भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥१५३॥ , प्र० खं० अ० २४२ ॥१५३॥

अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ॥ आदाय गच्छ शत्रुघ्न पर्याप्तबलवाहनः ॥ २१ ॥ बलं च सुभृतं वीर तुष्टपुष्टमनुद्धतम् ॥ वशं च सान्त्वदानाभ्यां कुरुष्व रघुनन्दन ॥ २२ ॥ न ह्यर्थास्तत्र तिष्ठन्ति न मित्राणि न बान्धवाः ॥ सुभीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ॥ २३ ॥ स त्वं दुष्टजनाकीर्णां संस्थाप्य महतीं चमूम् ॥ एक एव धनुष्पाणियोंधयेथा मधोः सुतम् ॥ २४॥ यथा च त्वां न जानाति गच्छ तं युद्धकांक्षिणम् ॥ लवणः स मधोः पुत्रस्तथा निःशङ्किनो व्रज ॥ २५ ॥ आस्यातो न च तस्यास्ति कश्चिन्मृत्युर्भयान्वितः ॥ दर्शनं योऽभिगच्छेत हन्येत लवणेन सः ॥ २६ ॥ माहेश्वरेण शूलेन विद्युत्तं दुराधायगतम् ॥ द्वारमावृत्य लवणं युध्यस्व रघुनन्दन ॥ २७ ॥ माहेश्वरममोघं तु शूलं च परिवर्जितम् ॥ गृह्णाणं शरं वत्स सर्वायुधविनाशनम् ॥ २८ ॥ अनेन लवणं युद्धे घातयिष्यस्यसंशयम् ॥ गच्छ त्वं ग्रीष्मशेषेण लवणस्य जिघांसया ॥ २९ ॥ काले तथा प्रावृषि संप्रवृत्ते विवृद्धतोयासु सरिद्वरासु ॥ महत्तवाणेन निशाचरस्य व्यसुं क्षितौ पातय तस्य देहम् ॥ ३० ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति माडायानवाक्येषु लवणवधे शत्रुघ्नं प्रति रामाशासनं नाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४२ ॥

राम उवाच ॥

संप्राप्य प्रावृषं वत्स भीमतोयदनिनदाम् ॥ निषिद्धपान्थसंचारां विद्युत्क्षुभिततोयदाम् ॥ १ ॥ मेघैस्तोयभरानम्रैः स्थगितार्कनिशाकराम् ॥ प्रवर्षणजलौघाघातविकसितसिटोदग्रहाम् ॥ २ ॥ पश्यां घनवज्रासात्पीनोल्मपिथयोधराः ॥ कुर्वन्त्यलिङ्गनं कान्ताः कान्तानां मनसः प्रियम् ॥ ३ ॥ भूमिनिर्वततृणच्छन्ना शक्रगोपावभूषिता ॥ भीमोवनादविस्तीर्णा फेनवत्यश्च निम्नगाः ॥४॥ सतोयचवाणदाक्रान्तं स्निग्धनीलं नभस्तलम् ॥ वलाकाः शोभयन्ति स्म शारदं तारका इव ॥ ५ ॥ घना घनागमारूढा धृतवासवकर्मुंकाः ॥ तोयोद्यवाणधाराभिः प्रवर्षमुर्महीतलमू ॥ ६ ॥ धारकदम्बकुलकूटसर्जार्जुनशोभिताः ॥ पक्कजम्ब्वग्राशालिन्यो वनराज्यो मनोहराः ॥ ७ ॥ निदायतापतप्तस्तानवततोयप्लुताक्षिता ॥ मही विसृजते यस्यां गन्धमाल्यगुणं स्वकम् ॥ ८ ॥ गर्जमानेषु मेघेषु मुदङ्कध्वनिसन्निभम् ॥ अस्यां मयूरा नृत्यंति विकसत्सत्कलापिनः ॥ ९ ॥ समीरणेन मृदुना वृन्नाः खे च पयोधराः ॥ महिष्वञ्च विसर्पिन्त पयःपूर्णपयोधराः॥१०॥प्रत्यूपे संचरन्तीनां महिषीणां तदासमम् ॥ घण्टानिनादो मधुरः श्रूयते तृणगह्वरे॥११॥स्थल्यः कृष्णास्तसङ्गेननिमेषिरिव ॥ यस्यां पश्यन्ति शत्रुघ्न जलपूर्णमहीतलमू ॥ १२ ॥ मेघपातेन दृढेन पृषतोत्करशालिना ॥ कामिन्यः कामिनां सार्थं त्यजिता रघुनन्दन ॥ १३ ॥ अपागम्याः सरितो राजानो गतविग्रहाः ॥ बलाकहणमच्छन्ना द्यौस्तथैव सविग्रहा ॥ १४ ॥ न निर्वृत्तसुखोदाहहकाम्याकाम्यक्रिया मही ॥ प्रहृष्टपौराजतुगतैः संवत्सपुरोहितैः ॥ १५ ॥

व्यग्राः भवन्ति राजनः शक्राद्यधिप्रवेशने ॥ १५॥ शैलैर्नवतृणच्छन्नैस्तथा नीलाभ्रशेखरैः ॥ १६ ॥ कान्तिमद्भिर्विशेषेण विराजति वसुन्धरा ॥
तां प्राप्य प्राप्य नद्यप्योद्गमनर्तिताशिखण्डिवृन्दाम् ॥ द्वारं समाश्रित्य महोतस्त्वजं धनुर्धरस्त्वं जहि राजपुत्र ॥ १७॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्ये प्रावृड्वर्णनं नाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४३ ॥ राम उवाच ॥ हत्वा
प्रावृषि तं पापं यमुनातीरगोचरः ॥ नय त्वं शारदं कालं यावत्सुप्तो जनार्दनः ॥ १ ॥ रमणीयान्नरा यत्र नभः प्रकटसैकताः ॥ सुस्वादुशीतसलिला
स्सारसैरुपशोभिताः ॥ २ ॥ बालार्कसदृशः पद्मैः पद्मिन्यो यत्र भूषिताः ॥ सरसां विमलं यत्र तोयं मधुरशीतलम् ॥३॥ वरस्त्रीनयनाकारचारुपत्र
विभूषणैः ॥ पश्यतीवोत्पलैर्व्योम उत्पलिन्यः सुनिर्मलम् ॥ ४ ॥ नभःसरसि विस्तीर्णे ताराद्युगणचित्रिते ॥ शोभते च निशीथेषु हंसवद्विचर
ञ्शशी ॥ ५ ॥ आदधानो महच्चापं संधानश्च दृश्यते ॥ यावत्संपूर्व इत्येव बाणैर्भूमितलं शरत् ॥६॥ जातीकुसुमहृद्यासु बन्धुजीवोज्जवलासु च ॥
मनः प्रसादमायाति हृष्टासु वनराजिषु ॥ ७ ॥ पक्वसस्या वसुमती परां धारयति श्रियम् ॥ कलविङ्काः प्रहृष्टाश्च पक्वकेदारपङ्क्तिषु ॥ ८ ॥
निभृगाः काशवसनाश्चक्रवाकयुगस्तनाः ॥ सारसारावहामिन्यः सुतरां रतिवर्द्धनाः ॥ ९ ॥ हंसैः संछन्नतोयेषुकहाररजसोत्करैः ॥ सरांसि दुर्विभा
व्यानि कुशलैरपि मानवैः ॥ १० ॥ पाण्डुराम्रकृतन्यासाः सर्व एव शिलोच्चयाः ॥ श्रियं विडम्बयंतीव तुषारगंडैः समुज्ज्वलाम् ॥ ११ ॥ शर
त्भूतोत्पलाचारुपद्मां विपक्वकेदरिक्षुविशोभितोर्मीम्॥ नीत्वा ततः प्राप्य हिमस्य कालं कार्यस्त्वया पत्तनसन्निवेशः॥१२॥ इति श्रीविष्णुधर्मोत्तरे प्रथम
खण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामानुशासने शरद्वर्णनं नाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४४॥
॥ राम उवाच ॥ प्रबुद्धे पुण्डरीकाक्षे हेमन्ते वैष्णवे ऋतौ ॥ कार्यः पुरनिवेशस्ते तथा जनपदस्य वा ॥ १॥ पक्वनारङ्गसुभगे नीहारावृतदिङ्मुखे ॥
प्रलूनधान्यकेदारे गततुष्टशिलिमुखे ॥ २ ॥ कृतसंग्रहणे काले प्रवृत्ततृपविग्रहे ॥ विपङ्कवसुधे रम्ये स्वादुशीतजलाशये ॥ ३ ॥ विशाला यत्र
यामिन्यः सुतरां सुरतक्षमाः ॥ भृशं मनोहरा यूनां पीडितालिङ्गनक्षमाः ॥ ४ ॥ यत्र शीतापदेशेन मानिनीमपि स्वयम् ॥ क्रियते त्यक्तमा
नाभिः प्रियकण्ठग्रहोत्सवः ॥ ५ ॥ सुखोष्णोदकान्गन्धर्वप्रम्यप्रसवणोदकं ॥ प्ररूढपवनोद्भूते काले नीलधरातले ॥ ६ ॥ वासोद्मनसंरुरुद्धार्वामा
व्यनडीतटे ॥ सारसारावविज्ञेये काले कामिजनप्रिये ॥ ७ ॥ यत्रेषुपीडयन्त्राणां यष्टयः प्रुरुपचोदिताः ॥ भयानीव मनुष्याणामुपक्रर्मन्त नम
न्ति च ॥ ८ ॥ कृताग्रायणपूजाय्च हुतहव्या द्विजातयः ॥ यत्र प्रवेशहद्याश्च तथा यत्र च कर्षकाः ॥ ९ ॥ गृहेषु च सुखोष्णेषु गवां निःश्वास

मारुतः ॥ स्वाध्यायघोषो विप्राणां नृणां यत्र सुखावहः ॥ १० ॥ सिताभिः पच्यमानाभिः क्रियमाणास्तथा गुडैः ॥ रम्यः सुशीतलः कालः प्राणि- प्रियहुताशनः ॥ ११ ॥ विचरन्ति नरा यत्र गुरुप्रावरणाम्बराः ॥ कुंकुमेनाङ्गुलिप्ताङ्गा धनिनः प्रियदर्शिनः ॥ १२ ॥ अभ्यायाम- क्षमे काले यत्र यूनां विशेषतः ॥ मृगया दयिता वत्स मन्दरश्मौ दिवाकरे ॥ १३ ॥ रोहिताशनपृष्ठानां साधूनारञ्जवासितम् ॥ महिषीणां तु मथितं गन्धवर्णरसान्वितम् ॥ १४ ॥ इक्षवश्च विदार्यन्ते तथैव मूलकानि च ॥ रसवन्ति विशेषेण यत्र पिष्टकृतानि च ॥ १५ ॥ प्रवृत्तमेखलाबन्धविवाहादिक्रिये जने ॥ प्रबुद्धे पुण्डरीकाक्षे प्रवृत्ते यज्ञसन्तरे ॥ १६ ॥ काले प्रहृष्टाश्चेन्दूसूर्ये कार्या त्वया राघव वास्तुपूजा ॥ आरम्भणीयं नगरस्य कर्म शिवाय सर्वस्य जनस्य वत्स ॥ १७ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडा- यनवाक्येषु शत्रुघ्नं प्रति रामसमुपदेशे हेमन्तवर्णनं नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ राम उवाच ॥ ततस्तु शिशिरे प्राप्ते काले तपनवल्लभे ॥ हिर्माप्रपातप्रच्छन्नदुर्विभाव्यादिशामुखे ॥ १॥ सुपक्वमातुलुङ्गाढ्यवनराजिसुगन्धिनि ॥ प्रफुल्लकुंकुमचमत्कारोगोज्ज्वलत्विषि ॥ २ ॥ हिमप्रयातसञ्जातखर्वतॄणतणोल्बणे ॥ अत्यर्थशीतकुसुमे कुङ्कुमागुरुवल्लभे ॥ ३॥ कामिन्यः कुङ्कुमाङ्गाङ्ग्यः पीनोन्नतपयोधराः ॥ आलिङ्गनेन कान्तानां यत्र शीतभयापहाः ॥४॥ पुष्पितैरातसीवातैर्नीलनीरज निर्मलैः ॥ पूर्णतोयाशयाशाङ्का जायते सुधियामपि ॥५॥ मात्र्यूकन्दुकपुष्पाढ्या वनराज्यो मनोहराः ॥ सुशीर्णपर्णसरला नम्रेरुविविधद्रुमाः ॥६॥ संत्यक्ता दक्षिणामाशां व्रजमाने तथोत्तराम् ॥ सूर्ये सुमाच पवनं निःश्वासमिव दक्षिणा ॥७॥ रम्याश्च गंधमंजयैः शोभयन्ति वनस्थलीः ॥ मन्मथस्य शराः कांताः कामिमन्मथवर्धनाः ॥ ८ ॥ हयानां मधुरः शब्दः श्रूयते इशनोद्भवः ॥ शब्दो गवसृजां यत्र स्वामिनां रतिवर्धनः ॥ ९ ॥ निर्मलानां तु सरसां विनिविद्धा जलेचराः ॥ ब्रुवन्तो मधुरं पांथा जनयन्ति परां मुदम् ॥ १० ॥ जनयन्ति परां प्रीतिं कामिनीनां तु कामुकाः ॥ यत्र मध्वैनैर्वत्स मातुलुङ्गाधिवासितैः ॥ ११ ॥ वापीकूपतडागेषु हृदमन्त्रवनेषु च ॥ यत्र काले रन्त्यापः कम्पयन्त्यः पुरीं महत् ॥ १२ ॥ तस्मिंस्त्वं शिशिरे काले कृत्वा गृहवरे स्वके ॥ प्रवेशयतु विधिना शिल्पिमिश्रैर्निशानिशैः ॥ १३॥ धर्मेण पालयन्क्षोणीं वस राजविलोचन ॥ वृद्धिं कार्येस्त्वया धर्मो नित्यमेव नरोत्तम ॥ १४ ॥ उत्तिष्ठ शीघ्रं विजयाय गच्छ दीप्तां श्रियं प्राप्नुहि राजपुत्र ॥ रक्षन्तु देवास्तव सर्वकालं पदं विध्वस्तारिगणस्य मूर्ध्नि ॥ १५ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं


