विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 471, कुल 1001 में से
संदर्भ में पढ़ेंएष लेहवरः श्रेष्ठश्छर्द्दिप्रशमनः शुभः ॥ अपामार्गविडङ्गानि पिप्पली मरिचं तथा ॥ ६४ ॥ सैन्धवं तण्डुलं चैव मधुसर्पिःसमन्वितम् ॥ व्याघ्रीरसेन लेहोऽयं हिक्काश्वासविनाशनः ॥ ६५ ॥ बिभीतकत्वचा श्रेष्ठं हरितालं मनःशिला ॥ एतैस्तैलं पचेद्गुप्तामार्त्तिकिभिनाशनम् ॥ ६६ ॥ क्षौद्रेण लेह्या तुवरा पिप्पलीत्वतिवापहा ॥ श्लेष्मारेगेषु सर्वेषु बालानां भेषजं परम् ॥ ६७ ॥ रोध्रन्धवऽमधुन सहधृतमतिसारविनाशिनी ॥ सप्त- पर्णत्वक् च दूर्वा तथा कटुकरोहिणी ॥ ६८ ॥ एतदुद्वर्त्तनं श्रेष्ठं सर्वग्रहविनाशनम् ॥ भङ्गां वचां शङ्खपुष्पीमेरण्डं सप्तपर्णकम् ॥ ६९ ॥ सम- न्तपुष्पीसंयुक्तमपामार्गं च पुष्करम् ॥ क्वाथयित्वा च दातव्यं स्नानं सद्यः सुखावहम् ॥ ७० ॥ सर्पिषा निम्बपत्राणि गोविषाणं घृतं मधु ॥ एतेन धूपितो बालो महदोषैर्विमुच्यते ॥ ७१ ॥ अपामार्गस्य बीजानि बिल्वमूलफलानि च ॥ अगुरुं चन्दनं चैव सप्तपर्णस्य वल्कलम् ॥ ७२ ॥ एतदालेपनं कुर्यात्सर्वग्रहविनाशनम् ॥ मातरश्च ग्रहाश्चैव बालं तु बलिकर्मणा ॥ ७३ ॥ क्षिपमेव प्रमुञ्चन्ति तस्माद्यालेन कारयेत् ॥ तरुवृक्षं वराहाणां दंष्ट्रा गोरोचना वचा ॥ ७४ ॥ रत्नान्यन्यस्तथा कृष्णं वस्त्रं धार्यं तु बालकैः ॥ जातस्य राम बालस्य हेमन्ते प्रथमेऽथवा ॥ ७५ ॥ शिशिरे वापि कर्त्तव्यं कर्णवेधं तथा शृणु ॥ ग्रहाणां तत्र सर्वेषां दिनवारः प्रशस्यते ॥ ७६ ॥ तिथिं चतुर्थी नवमीं वर्जयित्वा चतुर्दशीम् ॥ सावित्रं वैष्णवं त्वाष्ट्रमादित्यं पौष्णमाश्विनम् ॥ ७७ ॥ कर्णवेधे प्रशस्यन्ते सोमदेवं तथैव च ॥ पूर्वाह्ने पूजनं कृत्वा केशवस्य हरस्य च ॥ ७८ ॥ ब्रह्मणश्चेन्दुसूर्य्याभ्यां दिगीशानां तथैव च ॥ नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा ॥ ७९ ॥ गुरूणां मण्डलं कृत्वा तत्र दत्त्वा सुवासनम् ॥ दत्त्वोपवेशयेत्तत्र धात्रीं शुक्लाम्बरां तथा ॥८०॥ स्वलंकृतां तदुत्सङ्गे बालं कृत्वा तु सान्त्वितम् ॥ धृतस्य निश्चलं सम्यग्गले कनकसूचिकाम्॥८१॥ विध्येद्देवकृते छिद्रे सकृदेव तु लाघवात् ॥ प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ॥ स्नेहाक्तं सूच्यनुस्यूतं सूत्रं वायुनिधापयेत् ॥ ८२ ॥ तैलाभ्यक्ते ततः कर्णे कार्यमाभरणं भवेत् ॥ कर्णवेधाद्दिने विप्रं सांवत्सरचिकित्सकौ ॥ पूज्याश्वाविधवा नार्यः सुहृदश्च तथा द्विजाः ॥ ॥ ८३ ॥ चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ॥ सौरभौमादिनं चैव तिथिं रिक्तां च वर्जयेत् ॥ ८४ ॥ चतुर्थी नवमीं चैव रिक्तां चैव चतुर्दशीम् ॥ आग्नेयं वैष्णवं हस्तमादित्यं पौष्णमश्विनम् ॥ ८५ ॥ भाग्यं त्वाष्ट्रं च पुष्यं च तत्र कर्मणि शस्यते ॥ दिगीशानां दिशं तत्र तथा चन्द्राकँयोर्द्विज ॥ ८६ ॥ पूजनं वासुदेवस्य गगनस्य च कारयेत् ॥ तत्र स्वलंकृता धात्री बालमादाय पूजितम् ॥ ८७ ॥
१ 'बला' इत्यादि० ।