विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पुनः ॥ ६ ॥ हन्यमानेषु नागेषु करीन्द्रांश्च वलीमुखान् ॥ पातयन्ति महाराज शतशोऽथ सहस्रशः ॥ ६ ॥ एवं प्रवृद्धे वैरे तु वानरैः कुञ्जरै स्तथा ॥ राज्ञे निवेदितं गत्वा ऋक्षैरावणयातस्तदा ॥७॥ ततस्तौ पार्थिवौ क्रुद्धौ चक्रतुर्बलमुत्तमम् ॥ वानरास्तु महाकाया वीराः परमदंष्ट्रसः ॥८॥ ऋक्षाश्च सगोगपुच्छाः किष्किन्ध्यां पुनरागताः ॥ ऐरावणाज्ञां ये नागाः सपक्षाः पर्वतोत्तमाः ॥ ९ ॥ प्राच्यां वनमथाजग्मुः सर्वतः पृथिवीपते ॥ बलाणांवावृभौ क्षुब्धौ क्रोधाद्दिष्टौ परस्परम् ॥ १० ॥ अन्तर्वेदीं तदा तौ तु जग्मतुर्बलदर्पितौ ॥ ततः प्रावर्तत रणं घोररूपं भयानकम् ॥ ११ ॥ भूमौ चैवान्तरिक्षे च नागानां सह वानरैः ॥ द्रुमप्रहारानिहताः कुञ्जरा वानरोत्तमैः ॥ १२ ॥ पतन्तो गगनाद्भूमीं चालयन्ति मुहुर्मुहुः ॥ खुरेषु वानरं गृह्य द्वौ नागौ गगने तथा ॥ १३ ॥ पातयन्ति महाराज भिन्दन्ति दशनैस्तथा ॥ ममन्थुरपरे पादैर्दहनाताडयँस्तथा ॥ १४ ॥ वृक्षान्करेण्योत्पाट्य चिक्षुपुर्येन वानराः ॥ ऐरावणेन निहताः कोटिशस्तत्र वानराः ॥ १५ ॥ पदेन सुप्रतीकेन वामनेनाञ्जनेन च ॥ कुमुदेन च नीलेन पुष्पदन्तेन चाप्यथ ॥ १६ ॥ तेषामन्वयसम्भूतैस्तथैवान्यैश्च कुञ्जरैः ॥ भद्रेण चाथ मन्देन मृगेण च महीपते ॥ १७ ॥ भद्रमन्देन मिश्रेण सार्वभौमेन वेधसा ॥ राज्ञा सुमनसा राजँस्तथैव च सुवर्चसा ॥ १८ ॥ वलाहकेन मत्तेन भीमेनेन्दीवरेण च ॥ हेमकूटेन कूटेन शंखेन निषेधेन च ॥ १९ ॥ श्वेतेन राजनक्तेन काञ्चनेनाङ्ग सुप्रभ ॥ विरूपाक्षेण चोग्रेण षड्दन्तेनासितेन च ॥ २० ॥ चतुर्दन्तेन यक्षण रक्षसा भीममा लिना ॥ ऋक्षण वानरेन्द्रेण कोटिशः कुञ्जरा हताः ॥ २१ ॥ शरभेण गवाक्षेण तथा कनकविन्दुना॥ऋक्षराजेन धूम्रेण तथा जाम्बवता नृप ॥२२ ॥ सुषेणदधिवक्त्राभ्यां तथा केसरिणा रणे ॥ रणचण्डेन वीरेण वानरेन्द्रेण जाम्बुना ॥ २३ ॥ तथा शतबलिर्येश्च तेनापि कदनं कृतम् ॥ पनसेन विशालेन गजेन गवयेन च ॥२४॥ हेमकूटेन विपुला भातुरोगेणा निशामृता ॥ गन्धमादनेनाम्ना च विजयेन जयेन च ॥२५॥ कुमुदेनाथ पद्मेन कनकाक्षेण शम्भुना ॥ इत्येवं दृश्यमानेषु वानरेषु गजेषु च ॥२६॥ चचाल मोदिनी राजंस्तस्मिन्काले मुहुर्मुहुः ॥ स्वयूथ्यैश्च निघातैर्वानरैः कुञ्जरैस्तथा ॥ २७ ॥ हतैश्च हन्यमानैश्च घोरमायोधनं बभौ ॥ शरीरैर्यत्र संरुद्धाः स्रवन्तो रुधिरापगाः ॥ २८ ॥ वानराणां गजानां च महा शैलोपमैर्नृप ॥ तस्मिंस्तथाविधे युद्धे गजवानरसंक्षये ॥ २९ ॥ आजगामाथ तं देशं स्वयं देवः शतक्रतुः ॥ अभ्येत्य वारयामास वानराँश्चैव कुञ्जरान् ॥ ३० ॥ ततश्च वानराः सर्वे शक्रगौरवयन्त्रिताः ॥ संन्यवर्तन्त संग्रामान्माहाः प्राञ्जलयः स्थिताः ॥ ३१ ॥ त्यक्तयुद्धानरणे जक्षु र्बानरान्कुञ्जरास्तथा ॥ क्रुद्धस्तेषां महेन्द्रस्तु वज्रेण शतपर्वणा ॥ ३२ ॥ पक्षाँश्छिच्छेद नागानां निहता यैर्वलीमुखाः ॥ छिन्नपक्षांस्तदा नागा
वि० ध० ॥१६३॥
प्र० खं० अ० २६४
न्हानार्थं महीतले ॥ ३३ ॥ प्रददौ लोमपादाय तदाङ्गेशाय पार्थिव ॥ लोमपादोऽपि नृपतिस्तदा तेषां चिकित्सितम् ॥ ३४ ॥ शिक्षां स्वस्त्य यनं चैव चक्रे सूत्रनिबन्धनम् ॥ ततः प्रभृति लोकेऽस्मिन्वाहनत्वं गता गजाः ॥ ३५ ॥ गुर्विणीभिर्नवन्त्याभिः करिणिभीजनेश्वर ॥ वने विव र्धिता वंशाः कुञ्जराणां पुनःपुनः ॥ ३६ ॥ वनेष्वपि तदा जाता विपक्षाः कुञ्जरोत्तमाः ॥ छिद्रपद्वेषु जातेषु प्रभावोण शतक्रतौः ॥ ३७ ॥ वान राश्च जयं लब्ध्वा प्रणिपत्य पुरन्दरम् ॥ स्थानानि जग्मुः स्वांन्येव राज्ञा रक्षण पूजिताः ॥ ३८ ॥ एवंविधैरभूतैषां वानराणां तु कुञ्जरैः ॥ युद्धमासीन्महाघोरं विजिता यत्र कुञ्जराः ॥ ३९ ॥ वानराश्च महाभागा वानरेन्द्रमुखोद्गताः ॥ दैवयोगेन विजिते भरतेऽपि यदृच्छया ॥ क्षिप्रमेवाद्धरिष्यन्ति त्वां समेत्य सबान्धवम् ॥ ४० ॥ तस्मान्न युद्धं मम रोचते ते रघूद्वहेनाप्रतिमेन राजन् ॥ नयात्मना च प्रतिपु रुषेण धर्माभिरामेण जनप्रियेण ॥ ४१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्ये गजवानरयुद्धवर्णनं नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५३ ॥ शैलूप उवाच ॥ अृतमेतन्मया सर्वं यत्त्वयोक्तं पुनःपुनः ॥ प्रणिपातमहं कर्तुं न शक्नो भर ताय तु ॥ १ ॥ उच्छेद्भेव न नमेद्बुधश्चैव पौरुषम् ॥ अद्य सर्वनिर्भोगं न नमे चेह कस्यचित् ॥ २ ॥ अतिक्रेशेन यद्धर्म्यः स्वधर्मेणस्यातिक्रमण च ॥ अरेर्वा प्रणिपातेन मास्म तेषु मनः कृथाः ॥ ३ ॥ आज्ञाफलं यदा राज्यं प्रणिपत्य तदा परम् ॥ किं नो राज्येन कर्त्तव्यं सामान्यजनब न्मिणा ॥ ४ ॥ प्रणिपत्य नरः शत्रुं मानी शौण्डादिभिर्जितः ॥ कथं शक्तोव्यवस्थातुं भार्यादियविषेष्वपि ॥ ५ ॥ अरेर्वा प्रणिपातस्त्य संग्रामे मरणस्य च ॥ यदन्तरं तद्वदति ब्रह्महत्याश्वमेधयोः ॥६॥ मार्कण्डेय उवाच ॥ शैलूपवचनं श्रुत्वा तदा नाडायनो द्विजः ॥ जगाम स्वगृहह्योयेव हतं मत्वा जनेश्वरम् ॥७॥ नाडायने तदा याते राजा गन्धर्वसत्तमान् ॥ समाहूयाब्रवीत्कांश्चित्कांश्चित्तत्र कृताञ्जलीन् ॥ अवज्ञाथ नरः शत्रुं क्षिप्रमेव विनश्यति ॥ ८ ॥ तस्मात्कार्यमवज्ञातं न कदाचिदणापि तु ॥ केचिद्गोध्यां गच्छन्तु गन्धर्वा बलदर्पिताः ॥ ९ ॥ आनयन्तु स्त्रियः शीघ्रे तत्र गत्वा च मायया ॥ ये मुख्याः सैनिकास्तस्य भरतस्य समत्विपः ॥ १०॥ सैनिकानां स्त्रियस्तपां कृत्वा प्रसुप्तवतो रणम् ॥ एवं विमनसो तेषां कर्ता स्मि कदनं महत् ॥ ११ ॥ घातयिष्यामि भरतं हतसैन्यमनन्तरम् ॥ शिविं चापरे यान्तु भरतस्य सुविक्रिपः ॥ १२ ॥ निघ्नन्तु योधान्सुसुप्ता न्मात्रौ तस्य सहस्रशः ॥ हतसैन्यं हनिष्यामि ततोऽहं भरतं रणे ॥ १३ ॥ राज्ञो गृहं तथैवान्ये प्रविशन्तु महाबलाः ॥ निघ्नन्तु तत्र संतुप्तान्यैर्नि र्कास्त्व भुवाजितः ॥ १४ ॥ हतसैन्यं हनिष्यामि भरतं सतुधाजितम् ॥ अदृश्यैर्मायया गत्वा गन्धर्वबलदर्पितैः ॥ १५॥ यथोक्तमेतत्कर्तव्यं वचनं
॥१६३॥
