विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 468, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध०
॥२१०॥
द्वि० सं०
अ० ५२
मूलमेतद्गतः श्रियः ॥२॥ सुसहायार्थसम्पन्नं बलं यस्य महीपतेः ॥ संग्रामे तुमुले राम नूनं तस्य जयो भवेत् ॥ ३ ॥ सकृद्येन कृतं पापं तस्य
राजा न विश्वसेत् ॥ पापं तु सुकरं तस्य सुकृतञ्चास्य दुष्करम् ॥ ४ ॥ यथा हि मलिनेनैवधैर्येन तत्रापविश्यते ॥ तथा चलितवृत्तस्तु वृत्तशेषं
न रक्षति ॥ ५ ॥ राजा न वेश्ययेत्कार्यं जनो यो नास्तिको भवेत् ॥ आस्तिको अपि तत्सङ्गान्मृत्युः संशयं द्विज ॥ ६ ॥ अनाहायेप्रम
स्यापि त्रैलोक्याद्राक्षसितात्मनः ॥ कृष्णता राहूसंसर्गान्निष्कैन सूर्यस्य वा भवेत् ॥७॥ अकार्यमित्यकार्याणि कुर्यात्कार्यावश्येन यः ॥ विचिकित्सुर्ध्रुवं
राम पश्चादपि निवर्त्तते ॥ ८ ॥ कार्यं बुद्ध्या त्वकार्याणि यः करोति नराधमः ॥ अकार्यकरणे श्रद्धा तस्य भूयोभिवर्धते ॥ ९ ॥ लोकः सर्वो
महाभाग परलोकनिबन्धनः ॥ निष्पेक्ष्य तत्त्वान्या का गतिः स्यान्निबन्धन्ये ॥ १० ॥ महापातकिनो येऽपि तेभ्योऽपि च महत्तरः ॥
पापकृन्नास्तिको लोकस्तस्मात्तं परिवर्जयेत् ॥ ११ ॥ आस्तिकानां च साधूनां संग्रहः शस्यते सदा ॥ ते सहाया नरेन्द्रार्णा तथा ये
राम पण्डिताः ॥ १२ ॥ न पण्डितो मते राम बहुपुस्तकधारणात् ॥ परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥ १३ ॥ अग्निहोत्रफला वेदा
दत्तभुक्तफलं धनम् ॥ रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ १४ ॥ शीलोपपन्नो नृपतिः सहायैः शरैस्तथाल्पैरपि सम्प्रयुक्तः ॥ प्रभूतनागा
श्वबलोकटानां करोत्यरीणां कदनं रणेपु ॥ १५ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुरुषप्रशंसा
नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ ॥ अतः परं प्रवक्ष्यामि नराणां ते चिकित्सितम् ॥ तत्राप्यादां तथा
स्त्रीणां यन्मूलं प्रजनं यतः ॥ १ ॥ महाजम्बूद्वयं रोध्रं मधूकं मधु शर्करा ॥ तण्डुलोदकसंयुक्तां शोणितप्रदरे पिबेत् ॥ २ ॥ ऊर्ध्वं संवत्सराद्वारी
रक्तगुल्मे विचेष्टते ॥ क्षिप्रंविस्वंशरीराश्च राम तीक्ष्णैर्विरेचनैः ॥ ३ ॥ ज्वरेण च पलाशस्य संसिद्धं यावकं पिबेत् ॥ अग्निसन्धुक्षणं चान्या
स्तथा कार्यं प्रयत्नतः ॥ ४ ॥ प्रस्थं वृषकमूलस्य तैलं प्रस्थं विपाचयेत् ॥ योनीनां परिकोपेषु वेदनामपकर्षति ॥५॥ सौराष्ट्री रोचना रोधं मधूकं
त्रिफला मधु ॥ भद्रमुस्तानि चूर्णानि वाजीकरणमुत्तमम् ॥ ६ ॥ अश्वगन्धाविषेविलेन वराहस्य तु मेदसा ॥ ग्रन्थीकरणमभ्यङ्गं योषितां
परिकीर्तितम् ॥ ७ ॥ एकमामलकं काले सलिलेनाडलिता पिबेत् ॥ सृष्टं कृष्णायसे भाण्डे तेन शातोदरी भवेत् ॥ ८ ॥
त्रिफलां चित्रकं शुण्ठीं मधुना तु लिहेत्सदा ॥ स्थूलानां वरनारीणां कृशीकरणमुत्तमम् ॥ ९ ॥ अश्वगन्धां पयस्यां च
संमृज्य पयसा पिबेत् ॥ मासमेतन्मनुज्ञानां कृशा भवति मांसला ॥ १० ॥ वराहवस्या कार्यमभ्यङ्गान्द्विधायकेत्या ॥ स्तनानां मर्दनं
तेन नारी पीनस्तनी भवेत् ॥ ११ ॥ मूलकस्य च्युतं बीजं तथैव तगरस्य च ॥ सतरोत्रं तु गोमूत्रे सिध्मनाशनसुत्तमम् ॥ १२ ॥
॥२१०॥