१ 'कथितम्' इति क० । २ 'ह्यानानामश्वरा राजन्' इति ख० ।

प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामातुशासने लवणं प्रति शत्रुघ्नप्रस्थानं नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ ॥ नाडायन उवाच ॥ ॥ इति रामवचः श्रुत्वा बाढमुक्तवा स सत्वरः ॥ अभिवाद्य वसिष्ठस्य पादौ रामस्य चाप्यथ ॥ १ ॥ पुरस्कृत्य महाभागन्भागव प्रमुखानृषीन् ॥ यथोक्तसैन्यानुगतः प्रययौ भीमविक्रमः ॥ २ ॥ वाल्मीकेराश्रमं प्राप्य तासुवास तदा निशाम् ॥ पूजयित्वा तु वाल्मीकिऋषिणा प्रतिपूजितः ॥ ३ ॥ यस्मिन्नहनि शत्रुघ्नो वाल्मीकेराश्रमं गतः ॥ उभौ प्रसूतौ तनयौ तस्मिन्नेवाह्नि जानकी ॥ ४ ॥ सीताप्रसवसंहष्टः क्रमेण रघुनन्दनः ॥ निदावशेषेण नदीमुत्ततार स सूर्यजाम् ॥ ५ ॥ शिबिरं समवस्थाप्य यथावयवसुनांतटे ॥ एक एव धनुष्पाणिः प्रविवेश मधोर्वनम् ॥ ॥ ६ ॥ प्रविश्य च युवा तत्र लवणस्य निवेशनम् ॥ तस्थौ द्वारमपाश्रित्य वीरो विततकार्मुकः ॥ ७ ॥ एतस्मिन्नेव काले तु मृगान्हत्वा सह स्रशः ॥ बहुना मृगभारेण स दर्श मधोः सुतम् ॥ ८ ॥ वृत्ताक्षमुरुक्टं भीमं दन्तोत्कृष्टोत्तरोष्ठकम् ॥ दृष्ट्वाकरालवदनं दृप्तवत्पुरुषच्छविम् ॥ ९ ॥ स तु दृष्ट्व शत्रुघ्नुवाच परुषं बहु ॥ विप्रधावत दुष्टात्मा शत्रुघ्नवधकाम्यया ॥ १० ॥ त्यक्त्वा मृगसहस्राणि द्रुमविक्षेपतत्परः ॥ द्रुमवृष्टिं सुघोरां तां लवणेन विसार्जिताम् ॥ ११ ॥ विच्छेद बाणैः सौमित्रिः शतशोऽथ सहस्रशः ॥ छिन्ने द्रुममहावर्षे लवणः शत्रुतापनः ॥ १२ ॥ जघान मुशराञ्च्छूनं शत्रुघ्नं मुष्टिना भृशम् ॥ मुष्टिप्रहारनिश्चेष्टं शत्रुघ्नं लवणस्तदा ॥ १३ ॥ न जगाह च तच्छूलं मृत्युपाशवशङ्गतः ॥ प्रवेशयामास गृहं मृगसंघाननेकशः ॥ १४ ॥ एतस्मिन्नेव काले तु लब्धसंज्ञः स राघवः ॥ वितत्य कार्मुकं तस्थौ द्वारमावृत्य वेश्मनः ॥ १५ ॥ ततः पादपवर्षेण च्छादयन्तं निशाचरम् ॥ चकार विमुखं बाणैश्छित्त्वा महीरुहान् ॥ १६ ॥ रामदूतं ततो वाणं सन्धाय वरकार्मुके ॥ निर्वि भेद महातेजा लवणं रघुनन्दनः ॥ १७॥, सन्धियमाने बाणे तु त्रस्तं त्रिभुवनं तदा ॥ आश्वासयामास विभुर्ब्रह्मा कमलसम्भवः ॥ १८॥ तेन बाणप्रहा रेण निर्भिन्नहृदयः क्षितौ ॥ व्यसुः पपात मेदिन्यां शैलो वज्राहतो यथा ॥ १९ ॥ तस्मिन्विपतिते भूमौ दैत्ये देवभयङ्करे ॥ त्रैलोक्यं विगतातङ्कं क्षणेन समपद्यत ॥ २० ॥ तं च देशमथाजग्मुः सुराः सब्रह्मकास्तदा ॥ पूजितास्तेन वीरेण शत्रुघ्नं वाक्यमब्रुवन् ॥ २१ ॥ ॥ देवा ऊचुः ॥ वरं वरय शत्रुघ्न यत्ते मनसि कांक्षितम् ॥ अपनीतं त्वयास्माकं भयं शूलवरायुधात ॥ २२ ॥ त्वया तु निहते तस्मिंल्छ्रवणे पापराक्षसे ॥ पश्य शूलवरं यांतमेनं शार्वं विहायसा ॥ २३ ॥ ॥ शत्रुघ्न उवाच ॥ ॥ अस्मिन्देशे करिष्यामि पुरीं रामाज्ञया त्वहम् ॥ मासे समाप्यतां शीघ्रां वरमेतत्प्रदीयताम् ॥ २४ ॥ ॥ देवा ऊचुः ॥ ॥ निष्पत्ति यास्यते धीर स्थिरा चैव भविष्यति ॥ पुण्या च रमणीया च मधुरा नामतः

वि० ध० ॥१८६॥

प्र० खं० अ० २४८

शुभा ॥ २६ ॥ ॥ नाडायन उवाच ॥ ॥ एवमुक्त्वा सुराः सर्वे जग्मुर्निकामतांद्रिताः ॥ आजगाम त तं देशं सैन्येन च्यवनः सह ॥ २६ ॥ संवर्धयित्वा शत्रुघ्नं जगामाश्रममञ्जसा ॥ सर्वं रामवचश्चक्रे शत्रुघ्नोऽपि महायशाः ॥ २७ ॥ कृत्वा पुरनिवेशनं च गृहप्रवेशनं तथा ॥ उषित्वा द्वादश समाः सम्प्राप्ते सुतर्कामणि ॥ २८ ॥ जगाम भ्रातरं द्रष्टुं वाल्मीकिराश्रमं पुनः ॥ तत्र शुश्राव धर्मात्मा शुभां रामकथां कृताम् ॥ २९ ॥ वाल्मीकिना प्रहृष्टेन गीयमानां कुशीलवैः ॥ तत्रोष्य रजनीमेकां रामं दृष्ट्वा तथैव च ॥ ३० ॥ तत्रोष्य पश्चात्तु नृपो रामविसर्जितः ॥ मधुरायां च वसुधां पालयामास धर्मवित् ॥ ३१ ॥ एवंविधः स शत्रुघ्नो भवेतोऽप्यधिकस्ततः ॥ मा तेन विग्रहं गच्छ भरतेन महात्मना ॥ अजेया रघवो येषां सहाया वानरोत्तमाः ॥३२॥ सुग्रीवोनीलङ्गदवायुपुत्रसुषेणमैन्दादिविविदमख्यानाः ॥ महाबलाः पर्वतमन्त्रिकायाः सुरैरपिर्युद्धगता अजेयाः ॥ ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवक्येषु लवणवधो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥

॥ शैलूष उवाच ॥ ॥ पुलहस्य प्रजासर्गं श्रोतुमिच्छामि तत्त्वतः ॥ यस्य वंशे समुत्पन्ना वानरा बलदर्पिताः ॥ १ ॥

नाडायन उवाच ॥ ॥ दुगा च मृगमंदा च हरिस्तथा तथा इरा ॥ भूता च कपिशा दंष्ट्री सुरसा सरमा तथा॥२॥ कश्यपो जनयामास क्रोधासु दश कन्यकाः ॥ कश्यपेन च ता दत्ताः पुलहाय महात्मने ॥ ३ ॥ प्रजास्तासां प्रवक्ष्यामि सर्वासां त्वं निबोध मे ॥ सुगायास्तु शुभा जाता हरणौणाः शशास्तथा ॥ ४ ॥ रुरवः पृषतश्चैव न्यङ्कवः शशकास्तथा ॥ सुमरा मृगमंदाया गवया महिषास्तथा ॥५॥ चमरोदूवराहाश्च खङ्गा पौरुषास्तथा ॥ हर्याश्च वानरा जाता गोलाङ्गूलाः सकिन्नराः ॥ ६ ॥ मण्डूका नकुलाश्चैव ये चाप्यन्ये विलेशयाः ॥ पञ्च कन्याश्च ताश्रायाः १ प्रत्यस्ता वरुणस्य च ॥ ७ ॥ प्राङ्गेधर्मभृतां श्रेष्ठः पुलहस्तपसां निधिः ॥ श्येनी भासी तथा क्रौंची धृतराष्ट्री शुकी तथा ॥ ८ ॥ श्येनी तु जनयामास पुत्रं संपातिनं तथा ॥ जटायुषं च राजानं गृध्राणां बलदर्पितम् ॥ ९ ॥ संपाती जनयामास श्येनग्रध्रवटांस्तथा ॥ भासीपुत्राः स्मृता भासाः क्रौञ्चाः क्रौञ्चीसुताः स्मृताः ॥ १० ॥ धृतराष्ट्रीसुता हंसा धात्तराष्ट्रास्तथैव च ॥ चक्रवाकमुखाश्चान्ये तथा ये जलचारिणः ॥ ११ ॥ शुकात्पुत्राः शुका ज्ञेयाः पक्षिणश्चापि कीर्तिताः ॥ कश्यपस्य तु या पत्नी इरा नाम प्रकीर्तिता ॥ १२ ॥ कुञ्जरं जनयामास सुरकार्योद्यतं सदा ॥ भूतापुत्रास्तथा भूता महादेवानुबन्ताः ॥ १३ ॥ उपरीरोलूलूलिका २ आस्थकर्णा कृपण्डिका ॥ पांसवः पाणिपात्राश्च चैतन्यानि पुनस्तया ॥ १४ ॥


