विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 475, कुल 1001 में से
संदर्भ में पढ़ेंकर्पूरेण तथा राम तथा जातीफलैः शुभैः ॥ ५ ॥ ततः कालोद्भवैः पुष्पैः पूजयित्वा जनार्द्दनम् ॥ धूपं चागुरुणा दत्त्वा कृत्वा नैवेद्यमुत्तमम् ॥ ६ ॥ विशेषाद्घोरसम्पायं पुन्नागैरन्वितैः फलैः ॥ पौरुषेण च सूक्तेन हुत्वा चानन्तरं घृतम् ॥ ७ ॥ शूद्रो वाप्यथवा नारी नाम्ना हुत्वा जगद्गुरुम् ॥ यवपात्राणि दद्यात्तु फलानि कनकं तथा ॥ ८ ॥ पुत्रार्थं प्राशनं कुर्यात्फलैः पूगादिभिः शुभैः ॥ स्त्रीनामभिश्च कन्यार्थी ततो भुक्त्वा यथेप्सितम् ॥ ९ ॥ पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान् ॥ हविष्यं देवदेवस्य भूमिशोभां तु कारयेत् ॥ १० ॥ संवत्सरमिदं कृत्वा व्रतमाप्नोत्यभीप्सितम् ॥ पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान् ॥ ११ ॥ पुत्रीयमेतद्व्रतमुक्तं ते मयेरितं यद्यपि धर्मनित्यम् ॥ तथाप्यनेनैव समस्तकामान्कृतेन लोके पुरुषा लभन्ते ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पुत्रीयाष्टमीव्रतं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ ॥ श्रीपरशुराम उवाच ॥ भगवञ्छ्रोतुमिच्छामि पुरुषाणां चिकित्सितम् ॥ तन्ममाचक्ष्व देवेश तत्र मे संशयो महान् ॥ १ ॥ पुष्कर उवाच ॥ रक्ष त्वं महाभाग लङ्घयेज्ज्वरितं नरम् ॥ सविश्वं लाजमण्डं तु लंघितं तच्च भोजयेत् ॥ २ ॥ मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ॥ शृतं शीतं पयश्चात्र दातव्यं तृट्प्रशान्तये ॥ ३ ॥ षडहे च व्यतिक्रान्ते तिक्तकं पाययेद्रसम् ॥ स्नेहयेत्पक्वदोषं च ततस्तं च विरेचयेत् ॥ ४ ॥ जीर्णषष्टिकनीवाररक्तशालिप्रमोदकाः ॥ तद्विधाश्चतुराः श्रेष्ठाः यवानां विकृतिस्तथा ॥ ५ ॥ मुद्गा मसूराश्चणकाः कुलत्थाः समकुण्ठकाः ॥ आढकी च फलं मूले यूषार्थे ज्वरिणां हितम् ॥ ६ ॥ कृष्णशुक्लकवन्तीकीर्त्तितैरेणकपिञ्जलाः ॥ लावाद्या जाङ्गलाःश्रेष्ठाः ज्वरिणां तद्विधाश्च ये ॥ ७ ॥ पटोलं सफलं निम्बं कर्कोटककटिल्लकम् ॥ शाकं पर्पटकं चाद्याद्द्रव्यार्थे दाडिमं हितम् ॥ ८ ॥ अयोगे वमनं शस्तमूर्द्धगे च विरेचनम् ॥ रक्तपित्ते तथा पाने षडङ्गं शुण्ठिवर्जितम् ॥ ९ ॥ लाजा सिञ्चिति कामं तु यवगोधूमशालयः ॥ मसूरमुद्गचणकाः खण्डिताः समकुष्ठिकाः ॥ १० ॥ हृद्या गोधूमिका भक्ष्या घृतक्षीरोपसाधिताः ॥ सक्षौद्रशर्करापेतास्तथा वृषरसो हितः ॥ ११ ॥ अतीसारे पुराणानां शालीनां भक्षणं हितम् ॥ अनभिष्यन्दि वा चान्यद्रोद्रवृत्तसकसंस्युतम् ॥ १२ ॥ मारुतानां जये यत्नः कार्यो गुल्मेषु सर्वथा ॥ वातक्षीरेण चाश्नीयाद्घृतयुक्तं घृतसाधितम् ॥ १३ ॥ कुक्कुटा बर्हिणः श्रेष्ठास्तिक्ता गोधूमशालयः ॥ हिता जठरिणां भोज्ये यवगोधूमशालयः ॥ १४ ॥ मुद्गाः कुलत्थाः कोलानि जाङ्गला मृगपक्षिणः ॥ पटोलनिम्बधान्याम्रशुण्ठिकामूलकैः सर्व्वैः ॥ १५ ॥ मातुलुङ्गरसाजातिसिद्धवृक्षाम्लवेतसैः ॥ आहारं जठरे युक्त्या यथादोषं प्रकल्पयेत् ॥ १६ ॥ कुष्ठिनां च तथा शस्तं पानार्थे खदिरोदकम् ॥ मसूरमुद्गौ यूषार्थे