विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 367, कुल 1001 में से
संदर्भ में पढ़ेंमम सत्वरैः ॥ एवमुक्तास्तु गन्धर्वाः प्रणिपत्य महीपतिम्॥ १६॥ राजाज्ञां शिरसाऽऽगृह्य जग्मुस्त्वरितविक्रमाः॥दिनशेषेण संप्राप्य यथादिष्टं महीं स्थिता ॥ १७ ॥ व्यचेष्टन्निशि राजेन्द्र यथाज्ञातं चिकीर्षवः ॥ विसर्जयित्वा गन्धर्व्वाञ्छैलूषोऽप्यथ सत्वरः॥१८॥आज्ञापयत सैन्यानि श्वो युद्धमिति पार्थिव ॥ जगाम चास्तं सविता कमलानि विशिल्यन् ॥ छादिते तमसा लोके प्रवृत्ता यामिनी तथा ॥१९॥ गन्धर्वराजोऽपि तदा विजह्रे स्त्रीभिः सहान्तःपुरमृत्य साकम् ॥ गन्धर्वपुत्राश्च तथा विजहुः श्वो युद्धमित्येव विवृद्धदर्पाः ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वप्रेषणं नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥ छ ॥ मार्कण्डेय उवाच ॥ आज्ञाता ये त्वयो- ध्यायां गन्धर्व्वास्तेन भूभुजा ॥ अयोध्यां ते समासेदुर्निशीथे लघुविक्रमाः ॥ १ ॥ मायाच्छन्नशरीराश्च विचेरुस्ते महीपते ॥ अयोध्याय महाराज ददृशुः श्रियम् ॥ २ ॥ शशाङ्कर्क्षगृहाणि बहुभौमानि यादव ॥ ददृशुर्गृहमुख्यानि शतशोऽथ सहस्रशः ॥ ३ ॥ सर्वरत्नोप- पन्नानि शयनासनवन्ति च ॥ सुवर्णदामचित्राणि मुक्ताजालचितानि च ॥ ४ ॥ प्रज्वलिद्रत्नदीपांश्चाप्यन्तःपुरपुरोहितान् ॥ बहुमाल्यानि मुख्यानि दीपोद्गारेण पार्थिव ॥ ५ ॥ प्रविश्य गृहमुख्येषु ददृशुस्तेषु मानवान् ॥ चन्दनागुरुदिग्धाङ्गांस्तथाऽभरणभूषितान् ॥ ६ ॥ क्रीडमानान्सह स्त्रीभिर्दिवा देवगणानिव ॥ भरतानुगतानाञ्च सैनिकानां गृहेषु च ॥ ७ ॥ स्त्रीणां भर्तृविहीनानां ददृशुर्बलचेष्टितम् ॥ काचित्तु लेभे शयने निद्रां मुद्गतलोचना ॥ ८ ॥ आकुलं शयनं चक्रे काचिद्भयो विवर्त्तनैः ॥ मृणालशयने काचित्कदलीपत्रसंस्तरे ॥ ९ ॥ चन्दनं चन्द्रपादेषु मृणाल- वलयेषु च ॥ कामाग्निनाशाशक्तेषु काचिच्चक्रे तथा रूपम् ॥ १० ॥ अनुधारा निपतिताः कामाग्निप्रदीपिते ॥ अम्बरीषे यथा नाशं कस्याश्चि- द्याति वक्षसि ॥ ११ ॥ काचिन्नुमोहे शयने वर्णयन्ती सखीजने ॥ उल्लपन्ती तदा दैवात्कान्तसम्भोगजं सुखम् ॥ १२ ॥ तालवृन्तानिलैः शीतैर्विज्यमाना सखीजनैः ॥ दृढताम्यत्यधिकं काचित्स्वैः श्वासैर्विनिस्सृतैः ॥ १३ ॥ स्वप्नेऽपि कान्तसंयोगकारिण्यां हि सखी मम ॥ दैवा- न्मयि हता निद्रा सापि काचिदभाषत ॥ १४ ॥ केयूरस्थानसंप्राप्ता वराङ्गदविभूषणा ॥ कामक्षामवपुः काचिज्जगाम सखि शोच्यताम् ॥ १५ ॥ दत्तध्यानतया कान्ते शोच्यमाना सखीजनैः ॥ अविज्ञाता तथा काचिन्नामापत सखीजनम् ॥ १६॥ चित्रभित्तिगतं कान्तं काञ्चिच्चानिमिषेक्षणा॥ बभूव चित्रन्यस्तेव पश्यन्ती विगताक्रिया ॥ १७ ॥ इति गन्धर्व्वमुख्यानां पश्यतां रजनीमुखे ॥ नासीत्स्त्रीहरणे शक्तिः प्रभावाद्राघवस्य च॥१८॥ हितेच्छुरासां स यदा निविष्टो देवेश्वरश्चक्रधरो नृरूपी ॥ ततः प्रभावो न बभूव तेषां हर्तुं स्त्रियश्चारुशशाङ्कवक्त्राः ॥ १९ ॥ ॥ इति श्रीविष्णुध