मम सत्वरैः ॥ एवमुक्तास्तु गन्धर्वाः प्रणिपत्य महीपतिम्॥ १६॥ राजाज्ञां शिरसाऽऽगृह्य जग्मुस्त्वरितविक्रमाः॥दिनशेषेण संप्राप्य यथादिष्टं महीं स्थिता ॥ १७ ॥ व्यचेष्टन्निशि राजेन्द्र यथाज्ञातं चिकीर्षवः ॥ विसर्जयित्वा गन्धर्व्वाञ्छैलूषोऽप्यथ सत्वरः॥१८॥आज्ञापयत सैन्यानि श्वो युद्धमिति पार्थिव ॥ जगाम चास्तं सविता कमलानि विशिल्यन् ॥ छादिते तमसा लोके प्रवृत्ता यामिनी तथा ॥१९॥ गन्धर्वराजोऽपि तदा विजह्रे स्त्रीभिः सहान्तःपुरमृत्य साकम् ॥ गन्धर्वपुत्राश्च तथा विजहुः श्वो युद्धमित्येव विवृद्धदर्पाः ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वप्रेषणं नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥ छ ॥ मार्कण्डेय उवाच ॥ आज्ञाता ये त्वयो- ध्यायां गन्धर्व्वास्तेन भूभुजा ॥ अयोध्यां ते समासेदुर्निशीथे लघुविक्रमाः ॥ १ ॥ मायाच्छन्नशरीराश्च विचेरुस्ते महीपते ॥ अयोध्याय महाराज ददृशुः श्रियम् ॥ २ ॥ शशाङ्कर्क्षगृहाणि बहुभौमानि यादव ॥ ददृशुर्गृहमुख्यानि शतशोऽथ सहस्रशः ॥ ३ ॥ सर्वरत्नोप- पन्नानि शयनासनवन्ति च ॥ सुवर्णदामचित्राणि मुक्ताजालचितानि च ॥ ४ ॥ प्रज्वलिद्रत्नदीपांश्चाप्यन्तःपुरपुरोहितान् ॥ बहुमाल्यानि मुख्यानि दीपोद्गारेण पार्थिव ॥ ५ ॥ प्रविश्य गृहमुख्येषु ददृशुस्तेषु मानवान् ॥ चन्दनागुरुदिग्धाङ्गांस्तथाऽभरणभूषितान् ॥ ६ ॥ क्रीडमानान्सह स्त्रीभिर्दिवा देवगणानिव ॥ भरतानुगतानाञ्च सैनिकानां गृहेषु च ॥ ७ ॥ स्त्रीणां भर्तृविहीनानां ददृशुर्बलचेष्टितम् ॥ काचित्तु लेभे शयने निद्रां मुद्गतलोचना ॥ ८ ॥ आकुलं शयनं चक्रे काचिद्भयो विवर्त्तनैः ॥ मृणालशयने काचित्कदलीपत्रसंस्तरे ॥ ९ ॥ चन्दनं चन्द्रपादेषु मृणाल- वलयेषु च ॥ कामाग्निनाशाशक्तेषु काचिच्चक्रे तथा रूपम् ॥ १० ॥ अनुधारा निपतिताः कामाग्निप्रदीपिते ॥ अम्बरीषे यथा नाशं कस्याश्चि- द्याति वक्षसि ॥ ११ ॥ काचिन्नुमोहे शयने वर्णयन्ती सखीजने ॥ उल्लपन्ती तदा दैवात्कान्तसम्भोगजं सुखम् ॥ १२ ॥ तालवृन्तानिलैः शीतैर्विज्यमाना सखीजनैः ॥ दृढताम्यत्यधिकं काचित्स्वैः श्वासैर्विनिस्सृतैः ॥ १३ ॥ स्वप्नेऽपि कान्तसंयोगकारिण्यां हि सखी मम ॥ दैवा- न्मयि हता निद्रा सापि काचिदभाषत ॥ १४ ॥ केयूरस्थानसंप्राप्ता वराङ्गदविभूषणा ॥ कामक्षामवपुः काचिज्जगाम सखि शोच्यताम् ॥ १५ ॥ दत्तध्यानतया कान्ते शोच्यमाना सखीजनैः ॥ अविज्ञाता तथा काचिन्नामापत सखीजनम् ॥ १६॥ चित्रभित्तिगतं कान्तं काञ्चिच्चानिमिषेक्षणा॥ बभूव चित्रन्यस्तेव पश्यन्ती विगताक्रिया ॥ १७ ॥ इति गन्धर्व्वमुख्यानां पश्यतां रजनीमुखे ॥ नासीत्स्त्रीहरणे शक्तिः प्रभावाद्राघवस्य च॥१८॥ हितेच्छुरासां स यदा निविष्टो देवेश्वरश्चक्रधरो नृरूपी ॥ ततः प्रभावो न बभूव तेषां हर्तुं स्त्रियश्चारुशशाङ्कवक्त्राः ॥ १९ ॥ ॥ इति श्रीविष्णुध
वि० ध० ॥१३६॥ प्र० खं० अ० २५७
र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विरहिणीवर्णनं नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५५ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ गन्धर्वाः कटके केचिद्विविशुर्भरणतस्य तु ॥ पुरस्कृत्य नृपत्याज्ञां सैनिकानां वधेप्सवः ॥ १ ॥ मायाच्छन्नशरीरास्ते ददृशुर्निशि चेष्टितम् ॥ प्रातः समरकामानां कान्तोत्कण्ठितचेतसाम् ॥ २ ॥ मनोरथरथाढ्यः कश्चिच्चाणेश्वरीं ब्रजन् ॥ न लेभे शयने निद्रां कृत्वे गणममुत्सुकः ॥ ३ ॥ कश्चिच्चन्द्रकरस्पर्शशिशिरोपारिपीडितः ॥ ददर्श चन्द्रं दिव्याङ्घिप्रावदनलनिर्जितम् ॥ ४ ॥ कश्चित् चिन्तयन्नेवं प्रियां प्राणधनेश्वरीम् ॥ उत्तानं शयनं चक्रे तारकागणकं दिवि ॥ ५ ॥ पश्यन्ननिमिषकूंतं दिद्यं पञ्चच्छंदं विलज्जितम् ॥ प्रियया स्वकृतं कश्चित्सुहृदा वयति शर्वरीम् ॥ ६ ॥ निवेद- मतिरम्येण दद्दते चन्द्ररश्मिभिः ॥ कश्चिद्विहीनस्तन्वङ्ग्या शयनीयोऽपि लिख्यते ॥ ७ ॥ स्वप्नेनोपप्लवन्तान्दिसङ्गमागमनोत्थः ॥ पुरोऽङ्गुपिनो गन्धर्वः कश्चिद्भोमाभसम्भवात ॥ ८ ॥ प्रियां संप्रेषितां प्रेक्ष्य समालापपरायणः ॥ न वेद कश्चिद्राजेन्द्र गतामपि विभावरीम् ॥ ९ ॥ ज्वलन्तम् निशं कश्चिच्छरीरे विरहानलम् ॥ सहसा शमयामास ध्यायन्नम्बुजसुखीं प्रियाम् ॥ १० ॥ श्यामां विकचुरुच्कां तन्वीं भुनां प्राणपहारिणीम् ॥ प्रियां च लङ्घयिष्ठिं च कश्चित्स्मरति मुत्सुकः ॥ ११ ॥ सगुणां तनुमध्यां च नवकाञ्चनसन्मृणाम् ॥ यस्माद् दयितां कश्चिद्वापयष्टिं तथैव च ॥ १२॥ विचिन्तनानि गन्धर्वा भरतस्य च सैनिकान् ॥ न शेकुराधर्षयितुं भरतस्य समाश्रयात् ॥ १३ ॥ अन्येऽपि ये देववरम्य विष्णोः म्मरन्ति नित्यं यदुनाथपा दौ ॥ गन्धर्वयक्षासुरराक्षसेभ्यो भयं न तेषां भवतिह किञ्चित् ॥ १४ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे विरहिण्वेनं नाम षट्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५६ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ अथ गाजगुह्रस्यं तु नगरं चे विसाजिताः ॥ गंधर्वा ददृशुस्तत्र पुरिश्रियमनुत्तमाम् ॥ १ ॥ चन्द्रासपत्यन्तरुतानि गृहसुल्यानि सर्वशः ॥ ददृशुर्बहुगन्तानि बहुधान्यनतानि च ॥ २ ॥ पुरोद्यानानि रम्याणि ददृशुश्च समन्ततः ॥ अलंकृतानि वापीभिर्दुमषण्डैश्च याद्वव ॥ ३ ॥ उद्यानेषु विचित्रेषु नरगुल्यानुगान्निताम ॥ पश्यन्ति तत्र सङ्गानि गंधर्वाः पानपायिनाम् ॥ ४ ॥ बहुकण्ठानां निनोदेन गीतेन मधुणेण च ॥ एकातामिव संयातं चारुपदपदिशिक्षितम् ॥ ५ ॥ वेश्याश्चैवोपवृन्त्यन्ति क्वचित्तत्र च कामुकान् ॥ क्वचित्सामभरणाः युक्ताः कान्तैः सह महोत्कटाः ॥ ६ ॥ पुंसानां नग्नगीणां गन्धर्वान्वतत्र चेष्ट्रि तम् ॥ ददृशुर्बहुदायाणां मायाच्छादितविग्रहाः ॥ ७ ॥ गायन्त्यन्ये रुदन्त्यन्ये हसन्त्यन्ये तथैव च ॥ आलिङ्ग्यन्ति तथैवान्ये मदमत्ताः पर-
१ 'मत्तानाम्' इति ख० ।
॥१३६०॥
स्परम् ॥ ८॥ भाषन्ते केचिद्व्यक्तं विह्वलाः पदेपदे ॥ शयने भ्रममाणैश्च कचिदस्थितदृष्टयः ॥ ९ ॥ कामिनीस्कन्धविन्यस्तव्यावृत्ता तथा परे ॥ कलहं चक्रिरे चान्ये स्तुवन्त्यन्ये निरर्थकम् ॥ १० ॥ स्खलमानपदा यान्ति स्थानं हृद्गतवञ्चितम् ॥ आह्वयन्ति गणान्केचित्प्रणमन्ति तथा परे ॥ ११ ॥ एवं सन्तजनाकीर्णे नगरे गीतनादिते ॥ ददृशुर्गृहमुख्येषु नरनारीर्विचेष्टितम् ॥ १२ ॥ सम्बोध्यमाना दूतीभिस्त्वङ्गकृत भुजाः स्त्रियः ॥ यान्ति कान्तान् सम्भ्रान्ता मदपानसमुत्सुकाः ॥ १३ ॥ पपुः काश्चित्प्रियैः सार्थं पानं मदसमीरिताम् ॥ पाययन्त्यपराः कान्ता भोजयन्त्यपराः प्रियान् ॥ १४ ॥ प्रासादेषु विचित्रेषु तथा वातायनेषु च ॥ रतिश्रान्तास्तथा सुप्ताः काश्चित्कान्तैः सह स्त्रियः ॥ १५ ॥ काचिद्गौरी प्रियं श्याममालिङ्ग्य शयने स्थिता ॥ उत्पलस्रगिवाभाति युक्ता जातिस्रजा सह ॥ १६॥ गौरं गौरसमाश्लिष्य काचिदाभाति सुन्दरी ॥ आलिङ्गिता चन्द्रकैश्चन्द्रकान्तशिला यथा ॥ १७ ॥ श्यामा श्याममसारश्लिष्टा काचिदाभाति पार्थिव ॥ पयोदपङ्क्तिर्गगने यथा पार्थिव सोल्का ॥ १८ ॥ अलकिकुसुमप्रौढा काचिच्चुम्बति प्रियम् ॥ प्रियेण गाढमाश्लिष्टा विलक्षस्मितमभवत् ॥ १९ ॥ काचिच्च वनिता प्रौढा कर्पूर रजसा स्वयम् ॥ अवाकिरति कान्ताङ्गं रतिस्वेदपरिप्लुतम् ॥ २० ॥ पश्य मां तारकां चन्द्रो लेखां समालिङ्ग्य तिष्ठति ॥ इत्याह दयितं काचित्प्रौढा रतिसुखार्थिनी ॥ २१ ॥ काचिद्रूपवरा दृष्ट्वा सुरतार्थिनी ॥ कान्तेनालिङ्गिता गाढं मुदितेन रतिलिप्सुना ॥ २२ ॥ कान्तेन काचिद्रोषोष्ठी चुम्बनायार्पिते मुखे ॥ न यास्ये तव विश्वासं भूयश्चेदेवमकृथाः ॥ २३ ॥ १ काचित्प्रसुप्ता कान्तेन परा स्पृष्टा रतार्थिनी ॥ कान्तमालिङ्गदत्यर्थं त्यक्तनिद्रा ससम्भ्रमा ॥ २४ ॥ इत्येवमपि विश्वस्तान्सैनिकांस्तान्सुखान्वितान् ॥ हंतुं न शेकुर्गन्धर्वा भरतस्य समाश्रयात् ॥ २५ ॥ एषां पुरे सन्निहितः स विष्णुर्महाभावो रघुवंशगोप्ता ॥ तेषां पुरे नास्ति भयं नरेन्द्र गन्धर्व यक्षासुरपन्नगेभ्यः ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे निशीथभोगवर्णनो नाम सप्तपञ्चाशदुत्तरद्विशततमोऽ ध्यायः ॥ २५७ ॥ ॥ मार्कण्डेय उवाच ॥ अथोत्थाय तदासमेत्य गन्धर्वाः शिविरात्तथा ॥ तथा राजगृहात्सर्वं शैलूषाय न्यवेदयन् ॥ १ ॥ न विद्मस्तत्कथा तत्र न रक्षा काचिदीदृशी ॥ केवलं तु प्रभावेण रामस्य भरतस्य च ॥ २ ॥ नास्माभिः किं कृतं राजन्गृहीतुं क्वचिदप्यपि ॥ यत्तत्र शेषं कर्त्तव्यं तत्करोतु महीपतिः॥३॥ एवमुक्ताः स गन्धर्वैरजनीविगमे तदा ॥ उद्योगमकरोच्छीघ्रमाज्ञापयत सत्वरः ॥४॥ भेरी महादिको