१ 'शाश्रास्तथा' इति ख० । २ 'तपनीवोदूखलिका आस्थ्यकर्णा' इति ख० ।

॥१९५॥

सूचीमुखाः शोषिणकाः कुलान्येतानि षोडश ॥ कुलेष्वेतेषु जायन्ते नानारूपारविप्रिताः ॥ १६ ॥ निष्कुटेषु प्रतोलीषु चत्वरेषु गृहेषु च ॥
तेषां प्रदात्तदा स्थानमन्तर्द्धानं प्रतापिताः ॥ १६ ॥ अणिमा लघिमा प्राप्तियंच कामावसायिता ॥ दंष्ट्रीपुत्रास्तथा लोके दंष्ट्रिणो ये
प्रकीर्तिताः ॥ १७ ॥ समायास्तथा सर्पाः कीटजात्यश्च सर्वशः ॥ श्यामश्च धवलश्चैव सारमेयौ तथा शुनौ ॥ १८ ॥ यमस्यानुचरौ तौ च
महाबलपराक्रमौ ॥ इति क्रोधादुहिॄणां प्रजातिः कीर्तिता मया ॥ १९ ॥ कश्यपस्य तु या पत्नी सुरभिर्नाम विश्रुता ॥ कनीयसं तु शूद्राणां
तस्यासीद्गाहितेष्टयम् ॥ २० ॥ रोहिणी चैव भद्रे ते गन्धर्वी च महीपते ॥ पुल्लहेयेव ते दत्ते कश्यपेन महात्मना ॥ २१ ॥ सुरूपा हेमरूपा च
सर्वकामदुघा तथा ॥ रोहिण्यां जनयामास पुलहः स महातपाः ॥ २२ ॥ ब्रह्मचर्य्यव्रतास्तास्तु धेनवो दश कीर्तिताः ॥ मानसी तु प्रजा तासां
यथासंख्येन मे शृणु ॥ २३ ॥ गावश्चैव महिष्यश्च अजाश्चैवावयस्तथा ॥ गन्धर्वी जनयामास तुरगान्वान्तरंहसः ॥ २४ ॥ गरुडी च मयूरी च द्वे
तु कन्ये मनोरमे ॥ पुलहेन तु ते दत्ते गरुडाय महात्मने ॥ २५ ॥ गरुडी जनयामास सुपर्णान्भीमविक्रमान् ॥ मयूरी जनयामास मयूराद्यान्वि
हङ्गमान् ॥ २६ ॥ गरुडान्वयसम्भूताः सर्वे पन्नगभोजिनः ॥ पक्षिणस्तु त्वया ज्ञेयाः सुपर्णान्न गरुडाञ्छृणु ॥ २७ ॥ सुवर्णचूडो नागश्च
दारुणश्चूचुटुण्डकः ॥ अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥ २८ ॥ कर्करो ध्वजविष्कम्भी विनतो वामनस्तथा ॥ वातवेगो दिशाचक्षु
र्निमिषोऽनिमिषस्तथा ॥ २९ ॥ त्रिवारः सप्तवारश्च वाल्मीकिर्विप्रुलिक्स्तथा ॥ इत्येतेऽग्रिः सर्पद्वीपः सारसः पद्मकेतनः ॥ ३० ॥ सुमुखोऽथैकदंष्ट्रश्च
चित्रबर्हस्तथानघ ॥ मेघः सत्कुमुदो दक्षः सर्वसुक्तस्तथाभोजनः ॥ ३१ ॥ गुरुभारः कपोतश्च पूर्वेनेत्रश्चिरांतकः ॥ विष्णुरन्त्याः कुमारश्च परिवर्हो
हरस्तथा ॥ ३२ ॥ अश्वाम्बरो मधुपर्कश्च हेमवर्णस्तथैव च ॥ मलयो मातरीश्वा च निशाकरदिवाकरौ ॥ ३३ ॥ एते प्रदेशमात्रेण मयोक्ता
गरुडात्मजाः ॥ कुलमेतत्सुपर्णानां धन्यानां नृपसत्तम ॥ ३४ ॥ सर्वे एते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ॥ कुलमेतद्धि शैलूष
श्लाघ्यं विष्णुपरिग्रहम् ॥ ३५ ॥ दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ॥ हृदि येषां सदा विष्णुर्विष्णुपां परा गतिः ॥
॥ ३६ ॥ एतत्तेवां पुलहस्य वंशं पुत्रैः सुताभिश्च समन्वितं यत ॥ वंशे तु सर्वोत्तमवीर्य्युक्ता जाता खगेन्द्रा हरयश्च
वीराः ॥ ३७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु पुलहवंशाशुकरीर्तनं नामाष्टचत्वारिंशदु
त्तरद्विशततमोऽध्यायः ॥ २४८ ॥ ॥ वज्र उवाच ॥ कथ्यप्रसङ्गेंद्वह्निमेभवता मम कीर्तितम् ॥ सम्भवं सर्वभूतानां सर्वकल्मषनाशनम् ॥ १॥

तेषां विस्तरमाचक्ष्व राजानो मम भार्गव ॥ पालयन्ति द्विजश्रेष्ठ सकलं ये जगत्त्रयम् ॥ २ ॥ मार्कण्डेय उवाच ॥ एवं प्रजासु सृष्टासु सृष्ट्वा सस्रजेऽथ पितामहः ॥ निकायेषु निकायेषु सोऽभ्यषिंचत पार्थिवान् ॥ ३ ॥ ओषधीनां द्विजातीनां नक्षत्राणां तथैव च ॥ यज्ञानां तपसां चैव सोमे राज्यं ऽभ्यषेचयत्॥४॥ प्रजापतीनां सर्वेषां दक्षं प्राचेतसं यथा ॥ बलीमुखानां श्वेतानामृक्षाणां वृष एव च॥ शाम्यतः संन्दिग्धानां च पुरुषाणां च सन्नय म् ॥ प्रह्लादं सर्वदैत्यानां पितॄणां च तथा यमम्॥६॥ अपां तु वरुणं राज्ये तथैव जलवासिनाम् ॥ यक्षाणां राक्षसानां च पार्थिवानां धनस्य चा॥७॥ पुत्रं विश्ववसो ज्येष्ठं कुबेरं नरवाहनम्॥ विप्रचित्तिं च रक्षानां दानवानां महाबलम्॥८॥ सर्वभूताधिराजानां गिरिशं शूलपाणिनम्॥ शैलानां हिमवन्तं च निम्नगानां च लावणम् ॥९॥ भारतं सर्ववर्षाणां द्वीपानामथ मध्यमम् ॥ स्वादूदकं समुद्राणामश्वत्थं सर्वशाखिनाम् ॥ १० ॥ कर्मणां व्यवसायं च मेरुं सर्वशिलाहृताम् ॥ गन्धर्वाणां चित्ररथं गरुडं च पतत्रिणाम् ॥ ११ ॥ उच्चैःश्रवसमश्वानां गोवृषं च तथा गवाम् ॥ सुवर्णं सर्वरत्नाना मौषधीनां तथा यवम् ॥ १२ ॥ सत्यलोकं च लोकानां पातालानां रसातलम् ॥ शास्त्राणां च यजुर्वेदं सर्वधर्मविशेषतः ॥ १३ ॥ गायत्रीं सर्वमन्त्राणां छन्दसां च यदुत्तमम् ॥ मृगाणामथ शार्दूलं पन्नगानाञ्च तक्षकम् ॥ १४ ॥ ऐरावतं गजेन्द्राणां धर्मं सर्वसुखस्य च ॥ वासुकिं सर्वनागानाममूर्षीणां च तथा भृगुम् ॥ १५ ॥ विद्याधराणां सर्वेषां तथा देवीं सरस्वतीम् ॥ उत्पातानां तथा राहुं ग्रहाणां च दिवाकरम् ॥ १६ ॥ कालस्यावयवाश्चैव कालं संवत्सरं तथा ॥ व्याधीनां च ज्वरं राज्ये तृणामर्किनिशाकरौ ॥ १७ ॥ अभिषिक्तो नरेन्द्रेन्द्र ब्रह्मण स्वयमव हि ॥ भारतेऽस्मिन्पुरा वर्षे प्राप्ते वैवस्वतेन्तरे ॥ १८ ॥ तस्मादद्यापि च तयोरंशजाताश्च पार्थिवाः ॥ ततोऽभिषिक्तो देवानां राज्ये देवः शतक्रतुः ॥ संशय राजभिः सर्वैस्त्रैलोक्यपतिभिर्जितः ॥ १९॥ वज्र उवाच ॥ गजेन्द्रोभिषिक्तः स कथं महात्म्या सम्भूय सर्वैद्विरदप्रदिष्टैस्तौ ॥ एतन्ममाचक्ष्व भृगु प्रधान भक्तिममयं त्रिदशेन्द्रशत्रोः॥२०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शैलूषं प्रति नाडायनवाक्ये प्रतिसृष्टौ गजकीर्त्तनं नामैकान्न पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥ ॥ मार्कण्डेय उवाच ॥ सुमेरौ पर्वते श्रेष्ठे नानात्नोच्चलित्विषि ॥ प्रजापतिस्तथादाय राजानंवान्थ कीर्त्तितान् ॥ १ ॥ अभ्यषिञ्चत देवानां राज्ये कश्यपनन्दनम् ॥ तेजस्विनांमथादित्यं जह्वं निर्वृत्कमल्पम् ॥ २ ॥ तस्याभिषेके प्रददौ विश्वकर्मा मनोहरम् ॥ रत्नोत्ज्वलं भद्रपीठं कामरूपधरं शुभम्॥३॥ अत्रैवमुपदिध्याय स्वयं ब्रह्मा जगद्गुरुः ॥ अभ्यषिञ्चत देवानामाधिपत्ये शतक्रतुम् ॥४॥ ब्रह्मा विष्णुश्च शम्भुश्च साध्याश्च समरुद्गणाः ॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥ ५ ॥ भुगोराङ्गिरसः साध्या अश्विनौ च भिषग्वरौ ॥

ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ ६॥ यानि तोयान्युपादाय समुद्रः सरितस्तथा ॥ सरांसि च सतीर्थानि गन्धर्वाप्सरसस्तथा ॥ ७॥ तस्यै न्दुमण्डलाकारं छत्रं जग्राह केशवः ॥ श्वेतौ च बालव्यजनौ तथा चन्द्रदिवाकरौ ॥ ८ ॥ भृङ्गारं यादसां भर्ता दण्डं दण्डधरः प्रभुः ॥ मेनका चैव रंभा च तालवृन्तौ मनोहरौ ॥ ९ ॥ विविधञ्च जुहावाग्निं दैवाचार्यो बृहस्पतिः ॥ ततस्तस्य ददौ प्रीत्या वाहनाथै महोक्षम् ॥ १० ॥ ऐरावणं चतुर्दन्तं नागं च पुलहः स्वयम् ॥ पुलस्त्यः स्वसुतं प्रादाच्छ्रेतं तुरगमेव च ॥ ११ ॥ तुरगाणां सहस्रं च हरीणां वातंहासाम् ॥ श्रिया दत्तं ततः प्रीत्या रथवाहनमुत्तमम् ॥ १२ ॥ तमाप्रियोर्जयामास काञ्चनेन रथेन च ॥ इन्द्रद्युम्नसवर्णाभिः पताकाभिरनन्तरम् ॥ १३ ॥ वायुस्ते योजयामास ध्वजं नागेन शङ्करः ॥ बबन्ध मुकुटं तस्य स्वयं ब्रह्मा जगद्गुरुः ॥ १४ ॥ उपानहौ ददौ तस्य विरूपाक्षस्तथानघ ॥ खड्गञ्च विमलोदंस्तत्तस्य शुक्रेण यादव ॥ १५ ॥ चन्दनानि च मुख्यानि गन्धानि विविधानि च ॥ हिमालयः स्वयं तस्य प्रादाद्धाकुकुरु गुरुः ॥ १६ ॥ रत्नानि सुविचित्राणि समुद्रः स्वयमेव हि ॥ दुदुश्च ऋतवस्तस्य पुष्पाणि च फलानि च ॥ १७ ॥ ननृतुर्देवगन्धर्वा जगुश्चाप्स रसां गणाः ॥ हृष्टं प्रमुदितं चासीत्त्रैलोक्यं सचराचरम् ॥ १८ ॥ सर्वगन्धानुपादाय सुरभिर्मारुतो ववौ ॥ महता स वरोचेन तर्पयित्वा बृहस्पतिम् ॥ १९॥ सर्वैश्चेस्तर्पयामास सर्वानैव द्विजोत्तमान् ॥ सप्ताहे मानसीं सिद्धिं प्रादात्सर्वेषु जन्तुषु ॥ २० ॥ व्याधिमृत्युजराशोकाविनि वृत्ता जगत्रयी ॥ सप्ताहं नरकस्थानां नैव सर्वाश्च यातनाः ॥ २१ ॥ सर्वं मुदितमेवासीत्त्रैलोक्यं सचराचरम् ॥ किरीटी स्ववलात्सर्वाङ्गैः कुण्डलोत्तमाभूषितः ॥ २२ ॥ कौशेयवसनस्तत्र श्वेतमाल्याविभूषणः ॥ श्रियं दधार सोमस्य श्वेतमभ्रस्य शतक्रतुः ॥ २३ ॥ भद्रासनगतं शक्रं प्रणेमुः सर्वदेवताः ॥ स्तूयमानो महाराज तदा देवेन दण्डिना ॥ २४ ॥ ऋषभर्तुयुतस्तुष्टस्तं च गन्धर्वाप्सरसस्तथा ॥ मङ्गलालम्भनं चक्रे ततः शक्रः सुरारिहा ॥ २५ ॥ पूर्णकुम्भं सुमनसो रत्नान्याज्यं तथा दधि ॥ फलानि श्रीफलं चैव उद्भूतानि वसुंधरा ॥ २६ ॥ स्वस्तिकाङ्कुशांश्चैव नन्द्यावर्ताश्च काञ्चनस ॥ कांचनोल्लिखिताश्चैव गाश्च मुख्याः सरिद्वराः ॥ २७ ॥ उद्गदानं तथा दूर्वा दर्पणं चाज्यमेव च ॥ धर्मः सत्यं च शूलं च बलं च यदुनन्दन ॥ २८ ॥ उपासन्त महाभागं सशरीराः शतक्रतुम् ॥ कांतिर्लक्ष्मीर्धृतिः श्रद्धा पुष्टिर्मेधा क्रिया मतिः ॥ २९ ॥ बुद्धिर्लज्जा वपुः शान्तिस्तनूसूया तथैव च ॥ उपासन्त तदा देवं सर्वराजेस्वरं विभुम् ॥ ३० ॥ ततो ववन्दे पितरं मातरं शङ्करं हरिम् ॥ ब्रह्माणं वरदं सौम्यमृषींश्च यदुनन्दन ॥ ३१ ॥ ततो रथेन शुक्रेण स तु मातलिर्यन्त्रिणा ॥ विनाशयामास रणे देवतानामरातयः ॥ ३२ ॥ २७

