भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 474, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 474
वि० ध०
॥२१३॥
द्वि० खं०
अ० ५६

ऽध्यायः॥५२॥ श्रीपरशुराम उवाच ॥ पुत्रीयं भगवन्स्नानं पुत्रीयमथ सप्तमीम् ॥ पुत्रीयं च समाचक्ष्व तथा वै केशवव्रतम्॥१॥ पुष्कर उवाच ॥
उपोषितौ कृत्तिकासु यजमानपुरोहितौ ॥ रोहिण्यां स्नपनं कुर्य्याद्यजमानस्य भार्गव ॥ २ ॥ क्षीरवृक्षप्ररोहाभ्यां सितमाल्यविभूषितम् ॥
प्रियङ्गुचन्दनेोपेतमपञ्च कुम्भानप्रपूजयेत् ॥ ३ ॥ प्राङ्मुखं व्रीहिराशिश्च कुम्भैस्तैरेभिषेचयेत् ॥ विष्णुं शशाङ्कं वरुणं रोहिणीं च प्रजाप-
तिम् ॥ ४ ॥ पूजयेत्प्रयतः श्रद्धी गन्धमाल्यानुलेपनैः ॥ धूपः प्रजापतेर्देयस्तथैव शतर्कैशयाः ॥५॥ पञ्चपुष्पैश्चन्दिग्धांश्चा व विनिवेदयेत् ॥
प्रजाध्यक्षाय होमञ्च देवतानां तु कारयेत् ॥६॥ घृतेन सर्वबीजैश्च शुक्लवासा जितेन्द्रियः ॥ दक्षिणां गुरवे देयत्कांस्यं गौर्वाससी शुभे ॥ ७ ॥
सुवर्णं च महाभाग विप्राणामथ शक्तितः ॥ शुक्ला च गौर्वृषः शुक्लोस्तयोलोम शर्क तथा ॥८॥ शृङ्गाणि त्रिवृतं कृत्वा मणिर्र्घण्टेस्ततो भवेत् ॥९॥
अलंकृतं केशमिदं सदैव स्नानं तु कुर्वन्पुरुषोऽथवा स्त्री ॥ पुत्रानावप्नोति तथैधतां च पुष्टिं तथाग्र्यां विपुलां च कीर्तिम् ॥ १० ॥ इति श्रीविष्णु
धर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयरोहिणीस्नानवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ पुष्कर उवाच ॥
मार्गशीर्षे शुभे मासि शुक्लपक्षे द्विजोत्तम ॥ पुत्रीयां सप्तमीं राम गृहीयान्नियतः शुचिः ॥ १ ॥ अथवा पुत्रकामा स्त्री विधिना येन तच्छृणु ॥
हविष्याशी शिरःस्नातः कृत्वा ब्राह्मणपूजनम् ॥ २ ॥ अधःशायी द्वितीयेऽह्नि गोविषाणोदकेन च ॥ स्नातोपविष्य च तथा शुभे देशे तु
मण्डलम् ॥ ३ ॥ तत्राष्टपत्रं कमलं विन्यसेद्गन्धकैः शुभैः ॥ तस्यैव कर्णिकामध्ये भास्करं पूजयेद्देवं गन्धमाल्यानुले
पनैः ॥ भक्ष्यैर्भोज्यैस्तथा पेयैर्धूपैर्दीपैस्तथैव चा॥४॥ एवं संपूजनं कृत्वा सर्वकामप्रदस्य तु ॥ नक्तं भुंजीत धर्मज्ञ सर्वकर्मविवर्जितः ॥५॥ दन्तो-
लूखलो भूत्वा कृत्वा संवत्सरव्रतम् ॥ व्रतावसाने दातव्या ब्राह्मणदक्षिणा ॥६॥ तथा त्रिरात्रमुपवायं कर्तव्यं द्विजभोजनम् ॥ अधःशाय्य
निशं तां च भूय एव तथा भवेत् ॥८॥ पुत्रीयमेतद्द्रुतसुत्तमं ते मयोदितं कल्मषनाशकारि ॥ आराध्यनं देववरस्य राम सर्वामयं च तथैतदुक्तम्
॥ ९॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयासप्तमीव्रतं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
पुष्कर उवाच ॥ प्रोष्ठपादामतीतायां कृष्णपक्षाष्टमीं तु या ॥ सोपवासो नरस्तस्यां योषिद्वा तनयार्थिनी ॥१॥ स्नाता सरसि धर्मज्ञ तोये चाप्यथ
सारसे ॥ पूजनं वासुदेवस्य यथा कुर्य्यात्तथा शृणु ॥ २ ॥ घृतमप्स्वेन गोविन्दं स्नापयित्वा जगद्गुरुम् ॥ क्षौद्रेण च ततः पश्चाद्दध्ना च स्नपयेत्ततः
॥ ३ ॥ क्षीरेण स्नपनं कृत्वा ततः पश्चाद्विकल्पितम् ॥ सर्वोषधैश्च गन्धैश्च सर्वबीजफलैस्तथा ॥ ४ ॥ स्नापयित्वाथविलिप्येत चन्दनागुरुकुङ्कुमैः ॥
॥२१३॥
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 474, कुल 1001 में से · BharatKosha