१ 'मदालससमुत्सुकाः' इति ख० ।
वि० ध० प्र० खं० अ० २६०
चैव ततः शीघ्रमन्यत् ॥ यस्याः शब्देन गन्धर्वा राजद्वारमुपागताः ॥ ५ ॥ गजवारेण महता तुरगाणां बलेन च ॥ रथैश्च मेघसन्नादैः पत्तिभिश्च मदोत्कटैः ॥ ६ ॥ क्ष्वेडितास्फोटितरवैः शङ्खभेरिनिनादितैः ॥ ह्रादेन गजघण्टानां गजानां चैव बृंहितैः ॥ ७ ॥ हेषितैस्तुरगाणां तु बभूव तुमुलं महत् ॥ शैलूषोऽपि तदा श्रुत्वा हुत्याग्निं द्विजपूजनम् ॥ ८ ॥ कृत्वा विनिर्ययौ श्रीमान्बरचन्दनभूषितः ॥ मौलौ वपुष्यानस्रद्धः स्रग्वी रुचिरभूषणः ॥ ९ ॥ आपादपात्रतीकाशैस्तुरंगैर्योजितं रथम् ॥ आरुरोह महातेजा विमानं सुकृती यथा ॥ १० ॥ यथोक्तस्य रथस्यासीत्पुरो रणविशारदः ॥ नरकेतुरिति ख्यातिस्त्रिषु लोकेषु विश्रुतः ॥ ११ ॥ केतौ तस्य रथे भाति वसन्तो मूर्तिमान्कृतः ॥ ततः स सह सैन्येन निर्ययौ नागसाह्वैः ॥ १२ ॥ व्यूहं च सर्वतोभद्रं समाधाय बलं तथा ॥ कृत्वा प्रत्यवेक्षत तदा भरतागमनं रुषा ॥ १३ ॥ सैन्येन महता राजन्यन्भार्यास्मरणोदयं प्रति ॥ १४ ॥ आत्तायुधाः क्ष्वेडितशङ्खनादैरानन्दयन्तः सुहृदां मनांसि ॥ गन्धर्वसूनुस्त्वथ रणचण्डवेगाः प्रतीक्षमाणा भगतस्य तस्थुः ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वसैन्यवर्णनं नामाष्टपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥
मार्कण्डेय उवाच ॥
विबुद्धा यामिनीशेषे सर्व एव महीक्षितः ॥ निर्ययुर्नगरात्कारैः स्थैः संग्रामलालसाः ॥ १ ॥ बलेन चतुरङ्गेण नानावादित्रनादिना ॥ वन्दिभिः स्तूयमानाश्च वन्द्यमानाश्च सैनिकैः ॥ २ ॥ पृथक्पृथक्सुसंनद्धा नगराद्बहिरागताः ॥ कृत्वा चावश्यकं सर्वं भरतोऽपि महायशाः ॥ ३ ॥ स्नातेन काञ्चनाङ्गेन निर्ययौ नगराद्वहिः ॥ गत्वा रथस्य तस्यासीद्युधाजिन्मातुलः स्वयम् ॥ ४ ॥ विराजे ध्वजं तस्य कौविदारमहाद्रुमम् ॥ न तेन शृण्वन्त्येत बर्हिनिर्गमय पार्थिवः ॥ ५ ॥ समेत्य पार्थिवैः सर्वैः पूजयित्वा च तान्नृपान् ॥ चक्रं कृत्वा महाव्यूहं प्रययौ लघुविक्रमः ॥ ६ ॥ प्रयाणे तस्य सैन्यस्य कम्पन्तीव वसुन्धरा ॥ शब्देन महता तस्य दीर्घते च नभस्तलम् ॥ ७ ॥ बभूव रजसैवान्धः निशकालः सुदारुणः ॥ तृषास्रग्पणाणिक्यतेजसा भुवि राजिता ॥ ८ ॥ रजोन्धकारेऽपि चमूः सा प्रयाति यथासुखम् ॥ स गत्वा दूरमध्वानं सूर्यस्योदयने प्रति ॥ ९ ॥ आसाद् महत्सैन्यं गन्धर्वाणां दुरत्ययम् ॥ १० ॥ तौ सैन्येतौयोघमहान्दुन्तौ संहारनागाविव तुल्यरूपौ ॥ वलार्णवौ गाढमथ प्रहारं प्रचक्रतुर्मन्युवशानुयातौ ॥ ११ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतसैन्यनिर्याणं नामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः ॥२५९॥
मार्कण्डेय उवाच ॥
ततः प्रवृवृते युद्धं तुमुलं लोमहर्षणम् ॥ शुराणां हर्षजननं भीतानां भयवर्धनम् ॥ १ ॥ सेनादिनिर्गमे तत्र रजसाच्छादितं जगत्॥ न प्रज्ञायत राजेन्द्र किञ्चिदेव समन्ततः ॥ २ ॥ कूजतां धनुषां शब्दः श्रूयते तुमुलै महान् ॥ शङ्खभेरीनिनादश्च कुञ्जराणां च बृंहितम् ॥३॥ हयानां
॥१६३॥
हृष्यमाणानां शूराणां चैव गर्जताम् ॥ शस्त्राणां पात्यमानानां योधानां कवचेष्वपि ॥४॥ तिष्ठतिष्ठ न मे जीवन्गन्तासि रणमूर्धनि ॥५॥ स्थितोऽ स्मि प्रहरस्वेति किं न जानासि मां भवान् ॥६॥ प्रहरस्व तथा छिन्धि भिन्धि घातय मा चिरम् ॥ एवमादीनि वाक्यानि श्रूयन्ते रणमूर्धनि ॥ ७॥ तथा तुमुलसंग्रामे वर्तमाने सुदारुणे ॥ प्रशशाम रजो भौममुत्थितं रणशोणितैः ॥ ८ ॥ पूर्वोत्थितेन रजसा मेद्येनेव नभस्तलम् ॥ व्याप्तं तादृग्जरत्केन तदा राजन्नणाङ्गणे ॥९॥ ततो युयुधिरे वीराः पश्यमानाः परस्परम् ॥ गोत्रापदाननामानि कीर्तयन्तः पुनःपुनः ॥ १० ॥ सेनानां भज्यमानानां सैन्यखण्डैर्बलीयसाम् ॥ भूयश्चावर्तमानानां शुश्रुवे तुमुलः स्वनः ॥११॥ चित्राणां च ध्वजानां च पताकानां च भूपतेः ॥ अदृश्यत समासिक्तं रुधिरं रणमूर्धनि ॥ १२ ॥ स्वभ्रे तदा महाराज रजोमेघे क्षयं गते ॥ निर्मलेऽसु ततो दिक्षु प्रावर्तत महारणम् ॥ १३ ॥ तथा प्रवृत्ते संग्रामे देवगन्धर्वदानवैः ॥ सिद्धैर्विद्याधरैश्चैव मुनिसंघैः समन्ततः ॥१४॥ आवृतं सहसा व्योम वभूवुश्चकुतूहलैः ॥ व्यदृश्यन्त विमानानि तेषां खे विमलेष्वपि ॥ १५ ॥ किङ्किणीशतजुष्टानि पताकाशोभितानि च ॥ शुभं गन्धमथादाय सुरभिर्मारुतो ववौ ॥ १६ ॥ पपात पुष्पवर्षं च योधानां तत्र मूर्धनि ॥ तथा प्रवृत्ते तुमुले श्वेडितोत्कृष्टनादिते ॥ १७ ॥ पदातयस्तदा जघ्नुः पदातींस्ते च संयुगे ॥ खड्गधारानिकृन्तानां पदा- तीनां पदातिभिः ॥ १८ ॥ द्विधा कृतानि गात्राणि निपत्तन्ति महीतले ॥ गृहीत्वा खड्गपातानि रेणुः केचिच्च वर्मिणः ॥ १९ ॥ खड्गमुद्गरतां तेषां चिच्छिदुर्नृप विव्यहन् ॥ केचिद्गदानिर्विभिन्नमस्तका गदिभिः क्षितौ ॥ २० ॥ पतितास्तत्र दृश्यन्ते रणे शतसहस्रशः ॥ भ्रासिशेषनिक्षेप- निहतारस्तथास्तथा ॥ २१ ॥ सिंहनादवांश्चक्रुः परसैन्यविदारणान् ॥ केशेष्वन्योन्यमाकृष्य खड्गैः केचित्परस्परम् ॥ २२ ॥ आसेडुर्भुसुधां कृत्वा गतप्राणास्तथा परे ॥ पृष्ठविन्यस्तवर्माणः सत्रष्टांङ्गुस्तगोस्तथा ॥ २३ ॥ कृत्वा विषादन्समरे निजघ्नुः सादिनां गणम् ॥ आरूढ वर्भिणः केचिद्वगाच्छतुरथांग्रणे ॥ २४ ॥ सारथीन्विगतप्राणाँश्चक्रुर्युद्धविशारदाः ॥ विच्छिन्नदुर्वर्णदण्डां करांन्कीचिपदातिनः ॥ २५ ॥ केचिद्दशनवियुक्तापदाश्चारुह्यंगजान् ॥ सादिनश्च तथा केचिद्विशिरस्कान्रणाजिरे ॥ २६ ॥ चक्रुः पदातिनो ध्माताः खङ्गेराका- शसत्रिमैः ॥ केचिच्च सादिनः प्रासैः पञ्च सप्त तथा शरान् ॥ २७ ॥ श्रेणीकृतान्वै बिभिदुः शिक्षया रणकोविदाः ॥ केचिच्छङ्गेक्ष्णतुर्यस्तवा- णजालकुलीकृतान् ॥ २८ ॥ पदातीन्समरे चक्रुरायुधवेगस्तृज्वैः ॥ सादिनश्च तथैवान्ये सादिभिः सह संगताः ॥ ॥ २९ ॥ दृश्यन्ते रणे भिक्षां चक्रुर्युद्धमनेकधा ॥ केचित्पाशाशनिभिर्भह्रैतहसारिधनायकाः ॥ ३० ॥ विनेदुरुच्चैः सहसा सिंहनादरवान्ध
वि० पृ० ॥१६२॥
प्र० सं०
अ० २६०
नान् ॥ कुञ्जरैराकुलीकृत्य हयवांस्त्विवाङ्गाः ॥ ३१ ॥ द्विपुच्छहस्तान्संगरे चक्रुः सादिगणाञ्जने ॥ निहतं च शरैस्तैः पदातं बहुधा रणे ॥ ३२॥