पालयामास सकलं तथैव च जगत्त्रयम् ॥ शक्राभिषेकमेतत्त्वे कथितं यदुनन्दन ॥ ३३ ॥ श्रोतव्यमभिषेकं तु यात्राकालेषु चाप्यथ ॥ गृहप्रवेशे वैवाहे पुण्याहेषु परेषु च ॥ ३४ ॥ एतत्पवित्रं मङ्गल्यं धन्यं श्रुतिसुखावहम् ॥ पाप्मालक्ष्मीशमनं दुःस्वप्नकिल्बिषापहम् ॥ ३५ ॥ पुण्याहकालेषु नरेन्द्रचन्द्र श्रुत्वाभिषेकं बलसूदनस्य ॥ धर्मार्थकामान्पुरुषा लभन्ते व्याधिप्रणाशं च यशस्तथायुम् ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राभिषेको नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥ ॥ छ ॥ वज्र उवाच ॥ पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वराट् तदा ॥ पप्रच्छ किं तदा भूयस्तन्न नाडायनं द्विजम् ॥ १ ॥ श्रोतुममृतं कथयतो न तृप्यामि तवानघ ॥ त्वं हि ज्ञाननिधिर्विप्रैः प्रोच्यसे वेदपारगैः ॥२॥ मार्कण्डेय उवाच ॥ पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वसत्तमः ॥ भूयः पप्रच्छ तं विप्रं गजोत्पत्तिं सविस्त- राम् ॥३॥ शैलूष उवाच ॥ कुञ्जराणां समुत्पत्तिं श्रोतुमिच्छामि विस्तरात् ॥ कुञ्जरा हि महाभाग भृशं च दयिता मम ॥४॥ नाडायन उवाच ॥ यदा प्रसूता मार्त्तण्डमदितिर्भर्त्सत्कारणैः ॥ ५ ॥ तदा तदण्डमुत्सृज्य दृष्ट्वान्वक्स्पः स्वयम् ॥ तेजोऽधिकत्वाद् द्रष्टुं नापश्यत यदा शिशुम् ॥ ॥ ६॥ उवाच देव्या अण्डेऽस्मिन्कोऽसौ बालको मृतः ॥ ततः स भासः सकलं तेजसाभासयञ्जगत् ॥७॥ तेन मार्त्तण्डता ह्यस्य कथिता द्विज- सत्तमैः ॥ ततस्त्वण्डकपाले द्वे गृहीत्वा तु प्रजापतिः॥८॥पृथक्पृथगवस्थाय रथन्तरमसागायत् ॥ मन्त्रैः प्रवेशयामास इरायास्तौ प्रजेप्सया ॥ ९ ॥ उदरे पुलहस्तेन जनयामास सा गजान् ॥ अष्टौ महाबलान्नागांस्तेषां नामानि मे शृणु ॥ १० ॥ ऐरावणस्तथा पद्मः पुष्पदन्तश्च वामनः ॥ सुप्रतीकोऽथ नीलः कुमुदश्च मतङ्गजः ॥ ११ ॥ शक्राद्यानां दिशांशानां यथासंख्येन वाहनाः ॥ चत्वारो जातयस्तेषामेकैकस्यान्यवे- स्मृताः ॥ १२ ॥ भद्रा मन्दा मृगा चैव संकीर्णा च जनाधिप ॥ भद्रा श्रेष्ठा भवेत्तासां मन्दा मध्या कनीयसी ॥ १३ ॥ मृगा ज्ञेया च बाहुल्यात्सं- कीर्णा पार्थिवोत्तम ॥ भद्रमन्दमृगाणां च तथा वक्ष्यामि लक्षणम् ॥ १४ ॥ संकीर्णानां च संकीर्णं लक्षणं भविता तथा ॥ १गूढोष्ठमस्तकः स्वक्षः पृथ्वायतसुवाङ्गुलिः ॥ १५॥उन्नतोऽग्रसत्त्वश्च समगात्र्यो महाकरो ॥ ताम्रतालुर्वीक्षणः स्निग्धः सहिष्णुः स्वासनस्तथा ॥ १६॥ अन्वर्थवेदी बलवा- न्भद्रो ज्ञेयो मतङ्गजः ॥ गम्भीरवेदी निःशङ्कस्तीक्ष्णास्यो महोदरः ॥ १७॥ दीर्घमन्द्राङ्गुलिर्ह्रस्व सुविभक्तशिरोधरः ॥ स्थिरः कक्षवलस्थूलो दीर्घबालधिपुष्करः ॥ १८॥ हर्यक्षः सूक्ष्मनासिञ्च मन्दो ज्ञेयो मतङ्गजः ॥ ह्रस्वः शुष्कादङ्गुलीर्दुर्बलो ह्यनासनस्तथा ॥ १९ ॥ ह्रस्वोतनस्तवी दुर्गन्धा


१ 'गूढोष्ठमस्तकः' इति ख०।

यूथस्यानुचरस्तथा ॥ दीर्घजिह्वविषाणश्च दीर्घक्षासनस्तथा ॥ २० ॥ कृशाक्षमश्च दीर्घशी मृगो ज्ञेयो मतङ्गजः ॥ संकीर्णलक्षणो
नागः संकीर्णश्च निगद्यते ॥ २१ ॥ अतः परं प्रवक्ष्यामि गजानां ते व्राष्टकम् ॥ हिमवन्मलयञ्चैलगृह्यङ्गमध्ये महद्वनम् ॥ २२ ॥ प्राच्याम
रावणस्योक्तं वनं यत्र मतङ्कजाः ॥ किञ्चित्कमलवर्णाभाश्चपलाः पृथुमस्तकाः ॥ २३ ॥ कुनखा रूपवन्तश्च तथा मन्दमदा गजाः ॥ उन्मत्तगङ्गा
त्रिपुरी दशार्णं मेकलास्तथा ॥२४॥ तेषां मध्ये कुरुपाण्ड्यं वनं पद्मस्य कीर्तितम् ॥ ह्रस्वाश्वाण्डास्तथा श्यामाः शीघ्रोद्गममहास्वनाः॥२५॥ सूक्ष्म
बिन्दुचितस्तत्र भवन्त्यत्यर्थवेदिनः॥बिल्वैरैलै वेत्रवती दशार्णं च महागिरिम्॥२६॥तेषां दशार्णकं मध्ये पुष्पवन्तस्य काननम् ॥ सुवृत्तजघनश्चास्या
माः सूक्ष्मविन्दुविचित्रिताः॥२७॥स्थूलहस्तशिरोग्रीवास्तत्र जाता मतङ्गजाः॥ पारियात्रकवेदर्श्वनर्मदाब्रह्मवर्धनम् ॥२८॥ वामनस्य वनं मध्ये तेषां
वै मार्गरेयकम्॥सुप्रमाणाश्च मञ्जाक्षाः शीघ्रगाश्च सुविग्रहाः॥२९॥करेणुनामधेयाश्च तत्रोक्ताश्च सुगन्धिनः॥विन्ध्यसह्योत्कलानां च दक्षिणस्यार्णवस्य
चा॥३०॥वनं च मध्ये कालेशं सुप्रतीकस्य कीर्तितम् ॥ चापवंशावृहत्तन्वाः पीनहस्वशिरोधराः ॥ ३१ ॥ तनुत्वगुत्तरा दीर्घाः पद्माभास्तत्र दन्ति
नः॥ सेवाद्देशः समुद्रश्च प्रमहारं च नर्भदा ॥३२॥ तेषां मध्येऽञ्जनाख्यस्य वनं खल्वपरान्तकम् ॥ पीनायतविषाणास्या महाकाया बलाधिकाः ॥
॥३३॥रक्तताल्त्वोष्ठजिह्वाश्च जायन्ते तत्र दन्तिनः ॥ कुरास्थली महीपाल अवन्त्यर्बुदनर्मदाः॥३४॥तेषां मध्ये तु सौराष्ट्रं वनं नीलस्य कीर्तितम्॥
तस्य वंशे तु जायन्ते चण्डाश्चैवाल्पदंष्ट्रकाः ॥ ३५ ॥ सूक्ष्मह्रस्वत्वचो व्यालास्तथा शिक्षात्यजा गजाः ॥ हिमवत्कालिकासिन्धुकुरुजाङ्गलमेव चा
॥ ३६ ॥ तेषां पञ्चनदं मध्ये कुमुदस्य महद्वनम् ॥ स्फुटिताग्रद्विजास्तत्र जायन्ते मलविक्षिपः ॥ ३७ ॥ दानशीलाश्च भूताश्च दुर्विवेयाश्च
वारणाः ॥३८॥ एतत्तेवोक्तं तु मतङ्कजानां कुलाष्टकं चैव व्राष्टकं च ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥ ३९ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु गजोत्पत्तिर्नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः॥ २५१ ॥
शैलूष उवाच ॥ विस्तरेण समाचक्ष्व वानराणां तु संभवम् ॥ अलंकृत इवाभाति यैर्वंशः पुलहस्य च ॥ १ ॥ नाडायन उवाच ॥ कश्य
पेयी हरिनांम या भार्या पुलहस्य च ॥ पुलहाज्जनयामास श्वेते नाम बलीमुखम् ॥ २ ॥ श्वेतस्तदूर्ध्वदृष्टिं च जनयामास वानरम् ॥ ऊर्ध्वदृष्टि
स्तथा व्याघ्रं व्याघ्रश्च शरभं तथा॥३॥ शरभश्च तथांचं च सिंहमृक्षं वानरम् ॥ ऋक्षी च जनयामास ऋक्षांश्चैव जनाधिपा॥४॥ वानरांश्च महाका
याञ्शतशोऽथ सहस्रशः ॥ येषामन्वयसम्भूता देवपुत्रा महाबलाः ॥५॥ उत्पन्ना रामसाहाय्ये रावणस्य वधैषिणः ॥ ऋक्षस्य भगिनी ऋक्षी प्रजा

