विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 443, कुल 1001 में से
संदर्भ में पढ़ेंफलमूलैस्तथा राम धूपदीपौ विवर्जयेत् ॥ अग्निपक्वं तथा सर्वं न निंबंच कथञ्चन ॥ २० ॥ भोक्तव्यं च तथा राम वह्निपाकविवर्जितम् ॥ दूर्वांकुरं स्थां सम्पूज्य विधिना यौवनस्थिश्रियम् ॥ २१ ॥ यौवनं स्थिरमाप्नोति यत्रयत्राभिजायते ॥ सोपवासा तु या नारी कृष्णपक्षस्य कार्त्तिके ॥ २२ ॥ द्वादश्यां पूजयेद्विष्णुं गां सवत्सामनन्तरम् ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ २३ ॥ नैवेद्यं गोरसं सर्वं वर्जनीयं प्रयत्नतः ॥ भोक्तव्यं च न धर्मेण दोग्धव्या नैव चार्जने ॥२४॥ गावः प्राप्नोति कृत्वैवं नात्र कार्या विचारणा ॥ धेनुं तां यदि विप्राय दद्याद्विधिरथार्चिताम्॥ स्वर्गलोकं मथाभावेन ततो विनिर्वर्तेते ॥ कार्त्तिके च तथा मासि कृत्तिकायां च पूजनम् ॥ २६ ॥ कर्तव्यं गन्धकलशैर्गन्धमाल्यानुलेपनैः ॥ मध्वैश्च परमान्नं श्वैश्च कुल्माषैः पर्पटैस्तथा ॥ २७॥ शक्त्या वस्त्रैश्च धर्मज्ञ महाराजन्नरैर्नरैः ॥ गुडेन मधुना चैव सितया लवणेन च॥ २८॥ आर्द्रकेणेक्षुणा चैव तथा कालोद्भवैः फलैः ॥ सर्वैश्च विविधैर्नैवेद्यैर्नानाविधेस्तथा॥ २९॥पानकैश्च तथा हृद्यैः पूजनीयाश्च कृत्तिकाः ॥ सह चन्द्रमसा राम तेन सौभाग्यमश्नु ते ॥३०॥ नारी च रूपलावण्ये धर्मं चाग्र्यां तथा मतिम् ॥ अवैधव्यं च धर्मज्ञ यत्रयत्राभिजायते ॥३१॥ लावण्यस्य तुलां कृत्वा महाराजन्नरैर्जनैः ॥ वस्त्रे वस्त्रेण तेनाथ सालंङ्कारं सितच्छविम् ॥ ३२ ॥ कृत्वा पिण्डं हरिद्राक्तं कृत्तिकानां निवेदयेत् ॥ ग्राह्येद्व्राह्मणं तां च प्राप्ते चन्द्रोदये तथा ॥ ॥ ३३॥ अनेन कर्मणा नारी सौभाग्यं महदश्नुते ॥ पुरूषोऽप्यथ वै शुद्धो सौभाग्यं महदश्नुते ॥ कृत्तिकाव्रतमेतद्धि तु तासां कृत्वैव पूजनम्॥३४॥ या भुङ्क्ते गोरसप्रायं कृत्वा ब्राह्मणपूजनम् ॥ सप्त जन्मान्तरान्येव सौभाग्यं रूपमेव च ॥३५॥ स्वर्गे तु भोगनाप्नोति सह भर्त्रा तु सा शुभा ॥ ॥ ३६ ॥ प्राप्य पञ्चदशीं राम तथा शुक्लां च कार्त्तिकीम् ॥ कार्त्तिकं कार्त्तिकीं राम गृहमित्थं समालिखेत् ॥ ३७॥ उपहारं गृहाद्वाह्यं नानावर्णैस्तु वर्णकैः ॥ गृहोपकरणं शक्त्या तयोश्चैवाभितो लिखेत् ॥ ३८ ॥ पीठखट्वासनशय्या शक्तोटूलखलादिकम् ॥ ततस्तौ पूजयेन्नारी नानाभक्तिपरा शुचिः ॥ ३९ ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ इक्षुशुक्तविकारैर्वा विशेषेण च पूजयेत् ॥ ४० ॥ तयोस्तु पूजनं कृत्वा मत्स्यं च सिकतायुतम् ॥ ॥ शुक्लेनैवं न्यसेत्तीरे तच्च दद्याद्द्विजातये ॥ ४१ ॥ ततश्च नक्तं भुञ्जीत तिलतैलविवर्जितम् ॥ अन्ययोः पूजनाद्राम गृहभङ्गं न चाप्नुयात् ॥४२॥ पतिव्रता महाभाग दीर्घमाप्नोति जीवितम् ॥ कार्त्तिके च तथा मासि सार्धं चन्द्रमसा सदा ॥४३॥ रोहिण्यां रोहिणीपूजा कर्तव्या विधिना द्विज ॥ सर्वैरैविद्यवाचिहैर्लवणेन च भूरिणा ॥ ४४ ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ तथा कुंकुमरक्तेन शक्त्या भार्गव वाससा ॥ ४५ ॥ सौभाग्यं परमामोति कृत्वैतत्परमाङ्गना ॥ शुक्लपक्षत्रयोदश्यां या च नारी पतिव्रता ॥ ४६॥ पूजयेत्सोपवासा च कामदेवं