भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 445, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 445

हिंसात्मकंनिर्द्दिष्टमशुद्धं वा द्विजोत्तम ॥ देवताराधनं सा तु चिरं नकर्त्तुमर्हति ॥ ७४ ॥ ततस्तु चाऽयनात्पुण्यं प्रसूतविवर्धनम् ॥ हिंसा त्यक्ता तु या नारी देवताराधने रता ॥ ७५ ॥ मूलकर्मरता भर्त्रा सा विग्राह्या भृगूत्तम ॥ पौंश्चल्यादपि नारीणां रागं हिंसा विवर्जिता ॥ ७६ ॥ स्त्रीस्वभावं शुभं राम सौम्यत्वं मार्दवं दया ॥ निर्द्द्या राक्षसी राम पिशाची वा द्विजोत्तम ॥ ७७ ॥ अथवा सर्वमुत्सृज्य पतिपूजनतत्परा ॥ केशवाराधनं कुर्याच्छृणुष्व पुरुषर्षभ ॥ ७८ ॥ तेनैव सर्वमाप्नोति यत्किञ्चित्परपृच्छति ॥ अफलं सर्वमेव स्याद्भर्तृभक्त्या विना कृतम् ॥ ७९ ॥ केशवाराधनं राग तथापि सफलं स्त्रियः ॥ सर्वभूतानि गोविन्दो भर्त्ता नान्यस्तु योषितः ॥ भर्तृभक्त्या विना तस्मात्ततः पूजा विधीयते ॥ ८० ॥ नारायणः पूज्यतमो हि लोके नारायणः सर्वगतः प्रधानः ॥ नारायणाराधनतत्परा स्त्री कामानवाप्नोति न संशयोऽत्र ॥ ८१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये स्त्रीदेवतापूजननिरूपणं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥ ॥ पुष्कर उवाच ॥ त्रैलोक्यं धर्मराजोऽपि नाचख्यौ योषिताम् ॥ पतिव्रतानां धर्मज्ञ पूज्यास्तास्यापि तास्सदा ॥ १ ॥ अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ॥ यथा विमोक्षितो भर्त्ता मृत्युपाशाहृतः स्त्रिया ॥ २ ॥ मद्रेषु शाकले राजा बभूवाऽश्वपतिः पुरा ॥ अपुत्रस्तप्यमानोऽसौ पुत्रार्थे सर्वकामदम् ॥ ३ ॥ सावित्र्याः कारयामास लक्षहोमं द्विजोत्तमैः ॥ सिद्धार्थैर्हूयमाना सावित्री प्रत्यहं द्विज ॥ ४ ॥ शतमंत्रैश्चहुत्वाऽथ तु मासाद्दर्शदिने गते ॥ काले तु दर्शयामास स्वां तनुं मनुजेश्वरैः ॥ ५ ॥ सावित्र्युवाच ॥ राजन्भक्तोऽसि मे नित्यं प्राप्स्यसे तनयां शुभाम् ॥ महत्तं यत्प्रसादाच्च पुत्रान्प्राप्स्यसि शोभनान् ॥ ६ ॥ पुष्कर उवाच ॥ एतावदुक्त्वा सा राज्ञः प्रणतस्यैव भार्गव ॥ जगामादर्शनं देवी खे यथा राम चञ्चला ॥ ७ ॥ मालव्यां नाम तस्यास्ति राज्ञः पत्नी पतिव्रता ॥ सुषाव तनयां काले सावित्रीमिव रूपतः ॥ ८ ॥ सावित्र्या हुतया दत्ता तद्रूपसदृशा ततः ॥ सावित्र्येव भवेद्वा जगाद नृपतिर्द्विजान् ॥ ९ ॥ कालेन यौवनं प्राप्तां ददौ सत्यवतं पिता ॥ नारदस्त्व ततः प्राह राजानं दीप्ततेजसम् ॥ १० ॥ क्षीणायुरेष वर्षण भविष्यति नृपात्मजः ॥ प्रदीयते सकृत्कन्या चिन्तयित्वा नराधिपः ॥ ११ ॥ तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभाम् ॥ सावित्र्यपि च भर्तारमासाद्य नृपनन्दनम् ॥ १२ ॥ नारदस्य तु वाक्येन दूयमानेन चेतसा ॥ शुश्रूषां परमां चक्रे भर्तुःश्वशुरयोर्वने ॥ १३ ॥ राज्यभ्रष्टस्सभार्यस्तु नष्टचक्षुर्नराधिपः ॥ तुतोष तां समासाद्य राजपुत्रीं तदा स्नुषाम् ॥ १४ ॥ चतुर्द्देऽहनि मर्तव्यं यदा सत्यवता द्विज ॥ श्वशुरेणाभ्यनुज्ञाता तदा राज्ञा तु सा स्नुषा ॥ १५ ॥

३४