विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 364, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥ १५८ ॥
प्र० खं० अ० २५२
पतिसुतावुभौ ॥ ६ ॥ धूम्रं च जाम्बवन्तं च जनयामास ऋक्षजौ ॥ जाम्बवाञ्जनयामास मार्जारं भीमविक्रमम् ॥ ७ ॥ मार्जारस्य च मार्जार्याः कुले जाता महाबलाः ॥ ऋक्षस्य वानरेन्द्रस्य दुहितां मानसीं स्वयम् ॥ ८ ॥ ददौ प्रजापतिः श्रीमान्रूपयौवनसंयुताम् ॥ कामयामास तां शक्रस्ततो वालिर्जायत ॥ ९ ॥ तामेव कामयामास भास्करः स्वयमेव तु ॥ सुग्रीवं जनयामास भास्करात्सा सुमध्यमा ॥ १० ॥ तत्र वानरराजेऽभूद्वालिर्विक्रान्तपौरुषः ॥ यस्तु रामेण निहतः सुग्रीवस्त्वभिषेचितः ॥ ११ ॥ तस्यासन्वशगाः सर्वे वानरा देवयोनयः ॥ वालिपुत्रोऽङ्गदो नाम हनुमान्वायुनन्दनः ॥ १२ ॥ नीलो वह्निसुतः श्रीमान्विश्वकर्मसुतो नलः ॥ धर्मपुत्रः सुषेणश्च ऋषभो गरुडात्मजः ॥ १३ ॥ द्वावश्विनसुतौ वीरौ मैन्दो द्विविद एव च ॥ धूम्रश्च जाम्बवांश्चैव वेगदर्शी च वानरः ॥ १४ ॥ मृत्योः पुत्रा महावीर्या मृत्युतुल्यपराक्रमाः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ १५ ॥ यमस्य तनयाः पञ्च गोलांगूला महाबलाः ॥ श्वेतो ज्योतिर्मुखश्चान्यो भास्करस्यात्मजावुभौ ॥ १६ ॥ वरुणस्यावरः पुत्रो हेमकूटः प्रतापवान् ॥ देवपुत्रास्तथैवान्ये ऋक्षगोपुच्छवानराः ॥ १७ ॥ शतसाहस्रयूथानां राजानो भीमविक्रमाः ॥ हिमवन्महिषनिलयाः श्वेतनीलनिलयास्तथा द्वीपेषु च ॥ १८ ॥ शृङ्गवन्माल्यवद्विन्ध्यऋक्षवन्तनिवासिनः ॥ ये वसन्ति सदा सह्ये ऋष्यमे गन्धमादने ॥ १९ ॥ सागरान्तपपर्यन्ते तथा द्वीपेषु सप्तसु ॥ ब्रह्मण्या बलवन्त शूरा धर्मपरायणाः ॥ २० ॥ नीतिशास्त्रेषु कुशलाः सर्वशास्त्रविशारदाः ॥ सुनीताः सत्त्ववन्तश्च दृता नीतिगृहे रताः ॥ २१ ॥ सहाया रामभद्रस्य रावणस्य वधैषिणः ॥ हस्तिवानरसंखामे पुरा रुधिरकर्दमे ॥ २२ ॥ गिरिकूटनिभा नागा विजिता यैः सहस्रशः ॥ सहाया रामभद्रस्य ते वीरा भरतस्य च ॥ मा गच्छ संयुगं तस्माद्भरतेन महात्मना ॥ २३ ॥ सर्वास्त्रविज्ञानविशारदेन संग्रामशौण्डेन जितेन्द्रियेण ॥ धर्माच्च रामस्य परायणेन शक्राधिकेन त्वरितोपरोषेण ॥ २४ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्येषु वानरोत्पत्तिर्नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥
शैलूप उवाच ॥ किनिमित्तमभूद्युद्धं वानराणां तु कुञ्जरैः ॥ कीदृशं चाभवद्युद्धं तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
नाडायन उवाच ॥ वनाट्यं करीन्द्राणां यन्मयोक्तं पुरा तव ॥ तद्भूतं भारताद्वाह्यमंगस्य नवमस्य च ॥ २ ॥ द्वीपेषु राजन्सर्वेषु वर्षेषु च पृथक्पृथक् ॥ वनेषु निवसन्त्येते करीन्द्रा वानरास्तथा ॥ ३ ॥ रक्षन्ति वानरास्तत्र काननेषु च शालिनः ॥ पातयन्ति द्रुमाभागा लीलयैव जनाधिप ॥ ४ ॥ द्रुमेषु पात्यमानेषु कुञ्जराणां तरस्विनाम् ॥ वानराः कदनं चक्रुः क्रोधाविधाः पुनः ॥
॥ १५८ ॥