विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 461, कुल 1001 में से
संदर्भ में पढ़ेंकर्त्तव्यं शान्तिकं तन्निबोध मे ॥ १३ ॥ दिशीशानीं विनिष्क्रम्य ग्रामाद्देशे मनोरमे ॥ प्रागुदक्प्रवणे रम्यं स्थण्डिलं परिकल्पयेत् ॥ १४ ॥ नासत्यौ वरुणं देवं तथैवाश्वयुजे द्विज ॥ पूजयेत्प्रयतो विद्वान्गन्धमालयानुलेपनैः ॥ १५ ॥ धूपैर्दीपैर्नमस्कारैस्तथा चान्नेन भूरिणा ॥ समुल्लिख्य ततो वेदिं शाखाभिः परिवारयेत् ॥ १६ ॥ समन्ततस्तथाऽद्भिर्भवस्त्रैश्चाप्यहतैस्तथा ॥ घटान्सर्व्वरसैः पूर्णान्दिक्षु दद्याद्यथाविधि ॥ १७॥ विदिक्षु च तथा दद्याद्ध्वजच्छत्राणि बुद्धिमान् ॥ ततः समुपधायाग्निं जयप्रभृतिभिः पुनः ॥ १८ ॥ हुत्वोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ॥ ततः सम्पूजनीयास्तु गन्धमाल्यैस्तरङ्गि- णाः ॥ १९ ॥ सन्नद्धपुरुषा रूढाः सुसन्नाहास्तुरङ्गमाः ॥ सायुधैः पुरुषैः सार्धं वह्निं कुर्युः प्रदक्षिणम् ॥ २० ॥ त्रिः परिक्रामतो वह्निं श्वेतोत्कृष्टनिना- दितैः ॥ २१ ॥ शङ्खावारवनीमिश्रैर्नैतव्याः स्वगृहं ततः ॥ २१ ॥ रसानि तानि वासांसि गौः कांस्यं कनकं तथा ॥ दक्षिणा वै प्रदातव्यं कर्तुर्द्विजवरो- त्तम ॥ २२ ॥ कर्मणानेन भवति प्रसूतं रम्य वाहनम् ॥ हृष्टपुष्टं च धर्मेण गदामयविवर्जितम् ॥ २३ ॥ नित्यमेतत्त्वयादिष्टं शृणु नैमित्तिकं तथा ॥ अश्वानां मारके प्राप्ते व्याधौ वाप्यतिदारुणे ॥ २४ ॥ प्रकृतेश्च विपर्यास तथा मुण्डुकलोद्भव ॥ हयवारे शुभे देशे स्थण्डिलं परिकल्प- येत् ॥ २५ ॥ विन्यसेत्कमलं तत्र तन्मध्ये पूजयेद्धरिम् ॥ श्रियं च देवी तत्रैव केसरेषु च देवताः ॥ २६ ॥ ब्रह्माणं शङ्करं सोममादित्यं च तथा- श्विनौ ॥ रेवन्तमुग्रैः श्वसनं दिक्पालैश्च दलेष्वपि ॥ २७ ॥ सर्वेषां पूजनं कार्यं गन्धधूपान्नसम्पदा ॥ दीपमाल्यनमस्कारपुष्पैर्मूलैः सगोरसैः ॥२८॥ प्रत्येकं पूर्णकुम्भैश्च गन्धमाल्याद्यलङ्कृतैः ॥ तथा पिशितवस्त्रैश्च वर्धमानैः सतण्डुलैः ॥ २९ ॥ तथा प्रतिसरैःसूत्रैः पताकाभिश्च भार्गव ॥ तस्यै- वोत्तरतो वेदिं कल्पयित्वा यथाविधि ॥ ३० ॥ ततः समुपधायाग्निं यथोक्तानां पृथक्पृथक् ॥ ततोऽग्निग्रहवन्स्वाहा कांस्यं गां काञ्चनं तथा ॥ ३१ ॥ देयं वस्त्रयुगं कर्त्रे कारयित्रे तथैव च ॥ कर्मैतन्मर्त्यलोकानां सर्वबाधाविनाशनम् ॥ ३२ ॥ उपोपितेन कर्तव्यं ब्राह्मणेन यथाविधि ॥ उपोपितस्तदा तिष्ठेद्यजमानोऽपि भार्गव ॥ ३३ ॥ अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥ उपोषितौ सदा पौष्णे यजमानपुरोहितौ ॥३४॥ अश्विनोः सदा स्नानं कुर्य्यान्मे निबोधत ॥ अकालमूलो द्वौ कुम्भौ मधुककुसुमोत्कटौ ॥ ३५ ॥ अश्वगन्धायुतौ कृत्वा स्नाप्यस्ताभ्यां तदा भवेत् ॥ उत्तमं पूजयेद्विद्वाञ्चासत्यौ शशिनं तथा ॥ ३६ ॥ अश्विनौ वरुणं चैव शुक्लवासास्तथा हरिम् ॥ गन्धमाल्यनमस्कारधूपदीपान्न सम्पदा ॥ ३७ ॥ ततोऽश्वमिथुनं कार्यं सर्वौषधियुतं मुदा ॥ प्रणतेन ततो विद्वांस्ताभ्यामन्नं निवेदयेत् ॥ ३८ ॥ धूपश्चात्रं क्षपाधायं दद्याद्देवतानां तथैव च ॥ यथोक्तानां द्विजश्रेष्ठ जुहुयाच्च पृथक्पृथक् ॥ ३९ ॥ चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ॥ स्वाहान्तेनाथ शतशो मन्त्रपूते घृते