रथिभिर्भ्राति भूपाल कमलोत्पलसन्निभम् ॥ तुङ्गास्तेऽन्तामपोरोहा रथिभिर्विनिपातिताः ॥ ३३ ॥ आववृधुर्भुयां तत्र शतशोऽथ सहस्रशः ॥ गथिनो
रथिभिः सार्धं युद्धमासीत्सुदारुणम् ॥३४॥ बाणतोमशक्त्यैश्च गदाकम्पनसुद्गरैः ॥ रथिनां च महद्युद्धमासीत्कुञ्जरयूथपैः ॥३५॥ प्रासावपणहस्तैश्च पत्त
दुर्निरीक्ष्यं समन्तः ॥ निहतं बहु पादातं कुञ्जरैर्बलदर्पितैः ॥ आक्रम्य रथवृन्द्वानि चूर्णयन्ति तुरङ्गमः॥३८॥व्यदृश्यन्त महाराज विप्रकीर्णानि भूतले॥
कृतम् ॥ ३७ ॥ महामात्रप्रणुदितैः कुञ्जरैर्बलदर्पितैः ॥ बभूवाकुलसंग्रामं घोरं रुधिरकर्दमम् ॥ रथाश्चकुञ्जरैः सार्धं पत्तयश्च समागताः ॥ ४० ॥
एवं मध्याह्नसमये तीक्ष्णं तपति भास्करे ॥ ३९ ॥ पदातीनां सादिनां सह सादिभिः ॥ ४१ ॥ रथिनो रथिभिर्युद्धं कुञ्जराणां च कुञ्जरैः ॥
कुञ्जराश्च महाकाया पत्त्यश्वस्थिनस्तथा ॥ पत्तिभिश्च पदातीनां सादिनां सह सादिभिः ॥ ४१ ॥ सादी गजेन निहतो नरः ॥ ४३ ॥
बभूव रजौस्तुमुले संग्रामे शोणितोदके ॥ ४२ ॥ शूराणां रणलुब्धानासमशक्रान्तचेतसाम् ॥ पत्तिना निहतः सादीविर्निपातिताः ॥
रथिना निहतो नागः क्वचिदासीद्रथातितः ॥ हताः पदातिभिश्चान्ये व्यदृश्यन्त रणाजिरे ॥ ४४ ॥ पदातितथनागाश्च सादिभिश्चैव पादातता ॥४६॥
रथनागाहया युद्धे निहताश्च पदातिभिः ॥ ४५ ॥ नरेण च हतो हस्ती शृण कुलबुद्धिनो ॥ सादिना च हतो हस्ती भुशुण्डीनां तोमराणां तथैव च ॥४९॥
रथिना च हतः पत्तिः पत्तिना च हतो रथी ॥ रथिना निहतः सादी संग्रामे लोमहर्षणे ॥ ४७ ॥ रेणुना च दिशो व्याप्तास्तुमुले भृशसंकुले ॥
व्यराजन्त महाराज समरे गतजीविताः ॥ ४८ ॥ पततां बाणजालानां धनुषां चैव कूजताम् ॥ शूराणां च तत्र तथैव च ॥४९॥
पट्टिशानां च ऋष्टीनां क्षेपणानां च याद्व ॥ अयोगुडानां प्रासानां चर्मणामथ वर्मणाम् ॥ ५० ॥ अनिशं श्रूयते शब्दो घोरस्तस्मिन्रणाजिरे ॥
हयैश्च विगतातोहैर्धावमानैरितस्ततः ॥ ५१ ॥ भग्नेषाकूवरान्द्रैश्च रथैर्विगतनायकैः ॥ छिन्नदन्तैश्च मातङ्गैर्भिन्नकुम्भवराननैः ५२ ॥ लतावैद्यित
वृक्षामैः शोभां याति रणाजिरम् ॥ कुञ्जरैर्विगतारोहैस्त्रासितैर्दृढधन्विभिः ॥ ५३ ॥ मर्यमानानि सैन्यानि शतशोऽथ सहस्रशः॥ भिन्नान्सुरुदन्तः
पुरुषान्दन्तसंक्तांस्तथा गजाः॥५४॥ वहमाना व्यराजन्त कर्णचञ्चलवर्जिताः ॥ उत्थान्यजोलैंडैर्नन्दिनन्तः पर्वतोपमाः॥५५॥ लताविद्युत्समाभिः
शोभयन्ति रणाजिरम् ॥ तस्मिंस्तथाविधे रौद्रे संग्रामे घोरदर्शने ॥५६॥ नरवानगणाकीर्णेविरथैस्तु शोणिताणगाः ॥ खड्गमीना महाग्राहाजहंसविधू
षिताः ॥ योधमस्तकपाषाणाः केशशैवालभूषणाः ॥५७॥ महामोहौघचक्रवच्च भीतानां भयवर्धनाः ॥ तास्तरन्ति तदा योधाः शूरा जयधनेपिणः॥५८॥
॥१६२॥
राजन्वाह्नतीन्मिश्रै व्यवसायपरस्पराः ॥ छिन्नानि स्वानि गात्राणि न जानन्ति रणे परैः ॥ ५९ ॥ तत्र शूरा महाभागास्त्वमपार्कान्तचेतसः ॥ आयुधक्षयमासाद्य मुष्टियुद्धानि चक्रिरे ॥ ६० ॥ केशांकेशि तथा केचिद्दन्तादन्ति नखानखि ॥ चक्रुयुद्धं महाराज ब्रह्लोलेकजिगीषवः ॥ ६१ ॥ क्रन्दन्तोऽन्ये पितृन्पुत्रान्भ्रातन्त्ये पितामहान् ॥ मातुलान्भागिनेयांश्च स्यालान्सम्बन्धिनस्तथा ॥ ६२ ॥ पितृव्यानार्यकान्त्ये दौहित्रानपरे तथा ॥ धावन्त्यन्ये पतन्त्यन्ये गर्जन्त्यन्ये जिगीषया ॥ ६३ ॥ स्वनन्त्यन्ये पतन्त्यन्ये म्रियन्ते चापरे तथा ॥ शोचन्त्यन्ये तथा बन्धूञ्शो- च्यांस्त्वन्ये तु बन्धुभिः ॥ ६४ ॥ याचन्तेऽन्ये महाराज तृष्णार्ताश्च तथा जलम् ॥ वाहनेषु समारोप्य नीयन्त्यन्ये च बन्धुभिः ॥ ६५ ॥ शिबिराय महाराज शतशोऽथ सहस्रशः ॥ अन्ये संवृत्य चात्मानं भीता जग्मुरुपह्वरम् ॥ ६६ ॥ जलाथर्मन्ये च नरा बान्धवैश्च प्रचोदिताः ॥ आगम्य दृष्ट्वा च मृतं भाण्डं भङ्क्त्वा विचुक्रुशुः ॥ ६७ ॥ हतबन्धुन्महादत्य स्वामिकार्यकतत्पराः ॥ परानभिमुखान्नेव तत्रायुध्यन्त मानवाः ॥ ६८ ॥ युध्यतामेव तेषां तु शतशोऽथ सहस्रशः ॥ उत्थितानि रणे यानि कबन्धानि महीपते ॥ ६९ ॥ कश्चिन्नर्ननं समरे कबन्धस्तु धनुर्धरः ॥ गदापाणिस्तथैवान्यः खड्गचर्मधरोऽपरः ॥ ७० ॥ पश्चद्वचरः कश्चित्प्रासपाणिस्तथा परः ॥ नृत्यत्कबन्धभूयिष्ठे देवदुन्दुभिनादिते ॥ ७१ ॥ प्रवर्तमाने संग्रामे शूराणां स्वर्गलोकदे ॥ व्यदृश्यन्त महाराज पिशाचा घोरदर्शनाः ॥७२॥ राक्षसाश्च महाकायाः क्रव्यादाश्च तथा परे ॥ जगाम चास्तं सविता तदा रक्तवपुर्धरः ॥ संग्रामात्सर्वयोधानां पीत्वेव रुधिरं करैः ॥७३॥ ततोऽस्तरशैले भगवत्यथार्के गते जपापुष्पकदम्बकाभे ॥ सेनाद्वयं तच्छिविराय यातं कृत्वावरोहं परबाणतप्तम् ॥ ७४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे संकुलयुद्धो नाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥ मार्कण्डेय उवाच ॥ निशावसाने गन्धर्वाः कृत्वा व्यूहं सुदुर्जयम् ॥ संप्रतीक्ष्यन्त भरतमायान्तं रणकोवि- दम् ॥ १ ॥ भरतोऽपि च राजन्ये वज्रव्यूहेन दंशितः ॥ आससाद महत्सैन्यं गन्धर्वाणां सुदुर्जयम् ॥ २ ॥ ततः प्रवृत्ते युद्धं यमराष्ट्रविवर्द्धनम्॥ देवासुरसमप्रख्यं त्रैलोक्यभयकारकम् ॥ ३ ॥ पत्तीनां पत्तिभिः सार्धं सादिनां चैव सादिभिः ॥ रथिनां रथिभिश्चैव कुञ्जराणां च कुञ्जरैः ॥ ४ ॥ भाषतां नामगोत्राणि शूराणां चैव गर्जताम् ॥ धनुषां कूजतां चैव शब्दः समभवत्तदा ॥ ५ ॥ ततः प्रवृते संग्रामे भरतः पुष्करो रणे ॥ आससाद विशालाक्षं गन्धर्वं रणगर्वितम् ॥ ६ ॥ तक्षश्च भारतिः श्रीमान्युयुधे वीरबाहुना ॥ सेनानीर्विजयः श्रीमान्सुमित्रश्च तमागतः ॥ ७ ॥ भूमन्युः कौरवः श्रीमान्कामपालेन संगतः ॥ किरातराजो दमनश्चन्द्रपीडेन संगतः ॥ ८ ॥ प्रभद्रकेण
३८
वि० ध०
॥१६३॥
प्र० खं०
अ० २६१
शिविना तथैवाजिकरो रणे ॥ महोदयः सुनिद्देशो हरिकेशेन संगतः ॥ ९ ॥ ऐगंतो वसुदानश्च सूर्य्यश्मिश्च संगतौ ॥ गन्धर्व्वः
कुमुदार्जुनः कुलूताधिपतिर्जयः ॥ १० ॥ चक्रतुस्तुमुलं युद्धं देवासुरसमं तदा ॥ दाशेरकस्तथा राजा यवनो वाशनः परः ॥ ११ ॥
एकलव्यश्च संग्रामे तेनासीत्सुमहात्मना ॥ कुमुदः शोणिना श्रृंगे बलबन्धुः सुयोधनः ॥ १२ ॥ गन्धर्व्वः पञ्चभिः पञ्च पार्व्वतीयाः समागताः ॥
बलाकाबलाकाभ्यां तु गदिना मौलिना तथा ॥ १३ ॥ कुमुदेन तु वीरेण सदश्वैर्त्तानवर्त्तिना ॥ मद्रराजोऽङ्गमाभ्राघ्नं चतुर्भिः संगतो रणे ॥ १४ ॥
भीमनादमहानादवृषपद्मगणजत्करैः ॥ दार्वः श्रुतञ्जनः श्रीमानभिमानः कृतञ्जयः ॥ १५ ॥ युद्धं तौ चक्रतुर्वीरौ सहितौ चन्द्रवर्मणा ॥ काश्मीरकः
सुबाहुश्च गन्धर्व्वेण सुबाहुना ॥ १६ ॥ चकार तुमुलं युद्धं भीरूणां भयवर्द्धनम् ॥ भरतस्यापरे योधा गन्धर्व्वाभीमविक्रमैः ॥ १७ ॥ समागतास्तदा
युद्धे शतशोऽथ सहस्रशः ॥ भरतश्च महातेजाः शैलूपेण समागतः ॥ १८ ॥ चकार तुमुलं युद्धं सर्व्वभूतभयङ्करम् ॥ पर्व्वताभेन नागेन त्रिधा
प्रस्रवता मदम् ॥ १९ ॥ बाधमानमरीन्संख्ये महेन्द्रमिव दानवान् ॥ विशालो वारयामास रथेनाभ्येत्य पुष्करम् ॥२०॥ वाणौघेन रणे भित्त्वा
