विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 355, कुल 1001 में से
संदर्भ में पढ़ेंव्यग्राः भवन्ति राजनः शक्राद्यधिप्रवेशने ॥ १५॥ शैलैर्नवतृणच्छन्नैस्तथा नीलाभ्रशेखरैः ॥ १६ ॥ कान्तिमद्भिर्विशेषेण विराजति वसुन्धरा ॥
तां प्राप्य प्राप्य नद्यप्योद्गमनर्तिताशिखण्डिवृन्दाम् ॥ द्वारं समाश्रित्य महोतस्त्वजं धनुर्धरस्त्वं जहि राजपुत्र ॥ १७॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्ये प्रावृड्वर्णनं नाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४३ ॥ राम उवाच ॥ हत्वा
प्रावृषि तं पापं यमुनातीरगोचरः ॥ नय त्वं शारदं कालं यावत्सुप्तो जनार्दनः ॥ १ ॥ रमणीयान्नरा यत्र नभः प्रकटसैकताः ॥ सुस्वादुशीतसलिला
स्सारसैरुपशोभिताः ॥ २ ॥ बालार्कसदृशः पद्मैः पद्मिन्यो यत्र भूषिताः ॥ सरसां विमलं यत्र तोयं मधुरशीतलम् ॥३॥ वरस्त्रीनयनाकारचारुपत्र
विभूषणैः ॥ पश्यतीवोत्पलैर्व्योम उत्पलिन्यः सुनिर्मलम् ॥ ४ ॥ नभःसरसि विस्तीर्णे ताराद्युगणचित्रिते ॥ शोभते च निशीथेषु हंसवद्विचर
ञ्शशी ॥ ५ ॥ आदधानो महच्चापं संधानश्च दृश्यते ॥ यावत्संपूर्व इत्येव बाणैर्भूमितलं शरत् ॥६॥ जातीकुसुमहृद्यासु बन्धुजीवोज्जवलासु च ॥
मनः प्रसादमायाति हृष्टासु वनराजिषु ॥ ७ ॥ पक्वसस्या वसुमती परां धारयति श्रियम् ॥ कलविङ्काः प्रहृष्टाश्च पक्वकेदारपङ्क्तिषु ॥ ८ ॥
निभृगाः काशवसनाश्चक्रवाकयुगस्तनाः ॥ सारसारावहामिन्यः सुतरां रतिवर्द्धनाः ॥ ९ ॥ हंसैः संछन्नतोयेषुकहाररजसोत्करैः ॥ सरांसि दुर्विभा
व्यानि कुशलैरपि मानवैः ॥ १० ॥ पाण्डुराम्रकृतन्यासाः सर्व एव शिलोच्चयाः ॥ श्रियं विडम्बयंतीव तुषारगंडैः समुज्ज्वलाम् ॥ ११ ॥ शर
त्भूतोत्पलाचारुपद्मां विपक्वकेदरिक्षुविशोभितोर्मीम्॥ नीत्वा ततः प्राप्य हिमस्य कालं कार्यस्त्वया पत्तनसन्निवेशः॥१२॥ इति श्रीविष्णुधर्मोत्तरे प्रथम
खण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामानुशासने शरद्वर्णनं नाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४४॥
॥ राम उवाच ॥ प्रबुद्धे पुण्डरीकाक्षे हेमन्ते वैष्णवे ऋतौ ॥ कार्यः पुरनिवेशस्ते तथा जनपदस्य वा ॥ १॥ पक्वनारङ्गसुभगे नीहारावृतदिङ्मुखे ॥
प्रलूनधान्यकेदारे गततुष्टशिलिमुखे ॥ २ ॥ कृतसंग्रहणे काले प्रवृत्ततृपविग्रहे ॥ विपङ्कवसुधे रम्ये स्वादुशीतजलाशये ॥ ३ ॥ विशाला यत्र
यामिन्यः सुतरां सुरतक्षमाः ॥ भृशं मनोहरा यूनां पीडितालिङ्गनक्षमाः ॥ ४ ॥ यत्र शीतापदेशेन मानिनीमपि स्वयम् ॥ क्रियते त्यक्तमा
नाभिः प्रियकण्ठग्रहोत्सवः ॥ ५ ॥ सुखोष्णोदकान्गन्धर्वप्रम्यप्रसवणोदकं ॥ प्ररूढपवनोद्भूते काले नीलधरातले ॥ ६ ॥ वासोद्मनसंरुरुद्धार्वामा
व्यनडीतटे ॥ सारसारावविज्ञेये काले कामिजनप्रिये ॥ ७ ॥ यत्रेषुपीडयन्त्राणां यष्टयः प्रुरुपचोदिताः ॥ भयानीव मनुष्याणामुपक्रर्मन्त नम
न्ति च ॥ ८ ॥ कृताग्रायणपूजाय्च हुतहव्या द्विजातयः ॥ यत्र प्रवेशहद्याश्च तथा यत्र च कर्षकाः ॥ ९ ॥ गृहेषु च सुखोष्णेषु गवां निःश्वास