वि० ध० ॥ १५८ ॥

प्र० खं० अ० २५२

पतिसुतावुभौ ॥ ६ ॥ धूम्रं च जाम्बवन्तं च जनयामास ऋक्षजौ ॥ जाम्बवाञ्जनयामास मार्जारं भीमविक्रमम् ॥ ७ ॥ मार्जारस्य च मार्जार्याः कुले जाता महाबलाः ॥ ऋक्षस्य वानरेन्द्रस्य दुहितां मानसीं स्वयम् ॥ ८ ॥ ददौ प्रजापतिः श्रीमान्रूपयौवनसंयुताम् ॥ कामयामास तां शक्रस्ततो वालिर्जायत ॥ ९ ॥ तामेव कामयामास भास्करः स्वयमेव तु ॥ सुग्रीवं जनयामास भास्करात्सा सुमध्यमा ॥ १० ॥ तत्र वानरराजेऽभूद्वालिर्विक्रान्तपौरुषः ॥ यस्तु रामेण निहतः सुग्रीवस्त्वभिषेचितः ॥ ११ ॥ तस्यासन्वशगाः सर्वे वानरा देवयोनयः ॥ वालिपुत्रोऽङ्गदो नाम हनुमान्वायुनन्दनः ॥ १२ ॥ नीलो वह्निसुतः श्रीमान्विश्वकर्मसुतो नलः ॥ धर्मपुत्रः सुषेणश्च ऋषभो गरुडात्मजः ॥ १३ ॥ द्वावश्विनसुतौ वीरौ मैन्दो द्विविद एव च ॥ धूम्रश्च जाम्बवांश्चैव वेगदर्शी च वानरः ॥ १४ ॥ मृत्योः पुत्रा महावीर्या मृत्युतुल्यपराक्रमाः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ १५ ॥ यमस्य तनयाः पञ्च गोलांगूला महाबलाः ॥ श्वेतो ज्योतिर्मुखश्चान्यो भास्करस्यात्मजावुभौ ॥ १६ ॥ वरुणस्यावरः पुत्रो हेमकूटः प्रतापवान् ॥ देवपुत्रास्तथैवान्ये ऋक्षगोपुच्छवानराः ॥ १७ ॥ शतसाहस्रयूथानां राजानो भीमविक्रमाः ॥ हिमवन्महिषनिलयाः श्वेतनीलनिलयास्तथा द्वीपेषु च ॥ १८ ॥ शृङ्गवन्माल्यवद्विन्ध्यऋक्षवन्तनिवासिनः ॥ ये वसन्ति सदा सह्ये ऋष्यमे गन्धमादने ॥ १९ ॥ सागरान्तपपर्यन्ते तथा द्वीपेषु सप्तसु ॥ ब्रह्मण्या बलवन्त शूरा धर्मपरायणाः ॥ २० ॥ नीतिशास्त्रेषु कुशलाः सर्वशास्त्रविशारदाः ॥ सुनीताः सत्त्ववन्तश्च दृता नीतिगृहे रताः ॥ २१ ॥ सहाया रामभद्रस्य रावणस्य वधैषिणः ॥ हस्तिवानरसंखामे पुरा रुधिरकर्दमे ॥ २२ ॥ गिरिकूटनिभा नागा विजिता यैः सहस्रशः ॥ सहाया रामभद्रस्य ते वीरा भरतस्य च ॥ मा गच्छ संयुगं तस्माद्भरतेन महात्मना ॥ २३ ॥ सर्वास्त्रविज्ञानविशारदेन संग्रामशौण्डेन जितेन्द्रियेण ॥ धर्माच्च रामस्य परायणेन शक्राधिकेन त्वरितोपरोषेण ॥ २४ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्येषु वानरोत्पत्तिर्नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥

शैलूप उवाच ॥ किनिमित्तमभूद्युद्धं वानराणां तु कुञ्जरैः ॥ कीदृशं चाभवद्युद्धं तन्ममाचक्ष्व पृच्छतः ॥ १ ॥

नाडायन उवाच ॥ वनाट्यं करीन्द्राणां यन्मयोक्तं पुरा तव ॥ तद्भूतं भारताद्वाह्यमंगस्य नवमस्य च ॥ २ ॥ द्वीपेषु राजन्सर्वेषु वर्षेषु च पृथक्पृथक् ॥ वनेषु निवसन्त्येते करीन्द्रा वानरास्तथा ॥ ३ ॥ रक्षन्ति वानरास्तत्र काननेषु च शालिनः ॥ पातयन्ति द्रुमाभागा लीलयैव जनाधिप ॥ ४ ॥ द्रुमेषु पात्यमानेषु कुञ्जराणां तरस्विनाम् ॥ वानराः कदनं चक्रुः क्रोधाविधाः पुनः ॥

॥ १५८ ॥

पुनः ॥ ६ ॥ हन्यमानेषु नागेषु करीन्द्रांश्च वलीमुखान् ॥ पातयन्ति महाराज शतशोऽथ सहस्रशः ॥ ६ ॥ एवं प्रवृद्धे वैरे तु वानरैः कुञ्जरै स्तथा ॥ राज्ञे निवेदितं गत्वा ऋक्षैरावणयातस्तदा ॥७॥ ततस्तौ पार्थिवौ क्रुद्धौ चक्रतुर्बलमुत्तमम् ॥ वानरास्तु महाकाया वीराः परमदंष्ट्रसः ॥८॥ ऋक्षाश्च सगोगपुच्छाः किष्किन्ध्यां पुनरागताः ॥ ऐरावणाज्ञां ये नागाः सपक्षाः पर्वतोत्तमाः ॥ ९ ॥ प्राच्यां वनमथाजग्मुः सर्वतः पृथिवीपते ॥ बलाणांवावृभौ क्षुब्धौ क्रोधाद्दिष्टौ परस्परम् ॥ १० ॥ अन्तर्वेदीं तदा तौ तु जग्मतुर्बलदर्पितौ ॥ ततः प्रावर्तत रणं घोररूपं भयानकम् ॥ ११ ॥ भूमौ चैवान्तरिक्षे च नागानां सह वानरैः ॥ द्रुमप्रहारानिहताः कुञ्जरा वानरोत्तमैः ॥ १२ ॥ पतन्तो गगनाद्भूमीं चालयन्ति मुहुर्मुहुः ॥ खुरेषु वानरं गृह्य द्वौ नागौ गगने तथा ॥ १३ ॥ पातयन्ति महाराज भिन्दन्ति दशनैस्तथा ॥ ममन्थुरपरे पादैर्दहनाताडयँस्तथा ॥ १४ ॥ वृक्षान्करेण्योत्पाट्य चिक्षुपुर्येन वानराः ॥ ऐरावणेन निहताः कोटिशस्तत्र वानराः ॥ १५ ॥ पदेन सुप्रतीकेन वामनेनाञ्जनेन च ॥ कुमुदेन च नीलेन पुष्पदन्तेन चाप्यथ ॥ १६ ॥ तेषामन्वयसम्भूतैस्तथैवान्यैश्च कुञ्जरैः ॥ भद्रेण चाथ मन्देन मृगेण च महीपते ॥ १७ ॥ भद्रमन्देन मिश्रेण सार्वभौमेन वेधसा ॥ राज्ञा सुमनसा राजँस्तथैव च सुवर्चसा ॥ १८ ॥ वलाहकेन मत्तेन भीमेनेन्दीवरेण च ॥ हेमकूटेन कूटेन शंखेन निषेधेन च ॥ १९ ॥ श्वेतेन राजनक्तेन काञ्चनेनाङ्ग सुप्रभ ॥ विरूपाक्षेण चोग्रेण षड्दन्तेनासितेन च ॥ २० ॥ चतुर्दन्तेन यक्षण रक्षसा भीममा लिना ॥ ऋक्षण वानरेन्द्रेण कोटिशः कुञ्जरा हताः ॥ २१ ॥ शरभेण गवाक्षेण तथा कनकविन्दुना॥ऋक्षराजेन धूम्रेण तथा जाम्बवता नृप ॥२२ ॥ सुषेणदधिवक्त्राभ्यां तथा केसरिणा रणे ॥ रणचण्डेन वीरेण वानरेन्द्रेण जाम्बुना ॥ २३ ॥ तथा शतबलिर्येश्च तेनापि कदनं कृतम् ॥ पनसेन विशालेन गजेन गवयेन च ॥२४॥ हेमकूटेन विपुला भातुरोगेणा निशामृता ॥ गन्धमादनेनाम्ना च विजयेन जयेन च ॥२५॥ कुमुदेनाथ पद्मेन कनकाक्षेण शम्भुना ॥ इत्येवं दृश्यमानेषु वानरेषु गजेषु च ॥२६॥ चचाल मोदिनी राजंस्तस्मिन्काले मुहुर्मुहुः ॥ स्वयूथ्यैश्च निघातैर्वानरैः कुञ्जरैस्तथा ॥ २७ ॥ हतैश्च हन्यमानैश्च घोरमायोधनं बभौ ॥ शरीरैर्यत्र संरुद्धाः स्रवन्तो रुधिरापगाः ॥ २८ ॥ वानराणां गजानां च महा शैलोपमैर्नृप ॥ तस्मिंस्तथाविधे युद्धे गजवानरसंक्षये ॥ २९ ॥ आजगामाथ तं देशं स्वयं देवः शतक्रतुः ॥ अभ्येत्य वारयामास वानराँश्चैव कुञ्जरान् ॥ ३० ॥ ततश्च वानराः सर्वे शक्रगौरवयन्त्रिताः ॥ संन्यवर्तन्त संग्रामान्माहाः प्राञ्जलयः स्थिताः ॥ ३१ ॥ त्यक्तयुद्धानरणे जक्षु र्बानरान्कुञ्जरास्तथा ॥ क्रुद्धस्तेषां महेन्द्रस्तु वज्रेण शतपर्वणा ॥ ३२ ॥ पक्षाँश्छिच्छेद नागानां निहता यैर्वलीमुखाः ॥ छिन्नपक्षांस्तदा नागा

वि० ध० ॥१६३॥

प्र० खं० अ० २६४

न्हानार्थं महीतले ॥ ३३ ॥ प्रददौ लोमपादाय तदाङ्गेशाय पार्थिव ॥ लोमपादोऽपि नृपतिस्तदा तेषां चिकित्सितम् ॥ ३४ ॥ शिक्षां स्वस्त्य यनं चैव चक्रे सूत्रनिबन्धनम् ॥ ततः प्रभृति लोकेऽस्मिन्वाहनत्वं गता गजाः ॥ ३५ ॥ गुर्विणीभिर्नवन्त्याभिः करिणिभीजनेश्वर ॥ वने विव र्धिता वंशाः कुञ्जराणां पुनःपुनः ॥ ३६ ॥ वनेष्वपि तदा जाता विपक्षाः कुञ्जरोत्तमाः ॥ छिद्रपद्वेषु जातेषु प्रभावोण शतक्रतौः ॥ ३७ ॥ वान राश्च जयं लब्ध्वा प्रणिपत्य पुरन्दरम् ॥ स्थानानि जग्मुः स्वांन्येव राज्ञा रक्षण पूजिताः ॥ ३८ ॥ एवंविधैरभूतैषां वानराणां तु कुञ्जरैः ॥ युद्धमासीन्महाघोरं विजिता यत्र कुञ्जराः ॥ ३९ ॥ वानराश्च महाभागा वानरेन्द्रमुखोद्गताः ॥ दैवयोगेन विजिते भरतेऽपि यदृच्छया ॥ क्षिप्रमेवाद्धरिष्यन्ति त्वां समेत्य सबान्धवम् ॥ ४० ॥ तस्मान्न युद्धं मम रोचते ते रघूद्वहेनाप्रतिमेन राजन् ॥ नयात्मना च प्रतिपु रुषेण धर्माभिरामेण जनप्रियेण ॥ ४१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपं प्रति नाडायनवाक्ये गजवानरयुद्धवर्णनं नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५३ ॥ शैलूप उवाच ॥ अृतमेतन्मया सर्वं यत्त्वयोक्तं पुनःपुनः ॥ प्रणिपातमहं कर्तुं न शक्नो भर ताय तु ॥ १ ॥ उच्छेद्भेव न नमेद्बुधश्चैव पौरुषम् ॥ अद्य सर्वनिर्भोगं न नमे चेह कस्यचित् ॥ २ ॥ अतिक्रेशेन यद्धर्म्यः स्वधर्मेणस्यातिक्रमण च ॥ अरेर्वा प्रणिपातेन मास्म तेषु मनः कृथाः ॥ ३ ॥ आज्ञाफलं यदा राज्यं प्रणिपत्य तदा परम् ॥ किं नो राज्येन कर्त्तव्यं सामान्यजनब न्मिणा ॥ ४ ॥ प्रणिपत्य नरः शत्रुं मानी शौण्डादिभिर्जितः ॥ कथं शक्तोव्यवस्थातुं भार्यादियविषेष्वपि ॥ ५ ॥ अरेर्वा प्रणिपातस्त्य संग्रामे मरणस्य च ॥ यदन्तरं तद्वदति ब्रह्महत्याश्वमेधयोः ॥६॥ मार्कण्डेय उवाच ॥ शैलूपवचनं श्रुत्वा तदा नाडायनो द्विजः ॥ जगाम स्वगृहह्योयेव हतं मत्वा जनेश्वरम् ॥७॥ नाडायने तदा याते राजा गन्धर्वसत्तमान् ॥ समाहूयाब्रवीत्कांश्चित्कांश्चित्तत्र कृताञ्जलीन् ॥ अवज्ञाथ नरः शत्रुं क्षिप्रमेव विनश्यति ॥ ८ ॥ तस्मात्कार्यमवज्ञातं न कदाचिदणापि तु ॥ केचिद्गोध्यां गच्छन्तु गन्धर्वा बलदर्पिताः ॥ ९ ॥ आनयन्तु स्त्रियः शीघ्रे तत्र गत्वा च मायया ॥ ये मुख्याः सैनिकास्तस्य भरतस्य समत्विपः ॥ १०॥ सैनिकानां स्त्रियस्तपां कृत्वा प्रसुप्तवतो रणम् ॥ एवं विमनसो तेषां कर्ता स्मि कदनं महत् ॥ ११ ॥ घातयिष्यामि भरतं हतसैन्यमनन्तरम् ॥ शिविं चापरे यान्तु भरतस्य सुविक्रिपः ॥ १२ ॥ निघ्नन्तु योधान्सुसुप्ता न्मात्रौ तस्य सहस्रशः ॥ हतसैन्यं हनिष्यामि ततोऽहं भरतं रणे ॥ १३ ॥ राज्ञो गृहं तथैवान्ये प्रविशन्तु महाबलाः ॥ निघ्नन्तु तत्र संतुप्तान्यैर्नि र्कास्त्व भुवाजितः ॥ १४ ॥ हतसैन्यं हनिष्यामि भरतं सतुधाजितम् ॥ अदृश्यैर्मायया गत्वा गन्धर्वबलदर्पितैः ॥ १५॥ यथोक्तमेतत्कर्तव्यं वचनं

