भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 447, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 447

दर्शितोदरा ॥ नवैर्द्दन्तैस्तुदत्येषा न च पीड्यते तथा ॥ २० ॥ शशकः शशिका चोभे संसूते पीडिते इमे ॥ संह्लाद्येनाग्रचरणैः कर्णेन्यक्तिकमुपागते ॥ २१ ॥ सातं सरसि पद्माटवे वारणं मदमन्थरम् ॥ सम्भावयति तन्वङ्गि मृणालशकलैर्वशा ॥ २२ ॥ कान्तपोत्राग्रसुलतैः कान्ता घ्राणोल्लसारिणी ॥ करोति कव्वलं सूस्तेर्वराही पोतकानने ॥ २३ ॥ दृढाङ्गसन्धिरमहिषः कर्दमाप्लुतलोचने ॥ अनुब्रजति धावन्तीं प्रियां बद्धचतुष्ककः ॥२४॥ पश्य चार्वङ्गि सारङ्गं त्वत्कटाक्षनिभं वने ॥ सभायां मां तु पश्यन्तं कौतूहलसमन्वितम् ॥ २५ ॥ पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ॥ स्नेहार्द्रभावः कण्ठाति भर्ता शृङ्गाग्रकोटिना ॥ २६ ॥ दाडिमे चमरी पश्य सितवालमलगच्छतीम् ॥ अन्वास्ते चमरः कामी वीक्षते मां च गर्वितः ॥ ॥ २७ ॥ आतपे गवयः पश्य निविष्टो भार्यया सह ॥ रोमन्थमास्ये कुर्वाणः काके ककुदि धारयन् ॥ २८ ॥ पश्यायं भार्यया सार्द्ध न्यस्ताग्रचरणद्वयम् ॥ विपुले बदरीस्कन्धे तच्छद्मास्वादकाम्यया ॥ २९ ॥ हंसं सभायं सरसि विचरन्तं सुनिर्मले ॥ मुहुश्चूर्ण्येन्दुविम्बस्य पश्यन्तं सदृशश्रियम् ॥ ३० ॥ सभायश्चक्रवाकोऽयं कमलाकरमध्यगः ॥ करोति पद्मिनीं कान्तां सपुष्पामिव सुन्दरे ॥ ३१ ॥ मया फलोच्चयः सुभ्रु त्वया पुष्पोच्चयः कृतः ॥ इन्धनं न कृतं किञ्चित्तत्करिष्यामि साम्प्रतम् ॥ ३२ ॥ त्वमस्य सरसस्तीरे द्रुमच्छायामुपाश्रिता ॥ क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥ ३३ ॥ ॥ सावित्र्युवाच ॥ ॥ एवमेतत्करिष्यामि मम दृष्टिपथात्त्वया ॥ दूरे कान्त न गन्तव्यं बिभेमि गहने वने ॥ ३४ ॥ ॥ पुष्कर उवाच ॥ ॥ तस्य पातयतः काष्ठं जज्ञे शिरसि वेदना ॥ स वेदनार्त्तः सङ्गम्य भार्यां वचनमब्रवीत् ॥ ३५ ॥ ॥ सत्यवानुवाच ॥ ॥ आयासेन ममानेन जाता शिरसि वेदना ॥ तमश्च प्रविशामीव न च जानामि किञ्चन ॥ ३६ ॥ त्कत्सङ्गे शिरः कृत्वा निद्रेोपहृतलोचनः ॥ पुष्कर उवाच ॥ तदुत्सङ्गे शिरः कृत्वा सुष्वाप गतचेतनः ॥ ३७ ॥ पतिव्रता महाभागा ततत्सा राजकन्यका ॥ ददर्श धर्मराजं तु स्वयं तं देशमागतम् ॥ ३८॥ नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ॥ विद्युल्लतानिबद्धाङ्गं सतोयाभिव तोयदम् ॥ ३९ ॥ किरीटनाकंवर्णेन कुण्डलाभ्यां विराजितम् ॥ हारभाराणितोरस्कं तथाङ्गदिविभूषितम् ॥ ४० ॥ तथाप्तुमम्यमानं च कालेन सह मृत्युना ॥ स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा ॥ ४१ ॥ अङ्गुष्ठमात्रं पुरुषं पाशबद्धं वशङ्गतम् ॥ आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा ॥ ४२ ॥ साध्व्यपि वरारोहा त्यक्ता तं गतजीवितम् ॥ अनुवव्राज गच्छन्तं धर्मराजमतन्द्रिता ॥ ४३ ॥ तामुवाच यमो गच्छ यथागतमनिन्दिते ॥


१ 'स्वप्स्यामीति वचो ब्रूवन्' इति पाठान्तरम् ।