७॥ ततस्तौ पार्थिवौ क्रुद्धौ चक्रतुर्बलमुत्तमम् ॥ वानरास्तु महाकाया वीराः परमदंष्ट्रसः ॥८॥ ऋक्षाश्च सगोगपुच्छाः किष्किन्ध्यां पुनरागताः ॥ ऐरावणाज्ञां ये नागाः सपक्षाः पर्वतोत्तमाः ॥ ९ ॥ प्राच्यां वनमथाजग्मुः सर्वतः पृथिवीपते ॥ बलाणांवावृभौ क्षुब्धौ क्रोधाद्दिष्टौ परस्परम् ॥ १० ॥ अन्तर्वेदीं तदा तौ तु जग्मतुर्बलदर्पितौ ॥ ततः प्रावर्तत रणं घोररूपं भयानकम् ॥ ११ ॥ भूमौ चैवान्तरिक्षे च नागानां सह वानरैः ॥ द्रुमप्रहारानिहताः कुञ्जरा वानरोत्तमैः ॥ १२ ॥ पतन्तो गगनाद्भूमीं चालयन्ति मुहुर्मुहुः ॥ खुरेषु वानरं गृह्य द्वौ नागौ गगने तथा ॥ १३ ॥ पातयन्ति महाराज भिन्दन्ति दशनैस्तथा ॥ ममन्थुरपरे पादैर्दहनाताडयँस्तथा ॥ १४ ॥ वृक्षान्करेण्योत्पाट्य चिक्षुपुर्येन वानराः ॥ ऐरावणेन निहताः कोटिशस्तत्र वानराः ॥ १५ ॥ पदेन सुप्रतीकेन वामनेनाञ्जनेन च ॥ कुमुदेन च नीलेन पुष्पदन्तेन चाप्यथ ॥ १६ ॥ तेषामन्वयसम्भूतैस्तथैवान्यैश्च कुञ्जरैः ॥ भद्रेण चाथ मन्देन मृगेण च महीपते ॥ १७ ॥ भद्रमन्देन मिश्रेण सार्वभौमेन वेधसा ॥ राज्ञा सुमनसा राजँस्तथैव च सुवर्चसा ॥ १८ ॥ वलाहकेन मत्तेन भीमेनेन्दीवरेण च ॥ हेमकूटेन कूटेन शंखेन निषेधेन च ॥ १९ ॥ श्वेतेन राजनक्तेन काञ्चनेनाङ्ग सुप्रभ ॥ विरूपाक्षेण चोग्रेण षड्दन्तेनासितेन च ॥ २० ॥ चतुर्दन्तेन यक्षण रक्षसा भीममा लिना ॥ ऋक्षण वानरेन्द्रेण कोटिशः कुञ्जरा हताः ॥ २१ ॥ शरभेण गवाक्षेण तथा कनकविन्दुना॥ऋक्षराजेन धूम्रेण तथा जाम्बवता नृप ॥२२ ॥ सुषेणदधिवक्त्राभ्यां तथा केसरिणा रणे ॥ रणचण्डेन वीरेण वानरेन्द्रेण जाम्बुना ॥ २३ ॥ तथा शतबलिर्येश्च तेनापि कदनं कृतम् ॥ पनसेन विशालेन गजेन गवयेन च ॥२४॥ हेमकूटेन विपुला भातुरोगेणा निशामृता ॥ गन्धमादनेनाम्ना च विजयेन जयेन च ॥२५॥ कुमुदेनाथ पद्मेन कनकाक्षेण शम्भुना ॥ इत्येवं दृश्यमानेषु वानरेषु गजेषु च ॥२६॥ चचाल मोदिनी राजंस्तस्मिन्काले मुहुर्मुहुः ॥ स्वयूथ्यैश्च निघातैर्वानरैः कुञ्जरैस्तथा ॥ २७ ॥ हतैश्च हन्यमानैश्च घोरमायोधनं बभौ ॥ शरीरैर्यत्र संरुद्धाः स्रवन्तो रुधिरापगाः ॥ २८ ॥ वानराणां गजानां च महा शैलोपमैर्नृप ॥ तस्मिंस्तथाविधे युद्धे गजवानरसंक्षये ॥ २९ ॥ आजगामाथ तं देशं स्वयं देवः शतक्रतुः ॥ अभ्येत्य वारयामास वानराँश्चैव कुञ्जरान् ॥ ३० ॥ ततश्च वानराः सर्वे शक्रगौरवयन्त्रिताः ॥ संन्यवर्तन्त संग्रामान्माहाः प्राञ्जलयः स्थिताः ॥ ३१ ॥ त्यक्तयुद्धानरणे जक्षु र्बानरान्कुञ्जरास्तथा ॥ क्रुद्धस्तेषां महेन्द्रस्तु वज्रेण शतपर्वणा ॥ ३२ ॥ पक्षाँश्छिच्छेद नागानां निहता यैर्वलीमुखाः ॥ छिन्नपक्षांस्तदा नागा