॥१६३॥

मम सत्वरैः ॥ एवमुक्तास्तु गन्धर्वाः प्रणिपत्य महीपतिम्॥ १६॥ राजाज्ञां शिरसाऽऽगृह्य जग्मुस्त्वरितविक्रमाः॥दिनशेषेण संप्राप्य यथादिष्टं महीं स्थिता ॥ १७ ॥ व्यचेष्टन्निशि राजेन्द्र यथाज्ञातं चिकीर्षवः ॥ विसर्जयित्वा गन्धर्व्वाञ्छैलूषोऽप्यथ सत्वरः॥१८॥आज्ञापयत सैन्यानि श्वो युद्धमिति पार्थिव ॥ जगाम चास्तं सविता कमलानि विशिल्यन् ॥ छादिते तमसा लोके प्रवृत्ता यामिनी तथा ॥१९॥ गन्धर्वराजोऽपि तदा विजह्रे स्त्रीभिः सहान्तःपुरमृत्य साकम् ॥ गन्धर्वपुत्राश्च तथा विजहुः श्वो युद्धमित्येव विवृद्धदर्पाः ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वप्रेषणं नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥ छ ॥ मार्कण्डेय उवाच ॥ आज्ञाता ये त्वयो- ध्यायां गन्धर्व्वास्तेन भूभुजा ॥ अयोध्यां ते समासेदुर्निशीथे लघुविक्रमाः ॥ १ ॥ मायाच्छन्नशरीराश्च विचेरुस्ते महीपते ॥ अयोध्याय महाराज ददृशुः श्रियम् ॥ २ ॥ शशाङ्कर्क्षगृहाणि बहुभौमानि यादव ॥ ददृशुर्गृहमुख्यानि शतशोऽथ सहस्रशः ॥ ३ ॥ सर्वरत्नोप- पन्नानि शयनासनवन्ति च ॥ सुवर्णदामचित्राणि मुक्ताजालचितानि च ॥ ४ ॥ प्रज्वलिद्रत्नदीपांश्चाप्यन्तःपुरपुरोहितान् ॥ बहुमाल्यानि मुख्यानि दीपोद्गारेण पार्थिव ॥ ५ ॥ प्रविश्य गृहमुख्येषु ददृशुस्तेषु मानवान् ॥ चन्दनागुरुदिग्धाङ्गांस्तथाऽभरणभूषितान् ॥ ६ ॥ क्रीडमानान्सह स्त्रीभिर्दिवा देवगणानिव ॥ भरतानुगतानाञ्च सैनिकानां गृहेषु च ॥ ७ ॥ स्त्रीणां भर्तृविहीनानां ददृशुर्बलचेष्टितम् ॥ काचित्तु लेभे शयने निद्रां मुद्गतलोचना ॥ ८ ॥ आकुलं शयनं चक्रे काचिद्भयो विवर्त्तनैः ॥ मृणालशयने काचित्कदलीपत्रसंस्तरे ॥ ९ ॥ चन्दनं चन्द्रपादेषु मृणाल- वलयेषु च ॥ कामाग्निनाशाशक्तेषु काचिच्चक्रे तथा रूपम् ॥ १० ॥ अनुधारा निपतिताः कामाग्निप्रदीपिते ॥ अम्बरीषे यथा नाशं कस्याश्चि- द्याति वक्षसि ॥ ११ ॥ काचिन्नुमोहे शयने वर्णयन्ती सखीजने ॥ उल्लपन्ती तदा दैवात्कान्तसम्भोगजं सुखम् ॥ १२ ॥ तालवृन्तानिलैः शीतैर्विज्यमाना सखीजनैः ॥ दृढताम्यत्यधिकं काचित्स्वैः श्वासैर्विनिस्सृतैः ॥ १३ ॥ स्वप्नेऽपि कान्तसंयोगकारिण्यां हि सखी मम ॥ दैवा- न्मयि हता निद्रा सापि काचिदभाषत ॥ १४ ॥ केयूरस्थानसंप्राप्ता वराङ्गदविभूषणा ॥ कामक्षामवपुः काचिज्जगाम सखि शोच्यताम् ॥ १५ ॥ दत्तध्यानतया कान्ते शोच्यमाना सखीजनैः ॥ अविज्ञाता तथा काचिन्नामापत सखीजनम् ॥ १६॥ चित्रभित्तिगतं कान्तं काञ्चिच्चानिमिषेक्षणा॥ बभूव चित्रन्यस्तेव पश्यन्ती विगताक्रिया ॥ १७ ॥ इति गन्धर्व्वमुख्यानां पश्यतां रजनीमुखे ॥ नासीत्स्त्रीहरणे शक्तिः प्रभावाद्राघवस्य च॥१८॥ हितेच्छुरासां स यदा निविष्टो देवेश्वरश्चक्रधरो नृरूपी ॥ ततः प्रभावो न बभूव तेषां हर्तुं स्त्रियश्चारुशशाङ्कवक्त्राः ॥ १९ ॥ ॥ इति श्रीविष्णुध

वि० ध० ॥१३६॥ प्र० खं० अ० २५७

र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विरहिणीवर्णनं नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५५ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ गन्धर्वाः कटके केचिद्विविशुर्भरणतस्य तु ॥ पुरस्कृत्य नृपत्याज्ञां सैनिकानां वधेप्सवः ॥ १ ॥ मायाच्छन्नशरीरास्ते ददृशुर्निशि चेष्टितम् ॥ प्रातः समरकामानां कान्तोत्कण्ठितचेतसाम् ॥ २ ॥ मनोरथरथाढ्यः कश्चिच्चाणेश्वरीं ब्रजन् ॥ न लेभे शयने निद्रां कृत्वे गणममुत्सुकः ॥ ३ ॥ कश्चिच्चन्द्रकरस्पर्शशिशिरोपारिपीडितः ॥ ददर्श चन्द्रं दिव्याङ्घिप्रावदनलनिर्जितम् ॥ ४ ॥ कश्चित् चिन्तयन्नेवं प्रियां प्राणधनेश्वरीम् ॥ उत्तानं शयनं चक्रे तारकागणकं दिवि ॥ ५ ॥ पश्यन्ननिमिषकूंतं दिद्यं पञ्चच्छंदं विलज्जितम् ॥ प्रियया स्वकृतं कश्चित्सुहृदा वयति शर्वरीम् ॥ ६ ॥ निवेद- मतिरम्येण दद्दते चन्द्ररश्मिभिः ॥ कश्चिद्विहीनस्तन्वङ्ग्या शयनीयोऽपि लिख्यते ॥ ७ ॥ स्वप्नेनोपप्लवन्तान्दिसङ्गमागमनोत्थः ॥ पुरोऽङ्गुपिनो गन्धर्वः कश्चिद्भोमाभसम्भवात ॥ ८ ॥ प्रियां संप्रेषितां प्रेक्ष्य समालापपरायणः ॥ न वेद कश्चिद्राजेन्द्र गतामपि विभावरीम् ॥ ९ ॥ ज्वलन्तम् निशं कश्चिच्छरीरे विरहानलम् ॥ सहसा शमयामास ध्यायन्नम्बुजसुखीं प्रियाम् ॥ १० ॥ श्यामां विकचुरुच्कां तन्वीं भुनां प्राणपहारिणीम् ॥ प्रियां च लङ्घयिष्ठिं च कश्चित्स्मरति मुत्सुकः ॥ ११ ॥ सगुणां तनुमध्यां च नवकाञ्चनसन्मृणाम् ॥ यस्माद् दयितां कश्चिद्वापयष्टिं तथैव च ॥ १२॥ विचिन्तनानि गन्धर्वा भरतस्य च सैनिकान् ॥ न शेकुराधर्षयितुं भरतस्य समाश्रयात् ॥ १३ ॥ अन्येऽपि ये देववरम्य विष्णोः म्मरन्ति नित्यं यदुनाथपा दौ ॥ गन्धर्वयक्षासुरराक्षसेभ्यो भयं न तेषां भवतिह किञ्चित् ॥ १४ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे विरहिण्वेनं नाम षट्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५६ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ अथ गाजगुह्रस्यं तु नगरं चे विसाजिताः ॥ गंधर्वा ददृशुस्तत्र पुरिश्रियमनुत्तमाम् ॥ १ ॥ चन्द्रासपत्यन्तरुतानि गृहसुल्यानि सर्वशः ॥ ददृशुर्बहुगन्तानि बहुधान्यनतानि च ॥ २ ॥ पुरोद्यानानि रम्याणि ददृशुश्च समन्ततः ॥ अलंकृतानि वापीभिर्दुमषण्डैश्च याद्वव ॥ ३ ॥ उद्यानेषु विचित्रेषु नरगुल्यानुगान्निताम ॥ पश्यन्ति तत्र सङ्गानि गंधर्वाः पानपायिनाम् ॥ ४ ॥ बहुकण्ठानां निनोदेन गीतेन मधुणेण च ॥ एकातामिव संयातं चारुपदपदिशिक्षितम् ॥ ५ ॥ वेश्याश्चैवोपवृन्त्यन्ति क्वचित्तत्र च कामुकान् ॥ क्वचित्सामभरणाः युक्ताः कान्तैः सह महोत्कटाः ॥ ६ ॥ पुंसानां नग्नगीणां गन्धर्वान्वतत्र चेष्ट्रि तम् ॥ ददृशुर्बहुदायाणां मायाच्छादितविग्रहाः ॥ ७ ॥ गायन्त्यन्ये रुदन्त्यन्ये हसन्त्यन्ये तथैव च ॥ आलिङ्ग्यन्ति तथैवान्ये मदमत्ताः पर-


