विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 357, कुल 1001 में से
संदर्भ में पढ़ेंप्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामातुशासने लवणं प्रति शत्रुघ्नप्रस्थानं नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ ॥ नाडायन उवाच ॥ ॥ इति रामवचः श्रुत्वा बाढमुक्तवा स सत्वरः ॥ अभिवाद्य वसिष्ठस्य पादौ रामस्य चाप्यथ ॥ १ ॥ पुरस्कृत्य महाभागन्भागव प्रमुखानृषीन् ॥ यथोक्तसैन्यानुगतः प्रययौ भीमविक्रमः ॥ २ ॥ वाल्मीकेराश्रमं प्राप्य तासुवास तदा निशाम् ॥ पूजयित्वा तु वाल्मीकिऋषिणा प्रतिपूजितः ॥ ३ ॥ यस्मिन्नहनि शत्रुघ्नो वाल्मीकेराश्रमं गतः ॥ उभौ प्रसूतौ तनयौ तस्मिन्नेवाह्नि जानकी ॥ ४ ॥ सीताप्रसवसंहष्टः क्रमेण रघुनन्दनः ॥ निदावशेषेण नदीमुत्ततार स सूर्यजाम् ॥ ५ ॥ शिबिरं समवस्थाप्य यथावयवसुनांतटे ॥ एक एव धनुष्पाणिः प्रविवेश मधोर्वनम् ॥ ॥ ६ ॥ प्रविश्य च युवा तत्र लवणस्य निवेशनम् ॥ तस्थौ द्वारमपाश्रित्य वीरो विततकार्मुकः ॥ ७ ॥ एतस्मिन्नेव काले तु मृगान्हत्वा सह स्रशः ॥ बहुना मृगभारेण स दर्श मधोः सुतम् ॥ ८ ॥ वृत्ताक्षमुरुक्टं भीमं दन्तोत्कृष्टोत्तरोष्ठकम् ॥ दृष्ट्वाकरालवदनं दृप्तवत्पुरुषच्छविम् ॥ ९ ॥ स तु दृष्ट्व शत्रुघ्नुवाच परुषं बहु ॥ विप्रधावत दुष्टात्मा शत्रुघ्नवधकाम्यया ॥ १० ॥ त्यक्त्वा मृगसहस्राणि द्रुमविक्षेपतत्परः ॥ द्रुमवृष्टिं सुघोरां तां लवणेन विसार्जिताम् ॥ ११ ॥ विच्छेद बाणैः सौमित्रिः शतशोऽथ सहस्रशः ॥ छिन्ने द्रुममहावर्षे लवणः शत्रुतापनः ॥ १२ ॥ जघान मुशराञ्च्छूनं शत्रुघ्नं मुष्टिना भृशम् ॥ मुष्टिप्रहारनिश्चेष्टं शत्रुघ्नं लवणस्तदा ॥ १३ ॥ न जगाह च तच्छूलं मृत्युपाशवशङ्गतः ॥ प्रवेशयामास गृहं मृगसंघाननेकशः ॥ १४ ॥ एतस्मिन्नेव काले तु लब्धसंज्ञः स राघवः ॥ वितत्य कार्मुकं तस्थौ द्वारमावृत्य वेश्मनः ॥ १५ ॥ ततः पादपवर्षेण च्छादयन्तं निशाचरम् ॥ चकार विमुखं बाणैश्छित्त्वा महीरुहान् ॥ १६ ॥ रामदूतं ततो वाणं सन्धाय वरकार्मुके ॥ निर्वि भेद महातेजा लवणं रघुनन्दनः ॥ १७॥, सन्धियमाने बाणे तु त्रस्तं त्रिभुवनं तदा ॥ आश्वासयामास विभुर्ब्रह्मा कमलसम्भवः ॥ १८॥ तेन बाणप्रहा रेण निर्भिन्नहृदयः क्षितौ ॥ व्यसुः पपात मेदिन्यां शैलो वज्राहतो यथा ॥ १९ ॥ तस्मिन्विपतिते भूमौ दैत्ये देवभयङ्करे ॥ त्रैलोक्यं विगतातङ्कं क्षणेन समपद्यत ॥ २० ॥ तं च देशमथाजग्मुः सुराः सब्रह्मकास्तदा ॥ पूजितास्तेन वीरेण शत्रुघ्नं वाक्यमब्रुवन् ॥ २१ ॥ ॥ देवा ऊचुः ॥ वरं वरय शत्रुघ्न यत्ते मनसि कांक्षितम् ॥ अपनीतं त्वयास्माकं भयं शूलवरायुधात ॥ २२ ॥ त्वया तु निहते तस्मिंल्छ्रवणे पापराक्षसे ॥ पश्य शूलवरं यांतमेनं शार्वं विहायसा ॥ २३ ॥ ॥ शत्रुघ्न उवाच ॥ ॥ अस्मिन्देशे करिष्यामि पुरीं रामाज्ञया त्वहम् ॥ मासे समाप्यतां शीघ्रां वरमेतत्प्रदीयताम् ॥ २४ ॥ ॥ देवा ऊचुः ॥ ॥ निष्पत्ति यास्यते धीर स्थिरा चैव भविष्यति ॥ पुण्या च रमणीया च मधुरा नामतः