विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 481, कुल 1001 में से
संदर्भ में पढ़ेंत्रसम्पदा ॥ २ ॥ दध्ना च परमान्नेन गुडेन लवणेन च ॥ पूजनेर्ब्राह्मणानां च पूजयित्वा निशाकरम् ॥ ३ ॥ यावदस्तं न यातीन्दुस्तावदेव समाचरेत् ॥ आहारं गौरसपिष्पञ्चःशायी निशं नयेत् ॥ ४ ॥ ततः संवत्सरे पूर्णे सौम्यमासे द्विजोत्तम ॥ बालेन्दोः पूजनं कृत्वा ब्राह्मणानां च पूजनम् ॥ ५ ॥ वाससी रक्तकुम्भं च काञ्चनं च द्विजातये ॥ दत्त्वा च पूजयित्वा च व्रतपारङ्गतो भवेत् ॥ ६ ॥ व्रतेनानेन धर्मज्ञ रोग- मेवं व्यपोहति ॥ सर्वसौख्यं तथा द्रव्यं पुष्टिं च मनुजोत्तम ॥ ७ ॥ कामं समाप्नोत्यथवैकमिष्टं येन व्रतेनाथ समस्तमधर्मम् ॥ अभ्यासास्तत्तमस्य समस्तकामान्नरः समाप्नोति किमत्र चित्रम् ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आरोग्यप्रद- तीया नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥ ॥ पुष्कर उवाच ॥ ॥ संवत्सरावसाने तु पञ्चदश्यामुपोषितः ॥ पूजयेद्भास्करं देवं वर्णकैः कमलैः कृते ॥ १ ॥ शुक्लेन गन्धमाल्येन चन्दनेन सितेन च ॥ तथा कूर्मेण धूपेन घृतदीपेन भार्गव ॥ २ ॥ अपूपैः सैकतैर्द्वाभ्यां परमान्नेन स्रपिषा ॥ ओदनेन च शुक्लेन सितालवणसर्षिषा ॥ ३ ॥ क्षीरेण च फलैः शुक्लैर्द्विजांस्तर्पयेत् ॥ पूजयित्वा जगद्धात्रीं दिनभागे चतुर्थके ॥ ४ ॥ आहारं प्रथमं कुर्यात्सघृतं मनुजोत्तमः ॥ रसं च मनुजश्रेष्ठ घृतहीनं विवर्जयेत् ॥ ५ ॥ भुक्त्वा च सकृद्देवान्नाहारं समुपाचरेत् ॥ पानीयपानं कुर्वीत ब्राह्मणामुमते पुनः ॥ ६ ॥ संवत्सरमिदं कृत्वा ततः कृत्वा त्रयोदशम् ॥ पूजनं देवदेवस्य तस्मिन्नहनि भार्गव ॥ ७ ॥ समापयेद्व्रतं पुण्यं राम कुम्भं द्विजातये ॥ सहिरण्यं सवस्त्रं च तथा दद्याद्द्विजोत्तम ॥ ८ ॥ व्रतेनानेन धर्मज्ञ रोगमेव व्यपोहति ॥ आरोग्यमाप्नोति गतिं तथाग्र्यां यशस्तथाग्र्यं विपुलंश्च भोगान् ॥ व्रतेन सम्यक्पुरुषो धनार्थी सम्पूजयेश्चाथ जगत्प्रधानम् ॥ ९ ॥ इति श्रीवि- ष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आरोग्यप्रतिपन्नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥ पुष्कर उवाच ॥ शुक्लपक्षावसाने तु यद्राम दिनपञ्चकम् ॥ तत्र सम्पूजयेद्विष्णुं विधिना येन तं शृणु ॥ १ ॥ गोमूत्रं गोमयं क्षीरं दधिसर्पिस्तथैव च ॥ एकैकेन चरेत्स्नानमेकाद- श्यादिषु क्रमात् ॥ २ ॥ कौपताडागनाद्यैः पञ्चभिस्सारसैर्जलैः ॥ कर्तव्यं क्रमशः स्नानं स्नातः सम्पूजयेद्धरिम् ॥ ३ ॥ तैलेनमिश्रगुग्गुलं क्षौद्रं क्षीरं सर्पिञ्च भार्गव ॥ स्नपयेद्देवदेवस्य कर्तव्यं स्याद्दिनक्रमात् ॥ ४ ॥ कालागुरुमुशीरं च तथा जातीफलं द्विज ॥ कर्पूरं चन्दनं चैव कल्पयेद्बहुलेपने ॥५॥ कुसुमैरम्बुजातेषु गन्धवस्तु सितेषु च ॥ एकैकं कल्पयेज्जातिं श्रद्धया दिवसक्रमात् ॥६॥ कृष्णा गौरा तथा ताम्रा कपिला च सिता तथा ॥ दद्याद्धेनुस्तद्घृतं देयं दीपार्थं दिवसक्रमात् ॥ ७ माषमुद्गकलापानां चणकस्य तिलस्य च ॥ भक्ष्याणि विनिवेद्यानि तथैव दिवसक्रमात् ॥ ८ ॥ ३७