वेगं पुष्करदन्तिनः ॥ पुष्करं ताडयामास नाराचैर्बहुभिस्तदा ॥ २१ ॥ द्विषन्निस्ताड्यमानस्तु भारनिर्भीमविक्रमः ॥ ववर्ष शरसंघातैर्विशालं
सेनया सह ॥ २२ ॥ पुष्करस्य विशालोऽथ मध्ये चिच्छेद कार्मुकम् ॥ छिन्नधन्वा विशालस्य स जघानाथ सारथिम् ॥ २३ ॥ आक्रम्य
योधयामास विशालस्य महारथम् ॥ यदा रणे महाराज पुष्करस्य रथोत्तमम् ॥ २४ ॥ हन्तुं स रथमुत्सृज्य विशालीपि महीपतेः ॥ गदया
योधयामास पुष्करस्य तु वारणम् ॥ २५ ॥ पुष्करोऽपि गदापाणिर्विशालाभिमुखं ययौ ॥ गदाभिस्तौ ततो वीरौ परस्परजिगीषया ॥ २६ ॥
सव्यदक्षिणतस्तत्र मण्डलानि विचेरतुः ॥ प्रजहतुस्तथान्योन्यमन्योन्यस्य वधैषिणौ ॥ २७ ॥ पुष्करेण रणे वेगाद्विशालस्य गदा हता ॥
मुमोच पावकं तीक्ष्णं सस्फुलिङ्गं महीपते ॥ २८ ॥ विशालेन ततो युद्धे गदया पुष्करो हतः ॥ हिमवत्सदृशश्चास्तु न चचाल पदात्पदम् ॥२९॥
पुष्करेण महाराज विशालो गदया हतः ॥ ततः शैलप्रवचनान्महामात्रमचोदियन् ॥ ३० ॥ आरुरोह महानागं विशालो रणार्दितः ॥ आरुह्य
रथं श्रीमानन्वर्थस्य च पुष्करः ॥ ३१ ॥ तावेकस्थानामारूढा तदा गजेन्द्रपुष्करौ ॥ निजघ्नतुर्विशालस्य संग्रामे वरवारणम् ॥ ३२ ॥ त्यक्त्वावाजौ
तं नागत्य कुञ्जरान्रिपतिक्ष्वतः ॥ चिच्छेदाथ विशालस्य शिरो ज्वलितकुण्डलम् ॥ ३३ ॥ हत्वा विशालं संग्रामे रथमारुह्य चापरम् ॥ छादया
मास तत्सैन्यं गन्धर्वाणां शरोत्करैः ॥ ३४ ॥ विशालं निहतं दृष्ट्वा रुद्रः परमकोपनः ॥ सादी जघान प्रासेन गान्धारं रणगर्वितम् ॥ ३५ ॥
॥१६३॥
तस्य चिच्छेद गान्धारः समाप्तं तु भुजद्वयम् ॥ शिरश्च सशिरस्त्राणं क्षुरेण महीपते ॥ ३६ ॥ ततो रथेन शुभ्रेण किङ्किणीजालमालिना ॥ आसाद वाहबाहुं वीरबाहुं गणाजिरे ॥ ३७ ॥ एकच्छत्रं इवाकाशस्तयोररासीच्छरोत्करैः ॥ न वाति पवनस्तत्र न विभ्राजति भास्करः ॥ ३८ ॥ ततः समुद्धमाकृष्य बाणं भास्करसन्प्रभम् ॥ चिच्छेद सारथस्तस्य शिरो ज्वलितकुण्डलम् ॥ ३९ ॥ निर्धन्चुना रथेनासो समरादपवाहितः ॥ तस्मिन्पराजितप्रीते तक्षं कुञ्जरधूर्गतः ॥ ४० ॥ आजगाम महाराज गन्धर्वस्तु सुदर्शनः ॥ तस्यापतितमात्रस्य शरेण नतपर्वणा ॥ ४१ ॥ अन्याड- च्छिच्छेद नागसूर्धानं मारुतिर्भीमविक्रमः ॥ सेनानीर्विजियः श्रीमान्सुमित्रश्च समागतौ ॥ ४२ ॥ सारथिं तुगान्नेकंतमुदहश्यं चक्रतुः शरैः ॥ अन्योड- न्यस्य महाराज समरे भीमावक्रमौ ॥ ४३ ॥ चतुर्भिः सायकेर्नत्वा नमुचेः स तुरङ्गमान् ॥ पञ्चमेन शिरः कायाज्जहार रथसारथेः ॥ ४४ ॥ नमुचिर्विरथः खड्गमादाय परवीरहा ॥ जगामाभिमुखस्तूर्णं सेनापतिमरिन्दम् ॥ ४५ ॥ वेगेनापततस्तस्य चक्रमादाय भास्करम् ॥ विवृताक्षन्तु चिच्छेद तस्य मूर्धानमजसा ॥ ४६ ॥ भूमन्युः कामपालञ्च चक्रतुर्युद्धमुत्तमम् ॥ यथा देवासुरे युद्धे बलरक्षौ महाबलौ ॥ ४७ ॥ तावुभौ कुजङ्गारूढौ परस्परवधैषिणौ ॥ तोमरैश्चक्रतुर्युद्धं सुयोधांसुसदप्रभैः ॥ ४८ ॥ युद्ध्यतामेव तेषां तु भूमन्युर्वरवारणः ॥ पार्श्वे जघान दन्ताभ्यां कामपालस्य वारणम् ॥४९॥ सहितस्तेन नागेन कृत्वा रावं भयानकम् ॥५०॥ आसीत्पराङ्मुखो युद्धे वर्त्तमानः स्वके बलम् ॥ कामपालं रणे जित्वा भूमन्युर्भीमविक्रमः ॥५१॥ गन्धर्वसेनां सहसा जघान निशितैः शरैः ॥ किरातराजो दमनञ्चन्द्रापीडञ्च संगतो ॥ ५२ ॥ चक्रतुस्तुमुलं युद्धं समरे रथधूर्गतौ ॥ चन्द्रापीडशरातनितहतौ वार्विणस्सारथी ॥ ५३ ॥ किरातराजस्तूरूणाणां स्वयं रश्मिसंग्रहोऽभवत् ॥ विव्याध स शरांचैतञ्चन्द्रा- पीडं रणे तदा ॥ ५४ ॥ चन्द्रापीडशराश्चतैः कृतापीड़ो रणाजिरे ॥ जघान तुगान्तातस्य दमनस्य महीपतेः ॥ ५५ ॥ शक्त्या वेगाच्च विव्याध तदा तं भीमविक्रमम् ॥ शक्त्या विभिन्नहृदयः पपात वसुधातले ॥ ५६ ॥ जघान भारतं सैन्यं चन्द्रापीडोऽपि सायकैः ॥ आरोष्य स्वरेथे वीरं मत्रुमान्दमनं तथा ॥ ५७ ॥ चकार विरजं शीघ्रमव्रणं च महौषधैः ॥ युयुधे च निकुम्बेन मत्स्यराट् सरथस्तथा ॥ ५८ ॥ रथस्थितो महावीरो वरचापमहाकरौ ॥ अन्यांड्न्यं शरवर्षेण छादयंतां घनाविब ॥ ५९ ॥ सुरथस्तु निकुम्भस्य शरेण नतपर्वणा ॥ चापमुष्टौ प्रचिच्छेद भुजदण्डं तथाहवे ॥ ६० ॥ निकुम्भोऽपि प्रचिच्छेद सुरथस्य तु कार्मुकम् ॥ तावन्ये धनुषी सज्ये कृत्वा वीरौ परस्परम् ॥ ६१ ॥ छादयंतां तथा न्योन्यं वीरौ सायकमृष्टिभिः ॥ अन्योऽन्यस्य हयान्दत्वा चिच्छेद धतुषी ततः ॥ ६२ ॥ हयान्तरभ्यां कालस्य निर्जत्यावशमोजसा ॥
वि० ध० ॥१६४॥ प्र० खं० अ २६१
धनुषो मध्यभागे तु अन्योऽन्यस्य न्यकृन्तताम् ॥ ६३ ॥ विध्वावधिसमुद्भाव चक्रतुर्यत्नमुत्तमम् ॥ आदाय विपुलं चर्म शतचन्द्रं च भास्व- रम् ॥ ६४ ॥ आदधाते खड्गवरान्योऽन्यवधकांक्षिणौ ॥ खड्गमाकाशसदशमन्योऽन्यं प्रविवेशतुः ॥ ६५ ॥ मण्डलानि विचित्राणि गतमत्याग- तानि च ॥ केशिकांनि तु मार्गानि दर्शयामासतुस्तदा ॥ ६६ ॥ भ्राम्नुखङ्गान्तमाविद्धामाप्लुतं विसृतं सततम् ॥ संपातं समुदीर्णं च खड्गचर्मविदार- णम् ॥ ६७ ॥ ईक्षितप्रीतिजननं युद्धमासीत्तयोस्तदा ॥ कृत्वा तौ सुचिरं युद्धं परस्पररणे हतौ ॥ ६८ ॥ जग्रहेतुर्वपुषां वञ्चाच्चक्रापसमावुभौ ॥ ततः स्वरथमारोप्य सुरथो रथिवर्धनः ॥ ६९ ॥ तस्माद्देशादपावाह्य सर्वसैन्यस्य पश्यतः ॥ निकुम्भे चाथ समरे सुरथेन तदा रपा ॥ ७० ॥ गोवासनेन साल्वेन त्वरमाणः समागतः ॥ वाणजालेन समरे चक्रतुर्युद्धं सुभैरवम् ॥ ७१ ॥ तावुभौ रथिनौ वीरौ रेजतुर्दिव्यधन्विनाँ ॥ ततस्तः शरवांस्तस्तदान्योऽन्यं तथान्वितौ ॥७२॥ अन्योन्यस्य स्यान्दत्वा छित्त्वा च धनुषी तथा॥ विरथो चक्रतुर्युद्धं गदाभिरितरेतरम् ॥ ७३॥ विचरन्तौ संग्रामे गदाहस्तौ मदोद्धतौ ॥ वासितार्थे वने मत्तौ कुञ्जराविव यूथपौ ॥७४॥ सुचिरं तौ तदा युद्धं कृत्वा व्यायामकांपिनौ ॥ प्रहार वस्रसंतप्तौ जग्मतुर्बुसुधातलम् ॥ ७५ ॥ विह्वलौ रथयोः कृत्वा नीतौ तौ स्वस्वसैनिकैः ॥ विरजौ च कृत्वा भूयो रणशीर्षमुपागतौ ॥ ७६ ॥ प्रभञ्जकक्ष संग्रामं चक्राराजगरणेण ह ॥ ईक्षितप्रीतिजननं शूरशंखादिताम्बरम् ॥ ७७ ॥ मुमुचे वर्तमानस्य तदा राजा प्रभञ्जनः ॥ विच्छेदाङ्गर- स्याजौ शिरो ज्वलितकुण्डलम् ॥ ७८ ॥ महोदयः कुणिदेशो हरिकेशस्य संयुगे ॥ गजेन पाथयामास सुरथं स्यथमागथिम् :७९ ॥ हताश्वस्थ मुत्सृज्य गद्या सुदृढं रणे ॥ हरिकेशं महाबाह्रं चकार गतजीवितम् ॥ ८० ॥ त्रेगतौ वपुथानश्च मयूरिमिश्च संगतो ॥ चक्रतुत्सुसुलं युद्धं वलि- शक्राविवापरौ ॥८१॥ कृत्वा तौ सुचिरं युद्धं परस्परसमाहतौ ॥ विचेतसौ स्थापयथे निपेदतुर्गन्दिनमौ ॥ ८२॥ विमंशो तु तदा नीतो मार्गार्थम्यां रणाजगात् ॥ गन्धर्वः कुसुदापीडः कुलताधिपतिर्जयः ॥८३॥ चक्रतुत्सुसुलं युद्धं देवासुरसमं तदा ॥ अन्याऽन्यस्य स्यानदन्त्वा छित्त्वा च धनुषी दढे ॥ ८४ ॥ खड्गयुद्धं चिरं कृत्वा छिन्नखड्गौ परस्परम् ॥ नियुद्धं चक्रतुर्वीरो बाहुद्राविणशालिनौ ॥ ८५ ॥ नियुद्धस्यावसाने तु कुलताधिपतिं जयम् ॥ गन्धर्वः कुसुदापीडो निष्पिपेष महीतले ॥ ८६ ॥ ततः खङ्गं रथादाय शिरश्छेतुं समुद्यतः ॥ नृशंसं तं समालोक्य सेनापतिमरिन्दम ॥ ॥ ८७ ॥ विजयन्तस्य मूर्धानं पातयामास भूतले ॥ दशरक्ततया राजा यश्च गोवासननेशनः ॥ ८८ ॥ एकलव्यस्य संग्रामं तैरासीत्सुमहा- ॥१६४॥
