भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 354, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 354

वि० ध० ॥१५३॥ , प्र० खं० अ० २४२ ॥१५३॥

अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ॥ आदाय गच्छ शत्रुघ्न पर्याप्तबलवाहनः ॥ २१ ॥ बलं च सुभृतं वीर तुष्टपुष्टमनुद्धतम् ॥ वशं च सान्त्वदानाभ्यां कुरुष्व रघुनन्दन ॥ २२ ॥ न ह्यर्थास्तत्र तिष्ठन्ति न मित्राणि न बान्धवाः ॥ सुभीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ॥ २३ ॥ स त्वं दुष्टजनाकीर्णां संस्थाप्य महतीं चमूम् ॥ एक एव धनुष्पाणियोंधयेथा मधोः सुतम् ॥ २४॥ यथा च त्वां न जानाति गच्छ तं युद्धकांक्षिणम् ॥ लवणः स मधोः पुत्रस्तथा निःशङ्किनो व्रज ॥ २५ ॥ आस्यातो न च तस्यास्ति कश्चिन्मृत्युर्भयान्वितः ॥ दर्शनं योऽभिगच्छेत हन्येत लवणेन सः ॥ २६ ॥ माहेश्वरेण शूलेन विद्युत्तं दुराधायगतम् ॥ द्वारमावृत्य लवणं युध्यस्व रघुनन्दन ॥ २७ ॥ माहेश्वरममोघं तु शूलं च परिवर्जितम् ॥ गृह्णाणं शरं वत्स सर्वायुधविनाशनम् ॥ २८ ॥ अनेन लवणं युद्धे घातयिष्यस्यसंशयम् ॥ गच्छ त्वं ग्रीष्मशेषेण लवणस्य जिघांसया ॥ २९ ॥ काले तथा प्रावृषि संप्रवृत्ते विवृद्धतोयासु सरिद्वरासु ॥ महत्तवाणेन निशाचरस्य व्यसुं क्षितौ पातय तस्य देहम् ॥ ३० ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति माडायानवाक्येषु लवणवधे शत्रुघ्नं प्रति रामाशासनं नाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४२ ॥

राम उवाच ॥

संप्राप्य प्रावृषं वत्स भीमतोयदनिनदाम् ॥ निषिद्धपान्थसंचारां विद्युत्क्षुभिततोयदाम् ॥ १ ॥ मेघैस्तोयभरानम्रैः स्थगितार्कनिशाकराम् ॥ प्रवर्षणजलौघाघातविकसितसिटोदग्रहाम् ॥ २ ॥ पश्यां घनवज्रासात्पीनोल्मपिथयोधराः ॥ कुर्वन्त्यलिङ्गनं कान्ताः कान्तानां मनसः प्रियम् ॥ ३ ॥ भूमिनिर्वततृणच्छन्ना शक्रगोपावभूषिता ॥ भीमोवनादविस्तीर्णा फेनवत्यश्च निम्नगाः ॥४॥ सतोयचवाणदाक्रान्तं स्निग्धनीलं नभस्तलम् ॥ वलाकाः शोभयन्ति स्म शारदं तारका इव ॥ ५ ॥ घना घनागमारूढा धृतवासवकर्मुंकाः ॥ तोयोद्यवाणधाराभिः प्रवर्षमुर्महीतलमू ॥ ६ ॥ धारकदम्बकुलकूटसर्जार्जुनशोभिताः ॥ पक्कजम्ब्वग्राशालिन्यो वनराज्यो मनोहराः ॥ ७ ॥ निदायतापतप्तस्तानवततोयप्लुताक्षिता ॥ मही विसृजते यस्यां गन्धमाल्यगुणं स्वकम् ॥ ८ ॥ गर्जमानेषु मेघेषु मुदङ्कध्वनिसन्निभम् ॥ अस्यां मयूरा नृत्यंति विकसत्सत्कलापिनः ॥ ९ ॥ समीरणेन मृदुना वृन्नाः खे च पयोधराः ॥ महिष्वञ्च विसर्पिन्त पयःपूर्णपयोधराः॥१०॥प्रत्यूपे संचरन्तीनां महिषीणां तदासमम् ॥ घण्टानिनादो मधुरः श्रूयते तृणगह्वरे॥११॥स्थल्यः कृष्णास्तसङ्गेननिमेषिरिव ॥ यस्यां पश्यन्ति शत्रुघ्न जलपूर्णमहीतलमू ॥ १२ ॥ मेघपातेन दृढेन पृषतोत्करशालिना ॥ कामिन्यः कामिनां सार्थं त्यजिता रघुनन्दन ॥ १३ ॥ अपागम्याः सरितो राजानो गतविग्रहाः ॥ बलाकहणमच्छन्ना द्यौस्तथैव सविग्रहा ॥ १४ ॥ न निर्वृत्तसुखोदाहहकाम्याकाम्यक्रिया मही ॥ प्रहृष्टपौराजतुगतैः संवत्सपुरोहितैः ॥ १५ ॥