विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 356, कुल 1001 में से
संदर्भ में पढ़ेंमारुतः ॥ स्वाध्यायघोषो विप्राणां नृणां यत्र सुखावहः ॥ १० ॥ सिताभिः पच्यमानाभिः क्रियमाणास्तथा गुडैः ॥ रम्यः सुशीतलः कालः प्राणि- प्रियहुताशनः ॥ ११ ॥ विचरन्ति नरा यत्र गुरुप्रावरणाम्बराः ॥ कुंकुमेनाङ्गुलिप्ताङ्गा धनिनः प्रियदर्शिनः ॥ १२ ॥ अभ्यायाम- क्षमे काले यत्र यूनां विशेषतः ॥ मृगया दयिता वत्स मन्दरश्मौ दिवाकरे ॥ १३ ॥ रोहिताशनपृष्ठानां साधूनारञ्जवासितम् ॥ महिषीणां तु मथितं गन्धवर्णरसान्वितम् ॥ १४ ॥ इक्षवश्च विदार्यन्ते तथैव मूलकानि च ॥ रसवन्ति विशेषेण यत्र पिष्टकृतानि च ॥ १५ ॥ प्रवृत्तमेखलाबन्धविवाहादिक्रिये जने ॥ प्रबुद्धे पुण्डरीकाक्षे प्रवृत्ते यज्ञसन्तरे ॥ १६ ॥ काले प्रहृष्टाश्चेन्दूसूर्ये कार्या त्वया राघव वास्तुपूजा ॥ आरम्भणीयं नगरस्य कर्म शिवाय सर्वस्य जनस्य वत्स ॥ १७ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडा- यनवाक्येषु शत्रुघ्नं प्रति रामसमुपदेशे हेमन्तवर्णनं नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ राम उवाच ॥ ततस्तु शिशिरे प्राप्ते काले तपनवल्लभे ॥ हिर्माप्रपातप्रच्छन्नदुर्विभाव्यादिशामुखे ॥ १॥ सुपक्वमातुलुङ्गाढ्यवनराजिसुगन्धिनि ॥ प्रफुल्लकुंकुमचमत्कारोगोज्ज्वलत्विषि ॥ २ ॥ हिमप्रयातसञ्जातखर्वतॄणतणोल्बणे ॥ अत्यर्थशीतकुसुमे कुङ्कुमागुरुवल्लभे ॥ ३॥ कामिन्यः कुङ्कुमाङ्गाङ्ग्यः पीनोन्नतपयोधराः ॥ आलिङ्गनेन कान्तानां यत्र शीतभयापहाः ॥४॥ पुष्पितैरातसीवातैर्नीलनीरज निर्मलैः ॥ पूर्णतोयाशयाशाङ्का जायते सुधियामपि ॥५॥ मात्र्यूकन्दुकपुष्पाढ्या वनराज्यो मनोहराः ॥ सुशीर्णपर्णसरला नम्रेरुविविधद्रुमाः ॥६॥ संत्यक्ता दक्षिणामाशां व्रजमाने तथोत्तराम् ॥ सूर्ये सुमाच पवनं निःश्वासमिव दक्षिणा ॥७॥ रम्याश्च गंधमंजयैः शोभयन्ति वनस्थलीः ॥ मन्मथस्य शराः कांताः कामिमन्मथवर्धनाः ॥ ८ ॥ हयानां मधुरः शब्दः श्रूयते इशनोद्भवः ॥ शब्दो गवसृजां यत्र स्वामिनां रतिवर्धनः ॥ ९ ॥ निर्मलानां तु सरसां विनिविद्धा जलेचराः ॥ ब्रुवन्तो मधुरं पांथा जनयन्ति परां मुदम् ॥ १० ॥ जनयन्ति परां प्रीतिं कामिनीनां तु कामुकाः ॥ यत्र मध्वैनैर्वत्स मातुलुङ्गाधिवासितैः ॥ ११ ॥ वापीकूपतडागेषु हृदमन्त्रवनेषु च ॥ यत्र काले रन्त्यापः कम्पयन्त्यः पुरीं महत् ॥ १२ ॥ तस्मिंस्त्वं शिशिरे काले कृत्वा गृहवरे स्वके ॥ प्रवेशयतु विधिना शिल्पिमिश्रैर्निशानिशैः ॥ १३॥ धर्मेण पालयन्क्षोणीं वस राजविलोचन ॥ वृद्धिं कार्येस्त्वया धर्मो नित्यमेव नरोत्तम ॥ १४ ॥ उत्तिष्ठ शीघ्रं विजयाय गच्छ दीप्तां श्रियं प्राप्नुहि राजपुत्र ॥ रक्षन्तु देवास्तव सर्वकालं पदं विध्वस्तारिगणस्य मूर्ध्नि ॥ १५ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं
१ 'कथितम्' इति क० । २ 'ह्यानानामश्वरा राजन्' इति ख० ।