१ 'वंगचर्म' इति क० । २ 'दृढखड्गसमावुभौ' इति ख० ।
त्मनः ॥ तस्यैकव्यस्तुरगञ्चाथ शिलीमुखैः ॥ ८९ ॥ गदया पातयामास स च तस्य तुरङ्गमान् ॥ तयोर्विथयोर्भृत्यैर्नृपनीतो तुरङ्गमा ॥ ९० ॥ पृष्ठतश्च तथा रूढौ वप्रमासधरादुभौ ॥ प्रासाविभ्रामणोत्क्षेपपरिवर्त्तिविवर्त्तनौ ॥ ९१ ॥ चक्रतुस्तुमुलं युद्धं चित्रं लघु च सुष्ठु च ॥ मण्डलानि विचित्राणि तयोश्चक्रुस्तुरङ्गमाः ॥ ९२ ॥ ईक्षितॄणांप्रीतिजननं चिरं कृत्वा ततो रणम् ॥ अन्योन्यव्याभिहतौ पेततुस्तुरगावभौ ॥ ९३ ॥ भृत्यैश्च रथमारोप्य समरादपवाहितौ ॥ कुमारः श्रेणिमाञ्छूरो बलबन्धुः सुयोधनः ॥ ९४ ॥ गन्धर्वः पञ्चभिः पञ्च पर्वतीयाः समागताः ॥ बलाकाबलकाभ्यां तु गर्दिना मालिना तथा ॥ ९५ ॥ कुमुदेन च वीरेण समरेर्न्निविवर्त्तिता ॥ चतुर्भिः सायकैस्तीक्ष्णैः कुमारी बलदर्पितः ॥ ९६ ॥ हयांश्चकार निर्जीवान्वलकस्य महात्मनः ॥ हताश्वरथमुत्सृज्य बलकाद्भ्रातुरग्रसा ॥ ९७ ॥ आरुरोह रथं श्रीमद्वलकस्य समुद्यतम् ॥ तावेकरथमारूढौ भ्रातरौ समप्रभौ ॥ ९८ ॥ छादयामास विशिखैः कुमारी बलदर्पितः ॥ बलकस्तु कुमारस्य मध्ये चिच्छेद कार्मुकम् ॥ ९९ ॥ स छिन्नधन्वा वेगेन गदामादाय वेगवान् ॥ तामादाय जघानाथ बलाकं समरप्रियम् ॥ १०० ॥ बलक निहतं दृष्ट्वा गेषाह्नु निनवर्त्तयन् ॥ कुमारं प्रति चिक्षेप वलकश्चैव तोमरम् ॥ १०१ ॥ तोमरेण च निर्भिन्नो रथोपास्थ्य उपाविशत् ॥ तं विसंज्ञमथोवाह सारथिर्हयपानवित् ॥ १०२ ॥ श्रोणमानम्य संक्रुद्धो बलकस्य तदा रणे ॥ क्षुरपर्यन्तधारेण चक्रेणापहृच्छिरः ॥ १०३ ॥ निपातितोऽथ तत्रैव शूर्पण गदया गदी ॥ तं निहत्य तदा शूरो मौलिनः सारथिं रणे ॥ १०४ ॥ गदया पोथयामास मेरुगोरिववा तदा ॥ कुमुदस्य जघानाथ गदया स तुरङ्गमान् ॥ १०५ ॥ हताश्वं रथमुत्सृज्य कुमुदो गदिनो रथम् ॥ आरुरोह तदा शीघ्रं खड्गवाणधनुर्धरः ॥ १०६ ॥ रथाद्रुढस्य तस्याथ वलकश्च महारथः ॥ जघान चतुरो वाहांश्चतुर्भिरस्मिसायकैस्तदा ॥ १०७ ॥ जहाग पञ्चमेनाथ शिरस्तस्य सकुण्डलम् ॥ सारथिं तु रथात्तस्मान्मौलिनो रथमुत्तमम् ॥ १०८ ॥ हतसारथिनि पूर्वमारुरोह महारणे ॥ मौली युद्धाय तस्थौ च महाबलपराक्रमः ॥ १०९ ॥ आरुह्य स रथं दिव्यं किङ्किणीजालनादितम् ॥ ततः स मोलिनाक्रान्तः सुयोधनरथो रणे ॥ ११० ॥ अवाकिरद्मेयात्मा शरैस्सप्ततपर्वभिः ॥ सुयोधनोऽपि विक्षिप्य मौलिनं मौलिभूषितम् ॥ १११ ॥ जहार सशिरस्त्राणं शिरो ज्वलितकुण्डलम् ॥ मदराजोऽग्रुमात्रा म चतुर्भिः सायकैस्तीक्ष्णैः ॥ ११२ ॥ भीमनादमहानादवसुमेषरुजाकरैः ॥ चत्वारस्ते महाराज मदरजास्य सायकैः ॥ ११३ ॥ निजघ्नुश्चतुरो वाहान्सारथिं च तथा रणे ॥ अंशुमान्नाथमुत्सृज्य गदामादाय वीर्यवान् ॥ ११४ ॥ जघान चतुरो वाहान्भीमनादस्य संयुगे ॥ सारथिं पोथयामास महानादंञ्चतस्तथा ॥ ११५ ॥ गताश्वं रथमुत्सृज्य गदावेगेन यादव ॥ महोद्यत्य तं नागं पोथयामास वीर्यवान् ॥ ११६ ॥
प्र० सं० अ० २९
सारथिर्भीमनादस्य महानादरथं ययौ ॥ भीमनादं च गदया निजघानार्थ मद्रराट् ॥ ११७ ॥ स मद्रराजो गदया समरे ताडितो भृशम् ॥ जगाम त्रिदिवं राजंस्त्यक्त्वा देहं गणाधिपः ॥ ११८ ॥ महानादोऽपि समरे सायकैर्व्योमवाहिभिः ॥ बिभेद मद्रराजानं शतशोथ सहस्रशः ॥ ११९ ॥ स बाध्यमानो नाराचैर्भीमनादसुतश्च्युतैः ॥ आरुरोह रथं शीघ्रं वसुषेणस्य सत्वरः ॥ १२० ॥ रंथमारूढ्य वेगेन गदया भीमवेगया ॥ चकार युद्धे निर्जीवं वसुषेणं समरप्रियम् ॥ १२१ ॥ अवक्रुह्य रथात्तस्माद्दहृद्या भीमवेगया ॥ गजाकरस्य तुरगान्त्सारथिं चाहनद्दृशम् ॥ १२२ ॥ हतेषु तेषु राजेन्द्र तदा वीरो गजाकरः ॥ अन्यं तं तु समारुह्य भूय एव तदंगुमात् ॥ १२३ ॥ चकार युद्धे निर्जीवं गान्धर्वं तं गजाकरम् ॥ उत्पलुत्य तुरगा त्तस्मान्महानादरथं गतः ॥ १२४ ॥ गदया पोथयामास महानादं तदा रणे ॥ रोपादूर्णिकुशं कृत्वा कुञ्जरं भरताज्ञया ॥ १२५ ॥ आच्छिन्न निजघान नाथ गन्धर्वाञ्च्शतशो रणे ॥ शूर्वः श्रुतञ्जयः श्रीमानभिसारः कृतञ्जयः ॥ १२६ ॥ युद्धे तौ चक्रतुर्वीरो सहितौ चन्द्रवर्मणा ॥ चन्द्रवर्मा महातेजाः श्रुतञ्जयमथाच्छिनत् ॥ १२७ ॥ शरेण पातयामास वट्वृक्षमिवोच्छ्रितम् ॥ श्रुतञ्जयोपि संक्रुद्धश्चन्द्रवर्मकरस्थितम् ॥ १२८ ॥ द्विधा चकार तीक्ष्णेन सायकेन महद्धनुः ॥ तं चिन्नधन्वनं वीरं शरैः सप्ततपर्वभिः ॥ १२९ ॥ छादयामास समरे पार्वतीयः कृतञ्जयः ॥ चन्द्रवर्मा समादाय ततः शक्तिं सुदारुणाम् ॥ १३० ॥ बिभेद समरे राजन्भ्रातारं तं कृतञ्जयम् ॥ सविभिन्नस्तया शक्त्या रथोपस्थ उपाविशत् ॥ १३१ ॥ तं विसञ्ज्ञमपावाह संग्रामाद्रथ सारथिः ॥ कृतञ्जयं महाराज रणे दृष्ट्वा विचेतसम् ॥ १३२ ॥ सकुण्डलं समुत्कूटं चारुचन्द्रसमप्रभम् ॥ शिरश्चिच्छेद तीक्ष्णेन सायकेन महात्मना ॥ १३३ ॥ समरे यतमानम्य सुभृशं चन्द्रवर्मणा ॥ काश्मी रकः सुबाहुश्च गन्धर्वण सुबाहुना ॥ १३४ ॥ चकार तुमुलं युद्धं भीरुणां भयवर्धनम् ॥ उभौ तौ तरुणा वीरावुभौ समरदुर्मदौ ॥ १३५ ॥ दर्शनी यावुभौ वीरावुभौ बाणपद्यवेगो ॥ तावुभौ महसां वीर्ये शम्बरान्मगजाजयोः ॥ १३६ ॥ उभौ प्रकोपितो तर्योमा दृढविक्रमा ॥ चिच्छिदुस्ते तथा न्योन्यं ध्वजच्छत्रे नराधिप ॥ १३७ ॥ अन्योन्यस्य हयान्हत्वा तथोभौ पाणिंसारथी ॥ अन्यान्त्यं धनुषी छित्त्वा सुदृढं समरप्रियो ॥ १३८ ॥ कृत प्रतिकृतं चैव कुर्वाणी भीमविक्रमौ ॥ विरथावसिमुद्यम्य चक्रतुर्येनलमुत्तमम् ॥ १३९ ॥ असियुद्धे चिरं कृत्वा खड्माविध्य सत्वरः ॥ पातया मास मूर्धानं गन्धर्वस्य नराधिप ॥ १४० ॥ आरुरोह रथं चान्यं सुशीर्णं भरताज्ञया ॥ तत्राद्रुढस्म गन्धर्वाञ्जघान शतशो रणे ॥ १४१ ॥ एतस्मि न्नन्तरे क्रुद्धः शल्यः स सहायवान् ॥ चकार युधि निर्जीवान्रथनागतुरङ्गमान् ॥ १४२ ॥ बभूव भारती सेना शल्येनोपप्रमर्दिता ॥ निदाघे पुष्पश
वि० ध० ॥ १६६ ॥
