विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 462, कुल 1001 में से
संदर्भ में पढ़ेंद्विज ॥ ४० ॥ अश्वलोम तथा धार्यं फलमूले तथैव च ॥ एकत्र निवृतं कृत्वा मणिधार्यस्तु पूर्ववत् ॥ ४१ ॥ अलंघ्यनारीनादींते सदैव स्नानं च कुर्यात्प्रयता मनुष्यः ॥ अश्वानवाप्नोति सहस्रसंख्यान्कुलोद्भवान्बिद्यबलोपपन्नान् ॥४२॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वानां शान्तिकर्मविधानन्नाम सप्तचत्वारिंशत्तमोऽध्यायः॥४७॥ पुष्कर उवाच ॥ कुञ्जराः परमा शोभा शिबिरस्य बलस्य च॥ आयाति कुञ्जरेष्वेव विजयः पृथिविक्षिताम् ॥ १ ॥ तेषां संमार्जने यत्नं पालने च भृगूत्तम ॥ यथान्नृपतिः कुर्यादन्यथा कुञ्जरा मताः ॥२॥ जयन्ताश्च तथा धार्या यावन्तो पोषणं सुखम् ॥ कर्तुं शक्यं न धार्यास्ते क्षुधिता दुःखितास्तथा ॥ ३ ॥ दुःखितास्तै नृपां हन्युः कुलानि च भृगूत्तम ॥ तस्मात्तेषां सुखं कार्यं यशःश्रीविजयप्रदम् ॥ ४ ॥ सनद्धधूपरुषारूढैः सुसन्नद्धैस्तुरङ्गमःै ॥ अनल्पैरपि यद्युक्ते बलं परबलप्रणुत् ॥ ५॥ तदैकस्यापि समरे कुञ्जरस्य सवर्मणः ॥ न शक्यं प्रमुखे स्थातुं वेगादापततो द्विज ॥६॥ अभिन्नानां तु संघानां संहतानां च भेदनम् ॥एकः क्रुद्धो रणे कुर्यात्कुञ्जरः साधु चोदितः ॥७॥ मदक्लिन्नकपोलस्य किञ्चिदञ्चितचक्षुषः ॥ बृहद्गात्रोगण्डस्य कः शोभां कथितुं क्षमः ॥ ८॥ वेगेन धावमानस्य प्रसाधितकरस्य च ॥ कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्तिनः ॥९॥ यस्य फूत्कारमात्रेण तुरङ्गमशतान्यपि॥स्वारूढान्यपिवेगेन विद्रवन्ति दिशो दश॥१०॥ ततसैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः ॥ मूर्तिमन्विजयो राम कुञ्जरा मदगर्विताः ॥ ११ ॥ सपक्षा दूषवाद्यास्ते मनुजानां त्वपक्षकाः ॥ वाहनाथं कृता राम स्वयमेव तु वेधसा ॥ १२॥ दृष्ट्वा पताकाभिरलंकृतं तु नागेन्द्रसैन्यं प्रवलंयथाद्रिम् ॥ पतन्ति शीघ्रं हृदयान्यरीणां तस्मात्प्रधानाः सततं गजेन्द्राः १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गजप्रशंसा नामाष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥ पुष्कर उवाच ॥ अतः परं प्रवक्ष्यामि कुञ्जराणां चिकित्सितम् ॥ पाक्लेषु तु सर्वेषु कर्तव्यमनुवासनम् ॥ १ ॥ घृततैलपरीतैः स्याने वातविवर्जितम् ॥ स्कन्धेषु च तथा कार्या क्रिया पाक्लब्र्विद्दिज ॥२॥ गोमूत्रं पाण्डुरोगे तु रजनीभियुतं हितम् ॥ आनाहे तैलसिक्तास्य निवातस्थं प्रशस्यते ॥३॥ लवणैः पञ्चभिर्मिश्रा प्रतिपानाय वारुणी ॥ विडङ्गतिफलाव्योपैःसैन्धवैः कवलाः कृताः ॥४॥ मूर्च्छास्वम्भोवजयन्नागं शोधंतव्यं तु पाययेत् ॥ अन्वङ्गः शिरसः कार्यो नस्यञ्चैव प्रशस्यते ॥ ५ ॥ नागानां स्नेहकृद्भिः पादरोगातुषक्रमत् ॥ पञ्चकोल्यकषायेण शोधनं च विधीयते ॥ ६ ॥ ......मन्दनं कार्यं मृदुस्निग्धं च भोजयेत् ॥ शिम्बितित्तिलवानां पिप्पलीर्मािरचान्वितैः ॥ ७ ॥ रसैः सम्भोजयेन्नागं वपुर्युक्तेन जायते ॥ बालविल्वं तथा रोध्रं धातुकी विवृषा सह ॥८॥ अतीसारविनाशाय पिण्डं भुञ्जीत कुञ्जरः ॥नस्यं करभहे देयं घृतं लवणसंयुतम् ॥ ९॥ मागधी मरिचाढ्या च यवागूर्मन्द