१ 'मत्तानाम्' इति ख० ।

॥१३६०॥

स्परम् ॥ ८॥ भाषन्ते केचिद्व्यक्तं विह्वलाः पदेपदे ॥ शयने भ्रममाणैश्च कचिदस्थितदृष्टयः ॥ ९ ॥ कामिनीस्कन्धविन्यस्तव्यावृत्ता तथा परे ॥ कलहं चक्रिरे चान्ये स्तुवन्त्यन्ये निरर्थकम् ॥ १० ॥ स्खलमानपदा यान्ति स्थानं हृद्गतवञ्चितम् ॥ आह्वयन्ति गणान्केचित्प्रणमन्ति तथा परे ॥ ११ ॥ एवं सन्तजनाकीर्णे नगरे गीतनादिते ॥ ददृशुर्गृहमुख्येषु नरनारीर्विचेष्टितम् ॥ १२ ॥ सम्बोध्यमाना दूतीभिस्त्वङ्गकृत भुजाः स्त्रियः ॥ यान्ति कान्तान् सम्भ्रान्ता मदपानसमुत्सुकाः ॥ १३ ॥ पपुः काश्चित्प्रियैः सार्थं पानं मदसमीरिताम् ॥ पाययन्त्यपराः कान्ता भोजयन्त्यपराः प्रियान् ॥ १४ ॥ प्रासादेषु विचित्रेषु तथा वातायनेषु च ॥ रतिश्रान्तास्तथा सुप्ताः काश्चित्कान्तैः सह स्त्रियः ॥ १५ ॥ काचिद्गौरी प्रियं श्याममालिङ्ग्य शयने स्थिता ॥ उत्पलस्रगिवाभाति युक्ता जातिस्रजा सह ॥ १६॥ गौरं गौरसमाश्लिष्य काचिदाभाति सुन्दरी ॥ आलिङ्गिता चन्द्रकैश्चन्द्रकान्तशिला यथा ॥ १७ ॥ श्यामा श्याममसारश्लिष्टा काचिदाभाति पार्थिव ॥ पयोदपङ्क्तिर्गगने यथा पार्थिव सोल्का ॥ १८ ॥ अलकिकुसुमप्रौढा काचिच्चुम्बति प्रियम् ॥ प्रियेण गाढमाश्लिष्टा विलक्षस्मितमभवत् ॥ १९ ॥ काचिच्च वनिता प्रौढा कर्पूर रजसा स्वयम् ॥ अवाकिरति कान्ताङ्गं रतिस्वेदपरिप्लुतम् ॥ २० ॥ पश्य मां तारकां चन्द्रो लेखां समालिङ्ग्य तिष्ठति ॥ इत्याह दयितं काचित्प्रौढा रतिसुखार्थिनी ॥ २१ ॥ काचिद्रूपवरा दृष्ट्वा सुरतार्थिनी ॥ कान्तेनालिङ्गिता गाढं मुदितेन रतिलिप्सुना ॥ २२ ॥ कान्तेन काचिद्रोषोष्ठी चुम्बनायार्पिते मुखे ॥ न यास्ये तव विश्वासं भूयश्चेदेवमकृथाः ॥ २३ ॥ १ काचित्प्रसुप्ता कान्तेन परा स्पृष्टा रतार्थिनी ॥ कान्तमालिङ्गदत्यर्थं त्यक्तनिद्रा ससम्भ्रमा ॥ २४ ॥ इत्येवमपि विश्वस्तान्सैनिकांस्तान्सुखान्वितान् ॥ हंतुं न शेकुर्गन्धर्वा भरतस्य समाश्रयात् ॥ २५ ॥ एषां पुरे सन्निहितः स विष्णुर्महाभावो रघुवंशगोप्ता ॥ तेषां पुरे नास्ति भयं नरेन्द्र गन्धर्व यक्षासुरपन्नगेभ्यः ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे निशीथभोगवर्णनो नाम सप्तपञ्चाशदुत्तरद्विशततमोऽ ध्यायः ॥ २५७ ॥ ॥ मार्कण्डेय उवाच ॥ अथोत्थाय तदासमेत्य गन्धर्वाः शिविरात्तथा ॥ तथा राजगृहात्सर्वं शैलूषाय न्यवेदयन् ॥ १ ॥ न विद्मस्तत्कथा तत्र न रक्षा काचिदीदृशी ॥ केवलं तु प्रभावेण रामस्य भरतस्य च ॥ २ ॥ नास्माभिः किं कृतं राजन्गृहीतुं क्वचिदप्यपि ॥ यत्तत्र शेषं कर्त्तव्यं तत्करोतु महीपतिः॥३॥ एवमुक्ताः स गन्धर्वैरजनीविगमे तदा ॥ उद्योगमकरोच्छीघ्रमाज्ञापयत सत्वरः ॥४॥ भेरी महादिको


१ 'मदालससमुत्सुकाः' इति ख० ।

वि० ध० प्र० खं० अ० २६०

चैव ततः शीघ्रमन्यत् ॥ यस्याः शब्देन गन्धर्वा राजद्वारमुपागताः ॥ ५ ॥ गजवारेण महता तुरगाणां बलेन च ॥ रथैश्च मेघसन्नादैः पत्तिभिश्च मदोत्कटैः ॥ ६ ॥ क्ष्वेडितास्फोटितरवैः शङ्खभेरिनिनादितैः ॥ ह्रादेन गजघण्टानां गजानां चैव बृंहितैः ॥ ७ ॥ हेषितैस्तुरगाणां तु बभूव तुमुलं महत् ॥ शैलूषोऽपि तदा श्रुत्वा हुत्याग्निं द्विजपूजनम् ॥ ८ ॥ कृत्वा विनिर्ययौ श्रीमान्बरचन्दनभूषितः ॥ मौलौ वपुष्यानस्रद्धः स्रग्वी रुचिरभूषणः ॥ ९ ॥ आपादपात्रतीकाशैस्तुरंगैर्योजितं रथम् ॥ आरुरोह महातेजा विमानं सुकृती यथा ॥ १० ॥ यथोक्तस्य रथस्यासीत्पुरो रणविशारदः ॥ नरकेतुरिति ख्यातिस्त्रिषु लोकेषु विश्रुतः ॥ ११ ॥ केतौ तस्य रथे भाति वसन्तो मूर्तिमान्कृतः ॥ ततः स सह सैन्येन निर्ययौ नागसाह्वैः ॥ १२ ॥ व्यूहं च सर्वतोभद्रं समाधाय बलं तथा ॥ कृत्वा प्रत्यवेक्षत तदा भरतागमनं रुषा ॥ १३ ॥ सैन्येन महता राजन्यन्भार्यास्मरणोदयं प्रति ॥ १४ ॥ आत्तायुधाः क्ष्वेडितशङ्खनादैरानन्दयन्तः सुहृदां मनांसि ॥ गन्धर्वसूनुस्त्वथ रणचण्डवेगाः प्रतीक्षमाणा भगतस्य तस्थुः ॥ १५ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वसैन्यवर्णनं नामाष्टपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥

मार्कण्डेय उवाच ॥

विबुद्धा यामिनीशेषे सर्व एव महीक्षितः ॥ निर्ययुर्नगरात्कारैः स्थैः संग्रामलालसाः ॥ १ ॥ बलेन चतुरङ्गेण नानावादित्रनादिना ॥ वन्दिभिः स्तूयमानाश्च वन्द्यमानाश्च सैनिकैः ॥ २ ॥ पृथक्पृथक्सुसंनद्धा नगराद्बहिरागताः ॥ कृत्वा चावश्यकं सर्वं भरतोऽपि महायशाः ॥ ३ ॥ स्नातेन काञ्चनाङ्गेन निर्ययौ नगराद्वहिः ॥ गत्वा रथस्य तस्यासीद्युधाजिन्मातुलः स्वयम् ॥ ४ ॥ विराजे ध्वजं तस्य कौविदारमहाद्रुमम् ॥ न तेन शृण्वन्त्येत बर्हिनिर्गमय पार्थिवः ॥ ५ ॥ समेत्य पार्थिवैः सर्वैः पूजयित्वा च तान्नृपान् ॥ चक्रं कृत्वा महाव्यूहं प्रययौ लघुविक्रमः ॥ ६ ॥ प्रयाणे तस्य सैन्यस्य कम्पन्तीव वसुन्धरा ॥ शब्देन महता तस्य दीर्घते च नभस्तलम् ॥ ७ ॥ बभूव रजसैवान्धः निशकालः सुदारुणः ॥ तृषास्रग्पणाणिक्यतेजसा भुवि राजिता ॥ ८ ॥ रजोन्धकारेऽपि चमूः सा प्रयाति यथासुखम् ॥ स गत्वा दूरमध्वानं सूर्यस्योदयने प्रति ॥ ९ ॥ आसाद् महत्सैन्यं गन्धर्वाणां दुरत्ययम् ॥ १० ॥ तौ सैन्येतौयोघमहान्दुन्तौ संहारनागाविव तुल्यरूपौ ॥ वलार्णवौ गाढमथ प्रहारं प्रचक्रतुर्मन्युवशानुयातौ ॥ ११ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतसैन्यनिर्याणं नामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः ॥२५९॥

मार्कण्डेय उवाच ॥

ततः प्रवृवृते युद्धं तुमुलं लोमहर्षणम् ॥ शुराणां हर्षजननं भीतानां भयवर्धनम् ॥ १ ॥ सेनादिनिर्गमे तत्र रजसाच्छादितं जगत्॥ न प्रज्ञायत राजेन्द्र किञ्चिदेव समन्ततः ॥ २ ॥ कूजतां धनुषां शब्दः श्रूयते तुमुलै महान् ॥ शङ्खभेरीनिनादश्च कुञ्जराणां च बृंहितम् ॥३॥ हयानां

॥१६३॥

हृष्यमाणानां शूराणां चैव गर्जताम् ॥ शस्त्राणां पात्यमानानां योधानां कवचेष्वपि ॥४॥ तिष्ठतिष्ठ न मे जीवन्गन्तासि रणमूर्धनि ॥५॥ स्थितोऽ स्मि प्रहरस्वेति किं न जानासि मां भवान् ॥६॥ प्रहरस्व तथा छिन्धि भिन्धि घातय मा चिरम् ॥ एवमादीनि वाक्यानि श्रूयन्ते रणमूर्धनि ॥ ७॥ तथा तुमुलसंग्रामे वर्तमाने सुदारुणे ॥ प्रशशाम रजो भौममुत्थितं रणशोणितैः ॥ ८ ॥ पूर्वोत्थितेन रजसा मेद्येनेव नभस्तलम् ॥ व्याप्तं तादृग्जरत्केन तदा राजन्नणाङ्गणे ॥९॥ ततो युयुधिरे वीराः पश्यमानाः परस्परम् ॥ गोत्रापदाननामानि कीर्तयन्तः पुनःपुनः ॥ १० ॥ सेनानां भज्यमानानां सैन्यखण्डैर्बलीयसाम् ॥ भूयश्चावर्तमानानां शुश्रुवे तुमुलः स्वनः ॥११॥ चित्राणां च ध्वजानां च पताकानां च भूपतेः ॥ अदृश्यत समासिक्तं रुधिरं रणमूर्धनि ॥ १२ ॥ स्वभ्रे तदा महाराज रजोमेघे क्षयं गते ॥ निर्मलेऽसु ततो दिक्षु प्रावर्तत महारणम् ॥ १३ ॥ तथा प्रवृत्ते संग्रामे देवगन्धर्वदानवैः ॥ सिद्धैर्विद्याधरैश्चैव मुनिसंघैः समन्ततः ॥१४॥ आवृतं सहसा व्योम वभूवुश्चकुतूहलैः ॥ व्यदृश्यन्त विमानानि तेषां खे विमलेष्वपि ॥ १५ ॥ किङ्किणीशतजुष्टानि पताकाशोभितानि च ॥ शुभं गन्धमथादाय सुरभिर्मारुतो ववौ ॥ १६ ॥ पपात पुष्पवर्षं च योधानां तत्र मूर्धनि ॥ तथा प्रवृत्ते तुमुले श्वेडितोत्कृष्टनादिते ॥ १७ ॥ पदातयस्तदा जघ्नुः पदातींस्ते च संयुगे ॥ खड्गधारानिकृन्तानां पदा- तीनां पदातिभिः ॥ १८ ॥ द्विधा कृतानि गात्राणि निपत्तन्ति महीतले ॥ गृहीत्वा खड्गपातानि रेणुः केचिच्च वर्मिणः ॥ १९ ॥ खड्गमुद्गरतां तेषां चिच्छिदुर्नृप विव्यहन् ॥ केचिद्गदानिर्विभिन्नमस्तका गदिभिः क्षितौ ॥ २० ॥ पतितास्तत्र दृश्यन्ते रणे शतसहस्रशः ॥ भ्रासिशेषनिक्षेप- निहतारस्तथास्तथा ॥ २१ ॥ सिंहनादवांश्चक्रुः परसैन्यविदारणान् ॥ केशेष्वन्योन्यमाकृष्य खड्गैः केचित्परस्परम् ॥ २२ ॥ आसेडुर्भुसुधां कृत्वा गतप्राणास्तथा परे ॥ पृष्ठविन्यस्तवर्माणः सत्रष्टांङ्गुस्तगोस्तथा ॥ २३ ॥ कृत्वा विषादन्समरे निजघ्नुः सादिनां गणम् ॥ आरूढ वर्भिणः केचिद्वगाच्छतुरथांग्रणे ॥ २४ ॥ सारथीन्विगतप्राणाँश्चक्रुर्युद्धविशारदाः ॥ विच्छिन्नदुर्वर्णदण्डां करांन्कीचिपदातिनः ॥ २५ ॥ केचिद्दशनवियुक्तापदाश्चारुह्यंगजान् ॥ सादिनश्च तथा केचिद्विशिरस्कान्रणाजिरे ॥ २६ ॥ चक्रुः पदातिनो ध्माताः खङ्गेराका- शसत्रिमैः ॥ केचिच्च सादिनः प्रासैः पञ्च सप्त तथा शरान् ॥ २७ ॥ श्रेणीकृतान्वै बिभिदुः शिक्षया रणकोविदाः ॥ केचिच्छङ्गेक्ष्णतुर्यस्तवा- णजालकुलीकृतान् ॥ २८ ॥ पदातीन्समरे चक्रुरायुधवेगस्तृज्वैः ॥ सादिनश्च तथैवान्ये सादिभिः सह संगताः ॥ ॥ २९ ॥ दृश्यन्ते रणे भिक्षां चक्रुर्युद्धमनेकधा ॥ केचित्पाशाशनिभिर्भह्रैतहसारिधनायकाः ॥ ३० ॥ विनेदुरुच्चैः सहसा सिंहनादरवान्ध