बलार्द्दितेव पद्मिनी ॥ १४३ ॥ एतस्मिन्हन्यते सैन्ये कश्चिन्नासीन्महारथः ॥ प्रत्युद्ययौ यः समरे शैलूषं रणकर्कशम् ॥ १४४ ॥ शैलूषशर- सम्पातरुद्धगोमण्डले रवौ ॥ न प्राज्ञायत राजेन्द्र तदा किञ्चिद्रणाजिरे ॥ १४५ ॥ अश्रूयत महाञ्छब्दस्तालानां पततामिव ॥ नराणाञ्चाप्यक- ङ्गेभ्यो विस्रंसुः शोणितापगाः ॥ १४६ ॥ एवं तु भारतं सैन्यं काल्यमानमितस्ततः ॥ शैलूषेण महाराज भरतं शरणं ययौ ॥ १४७ ॥ भरतोऽपि महातेजा दृष्ट्वा शैलूषमागतम् ॥ प्रत्युद्ययौ रथेनाजौ किङ्किणीजालमालिना ॥ १४८ ॥ ततस्तौ चक्रतुर्युद्धं घोररूपं भयानकम् ॥ त्रैलोक्यविजय्यासक्तौ ययोभौ बलिवासवौ ॥ १४९ ॥ गन्धर्वराट् ततः क्रुद्धः सिंहनादंनदन्मुहुः ॥ भरतस्य रथं तूर्ण शरवर्षैरवाकिरत् ॥ १५०॥ क्रमेण शरग्रस्तस्य सरथः सह सारथिः ॥ शरवर्षेण महता संछन्नो न प्रकाशितः ॥ १५१ ॥ युधाजित्त्वथसम्प्राप्तो धैर्यमासाद्य वीर्यवान् ॥ चोदयामास तानश्वान्विस्पृशन्प्रियसायकैः ॥ १५२ ॥ भरतोऽथ धनुर्गृह्य दिव्यं जलदनिःस्वनम् ॥ शैलूषस्य द्विधा चक्रे क्षुरेण महद्धनुः ॥ ॥ १५३ ॥ गन्धर्वश्छिन्नधन्वा स पुनरन्यन्महद्धनुः ॥ निमेषान्तरमात्रेण सज्जं चक्रे महाबलः ॥ १५४ ॥ विचच्छेद ततो दोर्भ्यां चिक्षेप च ततः शरान् ॥ अथास्य तदपि क्रुद्धश्छिच्छेद भरतो धनुः ॥ १५५ ॥ तस्य तत्पूजयामास लाघवं त्रिदशाधिपः ॥ शैलूषोऽपि ततः क्रुद्धः प्रगृह्यान्य- न्महद्धनुः ॥ १५६ ॥ सुमोच समरे बाणान्भरतस्य रथं प्रति ॥ युधाजिन्मातुलस्तस्य सह यानेन लाघवम् ॥ १५७ ॥ दर्शयामास समरे मोघां न्कुर्वञ्छरव्रजान् ॥ तुरगांश्चोद्यमानांस्ते मण्डलानिच बभ्रमुः ॥ १५८ ॥ यथातथा शरव्राता मोघा यान्ति महीतलम् ॥ भरतोऽपि महातेजा मण्डलीकृतकार्मुकः ॥ १५९ ॥ वीरकेतुं शरव्रातैर्विद्ध्वाथ रणमूर्धनि ॥ ताडितं सारथिं दृष्ट्वा वीरकेतुं तथा सुतम् ॥ १६० ॥ गन्धर्वस्ताडयामास सायकैस्तु युधाजितम् ॥ युधाजिति महाबाहौ समरे भृशविक्षते ॥ १६१॥ विचच्छेद च्छत्रं बाणेन शैलूषस्य तु राघवः ॥ द्वितीयेन तु बाणेन लसन्तं ध्वजमुच्छ्रितम् ॥ १६२ ॥ तृतीयेन धनुर्मुष्टौ तथा जलदनिःस्वनम् ॥ स च्छिन्नधन्वा वेगेन शक्तिमादाय सत्वरः ॥ १६३ ॥ विव्याध भृशं वीरं भुजे वामे नराधिप ॥ प्रहारवरभिन्नस्य भरतस्य महात्मनः ॥ १६४ ॥ करात्पपात वेगेन चापञ्चापवरस्य च ॥ अथान्यद्धनुरुद्गृह्य भरतो रघुनन्दनः ॥ १६५॥ शरैरनेकैस्साहस्रैर्गन्धर्वं तमवाकिरत् ॥ पातयामास च तथा कवचं रत्नभूषितम् ॥ १६६॥ आपदं परमां प्राप्तः शैलूषोऽथ सत्वरः॥ आग्नेयमस्त्रं चिक्षेप भरतं प्रति वीर्यवान् ॥ १६७ ॥ वारुणेन तदस्त्रं तु शमयामास राघवः ॥ वायव्यमस्त्रं शैलूषस्तदा चिक्षेप पार्थिव ॥ १६८ ॥ शैलास्त्रेणाथ भरतः शमयामास तत्पुनः ॥ शैलास्त्रमथ चिक्षेप गन्धर्वपतिस्तथा ॥ १६९ ॥ वज्रेणास्त्रेण तत्क्रुद्धः शमयामास राघवः ॥ उत्सृ-
वि० ध० ॥१६६॥
पृ० सं० अ० २६२
ससर्ज ततो राजा ब्रह्मास्त्रं प्राणसंशये ॥ १७० ॥ काकुत्स्थः शमयामास ब्रह्मास्त्रेणैव तत्तदा ॥ अस्त्रयुद्धे व्यतिक्रान्ते क्रोधादारुणलोचनः ॥ १७१ ॥
जघान चतुरो वाहान्भरतस्य स सायकैः ॥ वीरकेतोश्च चिच्छेद शिरो ज्वलितकुण्डलम् ॥ १७२ ॥ तस्य गदाञ्च चिच्छेद मुकुटं रत्नभूषितम् ॥
उवाच भरतश्रेष्ठः शैलूषं प्रहसंस्तदा ॥ १७३ ॥ कृतकर्मा रणश्रांतो गच्छाद्य स्वं निवेशनम् ॥ तत्र गत्वा ततो याहि पर्वतं गन्धमादनम् ॥ १७४॥
अन्यथा श्वो न मे जीवन्गन्तासि रणमूर्धनि ॥ अस्तं च सविता याति कृतकर्मा दिनक्षये ॥ १७५ ॥ दृष्ट्वा शिविरमेवैव गमिष्यामो जना-
धिप ॥ एतावदुक्त्वा शैलूषं चोत्सृज्य भरतस्तदा ॥ कृत्यावहारं प्रययौ शिबिरायैव यादव ॥ १७६ ॥ गन्धर्वराजोऽप्य गृहं प्रविश्य
निश्चित्य कार्यं मरणाय बुद्धिम् ॥ कृत्वा रणायैव मनश्चकार गतिं तथैवाह गृहे नरेन्द्रः ॥ १७७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे सा० वज्रसं-
वादे द्वन्द्वयुद्धवर्णनं नामैकषष्ट्युत्तराद्विशततमोऽध्यायः ॥ २६१ ॥ मार्कण्डेय उवाच ॥ ततो जन्यां व्युष्टायां गणे मुनिवरोऽब्रवीत् ॥ गच्छन्तु
विना व्यूहं भरतं प्रत्युदीक्षतः ॥ १ ॥ भरतोऽपि महातेजाः कृतपूर्वाह्निकक्रियः ॥ निर्गम्य नगरात्सर्वान्पार्थिवानेतदब्रवीत् ॥ २ ॥ गच्छध्वमग्रतो
युद्धं मम बुद्ध्या न रोचते ॥ एक एव समर्थोऽहं युष्माकं तेजसा नृपाः ॥ ३ ॥ हन्तुं गन्धर्वसैन्यं तद्बहिः पार्थिवास्तिष्ठत ॥ युध्यमानान्मृधे त्व-
रक्षितव्या मया रणे ॥ ४ ॥ सकलोऽन्ततो भूपानंतेऽज्ञातोऽस्मि धावितुम् ॥ भवतामार्जवं युद्धे गन्धर्वाः कूटयोधिनः ॥ ५ ॥ अद्य गत्वाऽथ
सर्वान्दिव्यालाग्निप्रतिमन्त्रितैः ॥ घातयिष्यामि भूपालांस्तदज्ञातामर्हथ ॥ ६ ॥ भरतेनैवमुक्तास्तु राज्ञा नो वाग्मिदं वचः ॥ त्वया कृतमस्माकं
रक्ष्यं स्वामिन्नियन्त्रतः ॥ ७ ॥ भवतो ऽगुणं कार्यं समस्तैर्नृपतिाधिपैः ॥ पुच्छंद्रे फलच्छेदो वृक्षः शाखावकर्तनैः ॥ ८ ॥ भूयो वृद्धिमवाप्नोति
मूलच्छेदे विनश्यति ॥ ते वयं भवतां वीर्यं जानन्तोऽपि मृधूदृढ ॥ ९ ॥ नैकं संत्यक्तुमिच्छामो भवन्तं गणपूंवनि ॥ एकैकस्य तथास्माकं
गन्धर्वाणां महद्बलम् ॥ १० ॥ वयं रणे हि पश्यामः किं पुनस्त्वं पार्थिव ॥ किन्तु भृत्येषु तिष्ठत्सु स्वामिनो गहितं रणम् ॥ ११ ॥ ये वयं द्यूत-
विजयामो गन्धर्वानांच सत्वरम् ॥ एवमुक्तो महातेजा भरतो नृपसत्तमैः ॥ १२ ॥ वाग्ग्न्यामान सान्त्वन ततस्तृ वतुथाविषातः ॥ ज्ञापिताः स्थ
मम प्राणे राज्ञो रामस्य चाप्यथ ॥ १३॥ अद्यैव विनिवर्तध्वं मृगामातृप्रथिविक्षितः ॥ संयंतैश्च महद्युद्धं पश्यद्भिरिमं पार्थिवः ॥ १४ ॥ इत्यवमुक्ताः
कृच्छ्रेण एवं मुक्ता नराधिपाः ॥ एकान्तत्याः सुमन्नाद्धा दृष्टुमुत्तमसङ्गरम् ॥ १५ ॥ एकस्य च बहूनां च घमत्रावूद्विवर्धनम् ॥ स्थेद कश्चननाङ्गेन
किङ्किणीजालमालिना ॥ १६ ॥ युधाजिता गृहीतेन ततोयायाद्बदचारिणा ॥ चञ्चद्ध्वजपताकेन कोविदारध्वजेन च ॥ १७ ॥ आसाद्य नृपे
॥१६६॥
यश्चान्यान्यव्रणान्कर्कशान् ॥ शरैः सञ्छादयामास गभस्तिभिरिवांशूमान् ॥ १८ ॥ एतस्मिन्नेव काले च महसा गगनच्युता ॥ उल्का पपात मध्येन भित्त्वा सूर्यस्य मण्डलम् ॥ १९ ॥ आसीद्घोरो महीकम्पः शैलूषाङ्गविदारणः ॥ आदित्यमण्डले राजन्कबन्धाश्चाप्यदृश्यत ॥ २० ॥
ववर्ष च तदा देवो गन्धर्वानीकरुष्टिभिः ॥ गन्धर्वाणां च दीप्तायां दिश्यवाशन्त पक्षिणः ॥ २१ ॥ मृगाश्च घोरा राजेन्द्र शिवाश्चाशिवनिःस्वनाः ॥ प्रतिलोमस्तथैवासीद्वायुस्तेषां सुदारुणः ॥ २२ ॥ न्यलीयत तथा गृध्रः शैलूषस्य ध्वजाग्रतः ॥ मृगे पथि निरावाधे प्रस्खलन्तस्तुरङ्गमाः ॥ २३ ॥
शतपत्राश्च चाषाश्च हंसाश्च प्रदक्षिणम् ॥ भरतस्य तदा चक्रुः सव्यो बाहुरथास्फुरत् ॥ २४ ॥ दृष्ट्वा निमित्तांस्तु शुभान्यथाजिगीषुर्महाद्यशाः ॥ चोदयामास तुरगान्गन्धर्वाणां चमूं प्रति ॥ २५ ॥ भरतोऽपि शरौघैर्पातयामास वाहिनीम् ॥ गन्धर्वाणामुदीर्णानां घोरैः शतसहस्रशः ॥ २६ ॥
वध्यमानास्तु गन्धर्वा भरतेन महात्मना ॥ तमेवाभिमुखा जग्मुः शलभाः पावकं यथा ॥ २७ ॥ तेषामापततां राज्ञा शरैः सन्नतपर्विभिः ॥ पातयामास शीर्षाणि भरतो वाहिनीपतिः ॥ २८ ॥ भरतं कोष्ठकीकृत्या गन्धर्वाः सुमहाबलाः ॥ ववृषूरेषुवर्षैस्तीक्ष्णैर्मेघा वृष्ट्येव पर्वतम् ॥ २९ ॥ तान्यायुधानि मुख्यानि गन्धर्वप्रवरैस्तथा ॥ चिच्छेद राजा शरैर्विद्विषां रथांश्चाश्वांश्च सादिनः ॥ ३० ॥ मस्तकान्सशरांश्चापि बाहूनपि च साङ्गदान् ॥ हस्तिहस्तोपरूंश्चिच्छेद भरतो रणे ॥ ३१ ॥ नावचानं न सन्दधानं न मुञ्चन्तं च सायकान् ॥ ददर्श भरतं कश्चिच्छलाद्वाणान्ववर्षिणम् ॥ ३२ ॥ केवलं दृश्यते युद्धे गन्धर्वाणां महाचमूः ॥ दह्यमाना शस्त्रास्त्रैर्युगान्ताग्निरिव ज्वलन् ॥ ३३ ॥ बाणगोचरमायातान्भरतस्य विनिघ्नतः ॥ शस्त्रास्त्रैः सायकैस्तीक्ष्णैर्जगामास्तं दिवाकरः ॥ ३४ ॥ रणे जयं प्राप्य ततो निवृत्तः समागतश्चापि नरेन्द्रसूनुः ॥ प्रयान्महात्मा शिबिराय राजन्संतूष्यमानस्त्रिदशाधिपेन्द्रैः ॥ ३५ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीययुद्धदिवसवर्णनं नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥
