विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 446, कुल 1001 में से
संदर्भ में पढ़ेंवि० वि० ॥११९॥ द्वि० खं० अ० ३७
चक्रे त्रिरात्रं धर्मज्ञ प्राप्ते तस्मिंस्तदा दिने ॥ चारुपुष्पफलाहारं सत्यवानभवद्यौ वनम् ॥ १६ ॥ श्वशुरेणाभ्यनुज्ञाता याचनाभङ्गभीरुणा ॥ सावित्र्यपि जगामाशु सह भर्त्रा महद्वनम् ॥ १७ ॥ चेतसा दूयमानेन गृह्णमाना च तद्वचम् ॥ वने पप्रच्छ भर्तारं द्रुमांश्च सुमगांस्तथा ॥ १८ ॥ आश्वासयामास स राजपुत्रीं कान्तां वने पद्मपलाशनेत्राम् ॥ सन्दर्शनेनाथ मृगद्विजानां तथा द्रुमाणां विपिने सुवीरः ॥ १९ ॥ ॥ इति श्रीवि- ष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सावित्र्युपाख्याने वनप्रवेशो नाम षड्विंशत्तमोऽध्यायः ॥ २६ ॥ ॥ सत्यवानुवाच ॥ ॥ वनेऽस्मिन्मृदुपर्णाकीर्णं सहकारं मनोहरम् ॥ श्रोत्रघ्राणासुखं पश्य वसन्ते रतिवर्धनम् ॥ १ ॥ वने सुपुष्पं दृष्ट्वैषा रक्ता- शोके मनोहरम् ॥ हसतीव मनः सेव्यं त्वामिवायतलोचने ॥ २ ॥ दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ॥ पुष्पितैः किंशुकैर्युक्तां ज्वलि- तामिव सप्रभैः ॥ ३ ॥ सुगन्धिपुसुमामोदो वनराजिविनिर्गतः ॥ करोति वायुर्दाक्षिण्याद्वयोः क्षममनाशनम् ॥ ४ ॥ अत्युत्पल्लविशालाक्षि कर्णिकारैः कारैः सुपुष्पितैः ॥ काञ्चनैरिव भात्येषा वनराजी मनोहरा ॥ ५ ॥ अतिफुल्ललताजालरूढमागधसंवलीः ॥ पश्योच्चैश्चारुसर्वाङ्गि कुसुमोत्कर- भूषणा ॥ ६ ॥ मधुमत्तालिशार्ङ्गाङ्गैर्योजनं वरवर्णिनि ॥ चापयष्टिं करोतीव कामः पान्थाजिघांसया ॥ ७ ॥ फुल्लचम्पकसङ्काशा पुस्कोकिलविना- दिनी ॥ विभाति चारुतलका त्वमिवैषा वनस्थली ॥ ८ ॥ कोकिलैरूतशिखरे मञ्जरीङ्गापिञ्जरः ॥ गदितेत्यक्तमिती कुलम्बोधितोतवि- ॥ ९ ॥ पुष्परैणुदलिताङ्गिः प्रियामनुसरन्वने ॥ कुसुमात्कुसुमं याति कूजन्कामी शिलीमुखः ॥ १० ॥ मञ्जरीं सहकारस्य कान्ता चञ्च्वग्रखण्डि- ताम् ॥ स्वादयत्यतिपुष्पेऽपि पुंस्कोकिलयुवा द्रुमे ॥ ११ ॥ काकः प्रसन्नां वृक्षाग्रे समीपामेव चञ्चुना ॥ काकीं संपाचयत्येष पक्षाच्छादित- पुत्रकाम् ॥ १२ ॥ भृगांग निम्नमासाद्य दयितासहितो युवा ॥ नहारमपि चादत्ते कामी कामं कपिञ्जलः ॥ १३ ॥ कलोविकूङ्कूत विरूतेः संप्रियो विटपे स्थितः ॥ मुहुर्मुहुर्विशालाक्षि उत्कण्ठ्यति कामिनः ॥ १४ ॥ क्षुद्रशाखां समारूढः शुकोऽयं कान्तया सह ॥ भारेण नमयञ्छाखां करोति सफलामिव ॥ १५ ॥ वनेमषिशितास्वादतृप्तो निद्राद्युपागतः ॥ शेते सिंहुवा कान्ताचरणवारणानतः ॥ १६ ॥ व्याघ्रयोर्मिथुनं पश्य शैलकन्दर- संस्थितम् ॥ ययोर्नखप्रभालोकैर्गुहा भिन्नेव लक्ष्यते ॥ १७ ॥ अय क्षीपी प्रियां लेढि जिह्वयेण पुनःपुनः ॥ प्रीतिमायाति महतीं लिह्यमानश्च कान्तया ॥ १८ ॥ उत्सङ्ककृतमूर्धानं निद्रपहतचेतसम् ॥ जनदूखरन्तः कान्तं सुवयत्येव वानरी ॥ १९ ॥ भूमौ निपतिता कान्तं मार्जारी ॥११९॥
१ 'पश्योय' इति ख० ।