वि० पृ० ॥१६२॥
प्र० सं०
अ० २६०

नान् ॥ कुञ्जरैराकुलीकृत्य हयवांस्त्विवाङ्गाः ॥ ३१ ॥ द्विपुच्छहस्तान्संगरे चक्रुः सादिगणाञ्जने ॥ निहतं च शरैस्तैः पदातं बहुधा रणे ॥ ३२॥
रथिभिर्भ्राति भूपाल कमलोत्पलसन्निभम् ॥ तुङ्गास्तेऽन्तामपोरोहा रथिभिर्विनिपातिताः ॥ ३३ ॥ आववृधुर्भुयां तत्र शतशोऽथ सहस्रशः ॥ गथिनो
रथिभिः सार्धं युद्धमासीत्सुदारुणम् ॥३४॥ बाणतोमशक्त्यैश्च गदाकम्पनसुद्गरैः ॥ रथिनां च महद्युद्धमासीत्कुञ्जरयूथपैः ॥३५॥ प्रासावपणहस्तैश्च पत्त
दुर्निरीक्ष्यं समन्तः ॥ निहतं बहु पादातं कुञ्जरैर्बलदर्पितैः ॥ आक्रम्य रथवृन्द्वानि चूर्णयन्ति तुरङ्गमः॥३८॥व्यदृश्यन्त महाराज विप्रकीर्णानि भूतले॥
कृतम् ॥ ३७ ॥ महामात्रप्रणुदितैः कुञ्जरैर्बलदर्पितैः ॥ बभूवाकुलसंग्रामं घोरं रुधिरकर्दमम् ॥ रथाश्चकुञ्जरैः सार्धं पत्तयश्च समागताः ॥ ४० ॥
एवं मध्याह्नसमये तीक्ष्णं तपति भास्करे ॥ ३९ ॥ पदातीनां सादिनां सह सादिभिः ॥ ४१ ॥ रथिनो रथिभिर्युद्धं कुञ्जराणां च कुञ्जरैः ॥
कुञ्जराश्च महाकाया पत्त्यश्वस्थिनस्तथा ॥ पत्तिभिश्च पदातीनां सादिनां सह सादिभिः ॥ ४१ ॥ सादी गजेन निहतो नरः ॥ ४३ ॥
बभूव रजौस्तुमुले संग्रामे शोणितोदके ॥ ४२ ॥ शूराणां रणलुब्धानासमशक्रान्तचेतसाम् ॥ पत्तिना निहतः सादीविर्निपातिताः ॥
रथिना निहतो नागः क्वचिदासीद्रथातितः ॥ हताः पदातिभिश्चान्ये व्यदृश्यन्त रणाजिरे ॥ ४४ ॥ पदातितथनागाश्च सादिभिश्चैव पादातता ॥४६॥
रथनागाहया युद्धे निहताश्च पदातिभिः ॥ ४५ ॥ नरेण च हतो हस्ती शृण कुलबुद्धिनो ॥ सादिना च हतो हस्ती भुशुण्डीनां तोमराणां तथैव च ॥४९॥
रथिना च हतः पत्तिः पत्तिना च हतो रथी ॥ रथिना निहतः सादी संग्रामे लोमहर्षणे ॥ ४७ ॥ रेणुना च दिशो व्याप्तास्तुमुले भृशसंकुले ॥
व्यराजन्त महाराज समरे गतजीविताः ॥ ४८ ॥ पततां बाणजालानां धनुषां चैव कूजताम् ॥ शूराणां च तत्र तथैव च ॥४९॥
पट्टिशानां च ऋष्टीनां क्षेपणानां च याद्व ॥ अयोगुडानां प्रासानां चर्मणामथ वर्मणाम् ॥ ५० ॥ अनिशं श्रूयते शब्दो घोरस्तस्मिन्रणाजिरे ॥
हयैश्च विगतातोहैर्धावमानैरितस्ततः ॥ ५१ ॥ भग्नेषाकूवरान्द्रैश्च रथैर्विगतनायकैः ॥ छिन्नदन्तैश्च मातङ्गैर्भिन्नकुम्भवराननैः ५२ ॥ लतावैद्यित
वृक्षामैः शोभां याति रणाजिरम् ॥ कुञ्जरैर्विगतारोहैस्त्रासितैर्दृढधन्विभिः ॥ ५३ ॥ मर्यमानानि सैन्यानि शतशोऽथ सहस्रशः॥ भिन्नान्सुरुदन्तः
पुरुषान्दन्तसंक्तांस्तथा गजाः॥५४॥ वहमाना व्यराजन्त कर्णचञ्चलवर्जिताः ॥ उत्थान्यजोलैंडैर्नन्दिनन्तः पर्वतोपमाः॥५५॥ लताविद्युत्समाभिः
शोभयन्ति रणाजिरम् ॥ तस्मिंस्तथाविधे रौद्रे संग्रामे घोरदर्शने ॥५६॥ नरवानगणाकीर्णेविरथैस्तु शोणिताणगाः ॥ खड्गमीना महाग्राहाजहंसविधू
षिताः ॥ योधमस्तकपाषाणाः केशशैवालभूषणाः ॥५७॥ महामोहौघचक्रवच्च भीतानां भयवर्धनाः ॥ तास्तरन्ति तदा योधाः शूरा जयधनेपिणः॥५८॥

॥१६२॥

राजन्वाह्नतीन्मिश्रै व्यवसायपरस्पराः ॥ छिन्नानि स्वानि गात्राणि न जानन्ति रणे परैः ॥ ५९ ॥ तत्र शूरा महाभागास्त्वमपार्कान्तचेतसः ॥ आयुधक्षयमासाद्य मुष्टियुद्धानि चक्रिरे ॥ ६० ॥ केशांकेशि तथा केचिद्दन्तादन्ति नखानखि ॥ चक्रुयुद्धं महाराज ब्रह्लोलेकजिगीषवः ॥ ६१ ॥ क्रन्दन्तोऽन्ये पितृन्पुत्रान्भ्रातन्त्ये पितामहान् ॥ मातुलान्भागिनेयांश्च स्यालान्सम्बन्धिनस्तथा ॥ ६२ ॥ पितृव्यानार्यकान्त्ये दौहित्रानपरे तथा ॥ धावन्त्यन्ये पतन्त्यन्ये गर्जन्त्यन्ये जिगीषया ॥ ६३ ॥ स्वनन्त्यन्ये पतन्त्यन्ये म्रियन्ते चापरे तथा ॥ शोचन्त्यन्ये तथा बन्धूञ्शो- च्यांस्त्वन्ये तु बन्धुभिः ॥ ६४ ॥ याचन्तेऽन्ये महाराज तृष्णार्ताश्च तथा जलम् ॥ वाहनेषु समारोप्य नीयन्त्यन्ये च बन्धुभिः ॥ ६५ ॥ शिबिराय महाराज शतशोऽथ सहस्रशः ॥ अन्ये संवृत्य चात्मानं भीता जग्मुरुपह्वरम् ॥ ६६ ॥ जलाथर्मन्ये च नरा बान्धवैश्च प्रचोदिताः ॥ आगम्य दृष्ट्वा च मृतं भाण्डं भङ्क्त्वा विचुक्रुशुः ॥ ६७ ॥ हतबन्धुन्महादत्य स्वामिकार्यकतत्पराः ॥ परानभिमुखान्नेव तत्रायुध्यन्त मानवाः ॥ ६८ ॥ युध्यतामेव तेषां तु शतशोऽथ सहस्रशः ॥ उत्थितानि रणे यानि कबन्धानि महीपते ॥ ६९ ॥ कश्चिन्नर्ननं समरे कबन्धस्तु धनुर्धरः ॥ गदापाणिस्तथैवान्यः खड्गचर्मधरोऽपरः ॥ ७० ॥ पश्चद्वचरः कश्चित्प्रासपाणिस्तथा परः ॥ नृत्यत्कबन्धभूयिष्ठे देवदुन्दुभिनादिते ॥ ७१ ॥ प्रवर्तमाने संग्रामे शूराणां स्वर्गलोकदे ॥ व्यदृश्यन्त महाराज पिशाचा घोरदर्शनाः ॥७२॥ राक्षसाश्च महाकायाः क्रव्यादाश्च तथा परे ॥ जगाम चास्तं सविता तदा रक्तवपुर्धरः ॥ संग्रामात्सर्वयोधानां पीत्वेव रुधिरं करैः ॥७३॥ ततोऽस्तरशैले भगवत्यथार्के गते जपापुष्पकदम्बकाभे ॥ सेनाद्वयं तच्छिविराय यातं कृत्वावरोहं परबाणतप्तम् ॥ ७४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे संकुलयुद्धो नाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥ मार्कण्डेय उवाच ॥ निशावसाने गन्धर्वाः कृत्वा व्यूहं सुदुर्जयम् ॥ संप्रतीक्ष्यन्त भरतमायान्तं रणकोवि- दम् ॥ १ ॥ भरतोऽपि च राजन्ये वज्रव्यूहेन दंशितः ॥ आससाद महत्सैन्यं गन्धर्वाणां सुदुर्जयम् ॥ २ ॥ ततः प्रवृत्ते युद्धं यमराष्ट्रविवर्द्धनम्॥ देवासुरसमप्रख्यं त्रैलोक्यभयकारकम् ॥ ३ ॥ पत्तीनां पत्तिभिः सार्धं सादिनां चैव सादिभिः ॥ रथिनां रथिभिश्चैव कुञ्जराणां च कुञ्जरैः ॥ ४ ॥ भाषतां नामगोत्राणि शूराणां चैव गर्जताम् ॥ धनुषां कूजतां चैव शब्दः समभवत्तदा ॥ ५ ॥ ततः प्रवृते संग्रामे भरतः पुष्करो रणे ॥ आससाद विशालाक्षं गन्धर्वं रणगर्वितम् ॥ ६ ॥ तक्षश्च भारतिः श्रीमान्युयुधे वीरबाहुना ॥ सेनानीर्विजयः श्रीमान्सुमित्रश्च तमागतः ॥ ७ ॥ भूमन्युः कौरवः श्रीमान्कामपालेन संगतः ॥ किरातराजो दमनश्चन्द्रपीडेन संगतः ॥ ८ ॥ प्रभद्रकेण

३८