मार्कण्डेय उवाच ॥
चतुर्थेऽहनि संप्राप्ते कृतपूर्वाह्निकक्रियः ॥ शैलूषस्तु विनिष्क्रम्य गन्धर्वानिदमब्रवीत् ॥ १ ॥
योधयध्वं रणे सर्वं भरतं रिपुमागतम् ॥ अहं मध्ये प्रवेक्ष्यामि भरतस्य बलार्णवम् ॥ २ ॥
तत्र तान्पातयिष्यामि भरतस्यानुयायिनः ॥ एतदुक्ते ततस्तूत्काः संप्रतीक्षन्त राघवम् ॥ ३ ॥
भरतोऽपि महातेजा रथेनैकेन दृश्यते ॥ भरतस्यानुसैन्यं च भृकुजां समपद्यत ॥ ४ ॥
तत्सैन्यं प्राविशद्घोरो शैलूषो गणदर्पितः ॥ चकार कदनं तत्र नरवाणवाजिनाम् ॥ ५ ॥
गन्धर्वसैन्ये च तथा भरतोऽपि शरोत्करैः ॥ चकार कदनं घोरं वैश्वानरसमप्रभः ॥ ६ ॥
१ 'सशरोत्करैः' इति ख० ।
अन्तरिक्षे शरव्रातैश्चिच्छेदोत्तरिगन्दिमौ ॥ ७॥ सैन्येश्चक्रुः कदनं घोरदर्शनम् ॥ तयोश्चापच्युतौर्बाणैर्निपातितहयाद्विपैः ॥८॥ रणे विससृजुः पाल सवन्त्यो रुधिरनिम्नाः ॥ वहन्त्यो नरदेहानि यक्षराक्षससेविताः ॥ ९ ॥ ताभ्यां मुक्ते शरव्रातैर्गगनं सूर्यरश्मयः ॥ न प्रकाशन्त राजेन्द्र एकच्छात्रं नभस्तले ॥ सैनिकान्व्रातयन्तौ तौ रक्षमाणौ च सारथी ॥ १० ॥ छिन्दमानौ रणे वीरौ पश्युक्तैर्नास्तथायुधान् ॥ जनयामासतुर्वीरौ सुराणामपि विस्मयम् ॥ ११ ॥ तद्युद्धं पूजयामास पुष्पवर्षेण वासवः ॥ तौ प्रबुद्धौ दिनं सर्वं वरबाणधनुर्धरौ ॥ १२ ॥ नासीत्कतरस्यापि रण तस्मिन्पराजयः ॥ ततोऽस्तं भगवत्यर्के प्रयाते पृथिवीपते ॥ परस्परस्यानुमते शिबिरायेव जग्मतुः ॥ १३ ॥ अथोव्युत्सारितं गुहायां प्रविष्टा रात्र्यन्तमासाद्य तदा गणाप ॥ भूयो महेन्द्रोपम संप्रयातौ प्रहृष्यन्तौ स्वबलानि वीरौ ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे भरतशैलूषयुद्धे पञ्चमदिवसयुद्धवर्णनं नाम चतुष्षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६४ ॥ मार्कण्डेय उवाच ॥ ततस्तु षष्ठे संप्राप्ते दिवस भूरिदक्षिणे ॥ चक्रतुः समरं वीरौ शैलूषभरतावुभौ ॥ १॥ ससैन्यौ पृथिवीपाल शरैरुत्तैर्विषोपमैः ॥ शैलूषेण समामक्तो भरतो वाहिनीपतिः ॥२॥ सूर्यरश्मिशरैरुष्णैराजौ शिरश्चिच्छेद शत्रुहा ॥ मूर्ध्नामिक्षुं गणे हत्वा एकलव्यं महाहवम् ॥ ३ ॥ शरेण पातयामास स्योपस्थ्याद्गिन्द्वभम् ॥ गन्धर्वदुहितिर्दृष्ट्वा प्रधानौ तौ सुतौ हतौ ॥ ४ ॥ शक्त्या बिभेद विजयं तथा चक्रेण पुष्करम् ॥ तोमरेण तथा नक्षं गदया च सुयोधनम् ॥ ॥ ५ ॥ विविक्षुस्ते रथोपेत्थं विसंज्ञाः सर्व एव तु ॥ नियन्तिभिश्च सम्भ्रान्तैर्व एवापवाहिताः ॥ ६ ॥ ततस्तु भरतः क्रुद्धश्चूत भिंस्तस्य सायकैः ॥ चकार भुवि निर्जीवंस्तृणंगश्चैव यादव ॥ ७ ॥ चकार च शरव्रातैर्विषयुक्तैर्निकविक्रमम् ॥ ततो धैर्येण संधार्य शरेण महात्मनः ॥ ८ ॥ आरुरोह रथं शीघ्रं सुसन्नद्धो महाबलः ॥ रथेमारूढ्वा विव्याध शरैणानतपर्वणा ॥ ९ ॥ भग्नो हृदये गाढं सुमोह स च ताडितः ॥ एतस्मिन्नन्तरे मुक्तो हाहाकारः सुरासुरैः ॥ १० ॥ अभ्रदृष्टैः प्रहृष्यैश्च विमूढे रघुनन्दने ॥ हाहाकारेण महता लब्धसंज्ञः स राघवः ॥ ११ ॥ आकृष्य बलवच्चापं शैलूषस्य महद्धनुः ॥ द्विधा चकार राजेन्द्र शैलूषं चाहनद्रुषम् ॥ १२ ॥ स च्छिन्न धन्वा वेगेन गदामादाय मत्वरः ॥ प्रेषयामास धर्मज्ञ भरतस्य महात्मनः ॥ १३ ॥ आपतन्तीं गदां दृष्ट्वा भग्नो रणस्थवेनि ॥ द्विधा चकार चक्रेण सर्वसैन्यस्य पश्यतः ॥ १४ ॥ ततः स परिघं शीघ्रं विक्षेप भरतं प्रति ॥ तमापतन्तं चिच्छेदैः चतुर्भिः सायकैर्दृढम् ॥ १५ ॥ ततोऽन्यद्व वरादाय सायकानर्कविंशतिम् ॥ विक्षेप स महाराज भरतस्य रथं प्रति ॥ १६ ॥ छित्त्वा तान्भरतः सर्वान्प्रवर्धन्तस्य मार्गथिम् ॥ तथा च
वि० ध० ॥१६८॥ पृ० सू० अ० २६६
चतुरो वाहनानन्यवसन्नाइभन् ॥ १७ ॥ शैतूपं विरथं दृष्ट्वा गन्धर्वाणां महाचमूः ॥ ववर्षायुधवर्षेण मत्रेो वृष्ट्येव पर्वतम् ॥ १८ ॥ न मोहयित्वा भरतं मोक्षयामास पार्थिव ॥ मोक्षयित्वा च राजानं गतेऽदृष्टं विमण्डलं ॥ १९॥ कृत्वावहारं तु गतः शिविकाय नगर्यतः ॥२०॥ हत्वा ग्ये नागरं आश्वघोषासंस्राप्य मध्ये निशितिः पृथक्तैः ॥ २१ युगशीतगोऽपि गृहाय यातः संपूज्यमानो भुवि मानवेन्द्रैः ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैतूपभग्नेतुद्दे षट्पञ्चाद्विवसो नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६६॥ ॥ मार्कण्डेय उवाच ॥ ततस्तु सप्तमे प्राप्ते दिवसे युद्धदुर्मदौ ॥ समियातुर्महात्मानौ शैतूपभगतुम्बो ॥ १ ॥ ततस्तु भरतः प्राह शैतूपं युद्धदुर्मदम् ॥ आवयोः प्रस्तुतं सैन्यं किमेतं सैनिकैर्युतैः ॥ २ ॥ निवारयस्व सैन्यं स्वं वारयिष्याम्यहं स्वकम् ॥ आवयोर्हश्य युद्धं पश्यन्तु वसुधाधिपाः ॥ ३ ॥ तदीयाः सैनिका य च सुनाथाः सद्दामरैः ॥ हते मयि मदीयंनु सैन्यं कामं प्रयुच्यताम् ॥ ४ ॥ संयामं वा करोत्वाजां त्वद्विचन्तु हते त्वयि ॥ एवमुक्तेऽनथत्युक्ता वारयामास सैनिकान् ॥ ५॥ गन्धर्वराट् स शैतृपां भग्तोऽपि तथा स्वकान् ॥ ततः प्रवृवृते युद्धं तयोर्द्वाणसुदारुणम् ॥ ६ ॥ पश्यतां सर्वसैन्यानां देवानामापि पश्यताम् ॥ शरजालेन महता छादिताक्केरकं रण ॥ ७ ॥ ततस्तुतलावण्योऽभ्यं शरैः सन्नतपर्वभिः ॥ परम्परशराघातात विस्फुलिङ्गोतिशक्तितौ ॥ ८॥ विरेजतुस्तौ राजेन्द्र पुष्पिताविव किंशुकौ ॥ उभौ महारथौ वीरो क्षोभो विवृतपारुषौ ॥ ९ ॥ तथाभो वग्धा तुक्तौ क्षोभो समग्रदुर्मदौ ॥ काश्वनाङ्गदधारयस्तौ तौ क्षोभो सङ्गरशोभिनौ ॥ १० ॥ वीज्यमानौ तयोर्वामा याचाम्यां वरचामरैः ॥ उभयान्तो तदापस्तच्छुभ्राम्राते महारथौ ॥ ११ ॥ उभावप्रह्रतपतापेन चक्रतुस्तुमुलं रणम् ॥ अस्त्रयुद्धं चिरं कृत्वा शरयुद्धं प्रचक्रतुः ॥ १२ ॥ गगयुद्धं व्यतिक्रान्ते अभ्वयुद्धं पुनःपुनः ॥ एवं तौ दिवसै कृत्वा युद्धं सन्तानवाहनौ ॥ १३ ॥ रोपयन्तौ श्रमं गजन्समरेषु जितश्रमी ॥ ततो गन्धर्वराजस्तु लम्बमाने दिवाकरे ॥ १४ ॥ चकार तायसीं मायां यगानन्दमभवज्जगत् ॥ अन्धकारं ततो जाते बाणैऽश्यन्त दारुणाः ॥ ॥ १५ ॥ मगतो हन्यतां शीघं पश्यतां पात्यतां तथा ॥ अभ्यवर्तन्त भरतं सर्पवृश्चिककर्कटाः ॥ १६ ॥ मर्कटा वानरा व्यागः सृगाला दीपितन्मया ॥ सिंहव्याघ्रवराहाश्च क्रव्यादा ये च जातयः ॥ १७ ॥ अर्द्यमानः स भभोत्या भरतस्तैः सुदुर्मतैः ॥ सौरैणास्त्रेण तां मायां बभञ्ज पृथिवीशा ॥ १८ ॥ ततस्तु महतीं मायां स चकार महाभुजः ॥ उत्तस्थौ सुमहान्मेषश्छादयित्वा नभस्तलम् ॥१९॥ प्रववर्ष च घोराणि शस्त्रजालान्यनेकशः ॥ नागतान्तधराणांराँस्तथैव चपकाननान ॥ २० ॥ वत्सदन्ताँस्तथा वल्लीकणीर्नालाँकगोमुखान् ॥ ॥१६८॥