भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 357, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 357

प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामातुशासने लवणं प्रति शत्रुघ्नप्रस्थानं नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ ॥ नाडायन उवाच ॥ ॥ इति रामवचः श्रुत्वा बाढमुक्तवा स सत्वरः ॥ अभिवाद्य वसिष्ठस्य पादौ रामस्य चाप्यथ ॥ १ ॥ पुरस्कृत्य महाभागन्भागव प्रमुखानृषीन् ॥ यथोक्तसैन्यानुगतः प्रययौ भीमविक्रमः ॥ २ ॥ वाल्मीकेराश्रमं प्राप्य तासुवास तदा निशाम् ॥ पूजयित्वा तु वाल्मीकिऋषिणा प्रतिपूजितः ॥ ३ ॥ यस्मिन्नहनि शत्रुघ्नो वाल्मीकेराश्रमं गतः ॥ उभौ प्रसूतौ तनयौ तस्मिन्नेवाह्नि जानकी ॥ ४ ॥ सीताप्रसवसंहष्टः क्रमेण रघुनन्दनः ॥ निदावशेषेण नदीमुत्ततार स सूर्यजाम् ॥ ५ ॥ शिबिरं समवस्थाप्य यथावयवसुनांतटे ॥ एक एव धनुष्पाणिः प्रविवेश मधोर्वनम् ॥ ॥ ६ ॥ प्रविश्य च युवा तत्र लवणस्य निवेशनम् ॥ तस्थौ द्वारमपाश्रित्य वीरो विततकार्मुकः ॥ ७ ॥ एतस्मिन्नेव काले तु मृगान्हत्वा सह स्रशः ॥ बहुना मृगभारेण स दर्श मधोः सुतम् ॥ ८ ॥ वृत्ताक्षमुरुक्टं भीमं दन्तोत्कृष्टोत्तरोष्ठकम् ॥ दृष्ट्वाकरालवदनं दृप्तवत्पुरुषच्छविम् ॥ ९ ॥ स तु दृष्ट्व शत्रुघ्नुवाच परुषं बहु ॥ विप्रधावत दुष्टात्मा शत्रुघ्नवधकाम्यया ॥ १० ॥ त्यक्त्वा मृगसहस्राणि द्रुमविक्षेपतत्परः ॥ द्रुमवृष्टिं सुघोरां तां लवणेन विसार्जिताम् ॥ ११ ॥ विच्छेद बाणैः सौमित्रिः शतशोऽथ सहस्रशः ॥ छिन्ने द्रुममहावर्षे लवणः शत्रुतापनः ॥ १२ ॥ जघान मुशराञ्च्छूनं शत्रुघ्नं मुष्टिना भृशम् ॥ मुष्टिप्रहारनिश्चेष्टं शत्रुघ्नं लवणस्तदा ॥ १३ ॥ न जगाह च तच्छूलं मृत्युपाशवशङ्गतः ॥ प्रवेशयामास गृहं मृगसंघाननेकशः ॥ १४ ॥ एतस्मिन्नेव काले तु लब्धसंज्ञः स राघवः ॥ वितत्य कार्मुकं तस्थौ द्वारमावृत्य वेश्मनः ॥ १५ ॥ ततः पादपवर्षेण च्छादयन्तं निशाचरम् ॥ चकार विमुखं बाणैश्छित्त्वा महीरुहान् ॥ १६ ॥ रामदूतं ततो वाणं सन्धाय वरकार्मुके ॥ निर्वि भेद महातेजा लवणं रघुनन्दनः ॥ १७॥, सन्धियमाने बाणे तु त्रस्तं त्रिभुवनं तदा ॥ आश्वासयामास विभुर्ब्रह्मा कमलसम्भवः ॥ १८॥ तेन बाणप्रहा रेण निर्भिन्नहृदयः क्षितौ ॥ व्यसुः पपात मेदिन्यां शैलो वज्राहतो यथा ॥ १९ ॥ तस्मिन्विपतिते भूमौ दैत्ये देवभयङ्करे ॥ त्रैलोक्यं विगतातङ्कं क्षणेन समपद्यत ॥ २० ॥ तं च देशमथाजग्मुः सुराः सब्रह्मकास्तदा ॥ पूजितास्तेन वीरेण शत्रुघ्नं वाक्यमब्रुवन् ॥ २१ ॥ ॥ देवा ऊचुः ॥ वरं वरय शत्रुघ्न यत्ते मनसि कांक्षितम् ॥ अपनीतं त्वयास्माकं भयं शूलवरायुधात ॥ २२ ॥ त्वया तु निहते तस्मिंल्छ्रवणे पापराक्षसे ॥ पश्य शूलवरं यांतमेनं शार्वं विहायसा ॥ २३ ॥ ॥ शत्रुघ्न उवाच ॥ ॥ अस्मिन्देशे करिष्यामि पुरीं रामाज्ञया त्वहम् ॥ मासे समाप्यतां शीघ्रां वरमेतत्प्रदीयताम् ॥ २४ ॥ ॥ देवा ऊचुः ॥ ॥ निष्पत्ति यास्यते धीर स्थिरा चैव भविष्यति ॥ पुण्या च रमणीया च मधुरा नामतः