विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 479, कुल 1001 में से
संदर्भ में पढ़ेंरसायनमिवर्षीणां देवानाममृतं यथा ॥ ९४ ॥ स्वक्षेत्रोत्तममंगानां भैषज्यमिदमश्नुते ॥ वातश्लेष्मात्मको देशो बहुवृक्षो बहुदकः ॥ ९५ ॥ अनूप इति विख्यातो जाङ्गलस्तद्विवर्जितः ॥ किंचिद्वृक्षाल्पिको देशस्तथा साधारणः स्मृतः ॥ ९६ ॥ जाङ्गलः पित्तबहुलो मध्यः साधारणो मतः ॥ रूक्षशीतबलो वातः पित्तमुष्णकटुद्रवम् ॥ ९७ ॥ स्थिरस्निग्धमधुरं श्लेसं च प्रचक्षते ॥ वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः ॥ ९८ ॥ समाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥ कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः ॥ ९९ ॥ कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्धनाः ॥ तिक्ताः स्वादुकषायाश्च तथा पित्तविनाशनाः ॥ १०० ॥ स्वभावस्तत्कथा कर्म ते च कुर्वन्ति भार्गव ॥ शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ॥ १०१ ॥ चयप्रकोपप्रशमास्तथा पित्तस्य कीर्त्तिताः ॥ निदाघे वारिदा रात्रे तथा शरदि भार्गव ॥ १०२ ॥ चयप्रकोपप्रशमास्तथा वातस्य कीर्त्तिताः ॥ चयप्रकोपप्रशमाः श्लेष्मणश्च प्रकीर्तिताः ॥ १०३ ॥ संवत्सरो द्वादशाङ्गो मासभेदेन कीर्तितः ॥ द्विधा तु मतभेदेन भूय एव प्रकीर्तितः ॥ १०४ ॥ आदानश्च विसर्गश्च तत्रापि परिकीर्तितौ ॥ वर्षादयो विसर्गाश्च हेमन्ताद्याः स्मृतास्त्रयः ॥ १०५ ॥ मेघकाले च शरदि हेमन्ते च यथाक्रमात् ॥ चयप्रकोपप्रशमास्तथा पित्तस्य कीर्तितः ॥ १०६ ॥ शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥ सौम्यो विसर्ग स्त्वादानं चाग्नेयं परिकीर्तितम् ॥ १०७ ॥ वर्षादीन्द्दीनृतून्नाम चतुःपर्याययोगरसान् ॥ विवर्धयेत्तथा तिक्तकषायकटुकाक्रमात् ॥ १०८ ॥ यथा राजन्यो वर्धन्ते बलमेवं विवर्धते ॥ क्रमशौश्च मनुष्याणां हीयमानासु हीयते ॥ १०९ ॥ रात्रिभुक्तं दिनान्ते तु दिवसम्य तथैव च ॥ आदिमध्या वसानेषु कफपित्तसमीरणाः ॥ ११० ॥ प्रकोपं यान्ति कोपादौ काले येषां चयः स्मृतः ॥ प्रकोपानन्तरजे काले शमस्तेषां प्रकीर्तितः ॥ १११ ॥ अतिभोजनतो राम तथा चाभोजनेन च ॥ सर्वेऽपि रोगा जायन्ते वेगोदीरणधारणैः ॥ ११२ ॥ अनेन कुशेलोर्द्धांशौ पानेनैकं प्रपूरयेत् ॥ आश्रयं पवनादीनां तथैक्रमवशोषयेत् ॥ ११३ ॥ व्याधिनिदानस्य तथा विपरीतमोषधम् ॥ कर्तव्यमेतद्देवात्र मया सार्धं प्रकीर्तितम् ॥ ११४ ॥ नाभे रूर्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ॥ बलसपित्तवातानां देहे स्थानं प्रकीर्तितम् ॥ ११५ ॥ तथापि सर्वगा एते देहे वायुर्विशेषतः ॥ देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥ ११६ ॥ कृशोल्पकेशश्चपलो बहुवाग्विपथमानसः ॥ व्योमगश्च तथा स्वप्ने वातप्रकृतिकिरुच्यते ॥ ११७ ॥ अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥ स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥ ११८ ॥ दृढाङ्गः स्थिरचित्तश्च सुभगः स्थिरसूर्यजः ॥ शुक्लाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः ॥ ११९ ॥ तामसा राजसाश्चैव सात्त्विकाश्च तथा स्मृताः ॥ मानुषा भृगुशार्दूल वातपित्तकफा